Jump to content

सीतोपनिषद् (उपनिषद्)

विकिपिडिया नं
नेपाललिपि परिक्षण: 𑐠𑑂𑐰 𑐥𑑁𑐫𑐵 𑐣𑐾𑐥𑐵𑐮𑐮𑐶𑐥𑐶𑐂 𑐥𑐬𑐶𑐎𑑂𑐲𑐞 𑐥𑑁 𑐧𑑂𑐰𑐣𑐾𑐟: सीतोपनिषद् (उपनिषद्) 𑐟𑐶𑐫𑐵𑐡𑐶𑐳𑑄𑑋

सीतोपनिषद् (उपनिषद्) छगू काव्य ख। थ्व काव्य मुक्तिक उपनिषद्‌या अन्तर्गतय् उपनिषद् दुने ला []। थ्व श्रुति प्रचलनया छगू महत्त्वपूर्ण धार्मिक ग्रन्थ ख।

श्लोक

[सम्पादन]

थुकिया श्लोक थ्व कथं दु-[]

उपनिषद्

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाङ्ं सस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ।

ॐ शान्तिः शान्तिः शान्तिः ॥

देवाह वै प्रजापतिमब्रुवन्का सीता किं रूपमिति ॥१॥

स होवाच प्रजापतिः सा सीतेति: सीतेति।
मूलप्रकृतिरूपत्वात्सा सीता प्रकृतिः स्मृता।
प्रणवप्रकृतिरूपत्वात्सा सीता प्रकृतिरुच्यते ॥२॥

सीता इति त्रिवर्णात्मा साक्षान्मायामयी भवेत्।
विष्णुः प्रपञ्चबीजं च माया ईकार उच्यते ॥३॥

सकारः सत्यममृतं प्राप्तिः सोमश्च कीर्त्यते ।
तकारस्तारलक्ष्म्या च वैराजः प्रस्तरः स्मृतः ॥४॥

ईकाररूपिणी सोमाऽमृतावयवदिव्यालङ्कारस्रङ्मौक्तिकाद्याभरणलङ्कृता महामायाऽव्यक्त-रूपिणी व्यक्ता भवति ॥५॥

प्रथमा शब्दब्रह्ममयी स्वाध्यायकाले प्रसन्ना ।
उद्भावनकरी सात्मिका द्वितीया भूतले हलाग्रे समुत्पन्ना ।
तृतीया ईकाररूपिणी अव्यक्तस्वरूपा भवतीति सीताइत्युदाहरन्ति शौनकीये ॥६॥

श्रीरामसान्निध्यवशाज्जगदानन्दकारिणी ।
उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥७॥

सीता भगवती ज्ञेया मूलप्रकृतिसंज्ञिता ।
प्रणवत्वात्प्रकृरिति वदन्ति ब्रह्मवादिन इति ॥८॥

अथातो ब्रह्मजिज्ञासेति च ॥९॥

सा सर्ववेदमयी सर्वदेवमयी सर्वलोकमयी सर्वकीर्तिमयी सर्वधर्ममयी सर्वाधारकार्य-कारणमयी महालक्ष्मीर्देवेशस्य भिन्नाभिन्नरूपा चेतनाचेतनात्मिका ब्रह्मस्थावरात्मा तद्गुणकर्म-विभागभेदाच्च्हरीरूपा देवर्षिमनुष्यगन्धर्वरूपा असुरराक्षसभूतप्रेतपिशाचभूतादिभूतशरीरूपा भूतेन्द्रियमनःप्राणरूपेति च विज्ञायते ॥१०॥

सा देवी त्रिविधा भवति शक्त्यासना इच्च्हाशक्तिः क्रियाशक्तिः साक्षाच्च्हक्तिरिति ॥११॥

इच्च्हाशक्तिस्त्रिविधा भवति ।
श्रीभूमिनीलात्मिका भद्ररूपिणी प्रभावरूपिणी सोमसूर्याग्निरूपा भवति ॥१२॥

सोमात्मिका ओषधीनां प्रभवति कल्पवृक्षपुष्पफललतागुल्मात्मिका औषधभेषजात्मिका अमृतरूपा देवानां महस्तोमफलप्रदा अमृतेन तृप्तिं जनयन्ती देवानामन्नेन पशूनां तृणेन तत्तज्जीवानां ॥१३॥

सूर्यादिसकलभुवनप्रकाशिनी दिवा च रात्रिः कालकलानिमेषमारभ्य घटिकाष्टयाम-दिवसवाररात्रिभेदेन पक्षमासर्त्वयनसंवत्सरभेदेन मनुष्याणां शतायुःकल्पनया प्रकाशमाना चिरक्षिप्रव्यपदेशेन निमेषमारभ्य परार्धपर्यन्तं कालचक्रं जगच्चक्रमित्यादिप्रकारेण चक्रवत्परि-वर्तमानाः सर्वस्यैतस्यैव कालस्य विभागविशेषाः प्रकाशरूपाः कालरूपा भवन्ति ॥१४॥

अग्निरूपा अन्नपानादिप्राणिनां क्षुत्तृष्णात्मिका देवानां मुखरूपा वनौषधीनां शीतोष्णरूपा काष्ठेष्वन्तर्बहिश्च नित्यानित्यरूपा भवति ॥१५॥

श्रीदेवी त्रिविधं रूपं कृत्वा भगवत्संकल्पानुगुण्येन लोकरक्षणार्थं रूपं धारयति ।
श्रीरिति लक्ष्मीरिति लक्ष्यमाणा भवतीति विज्ञायते ॥१६॥

भूदेवी ससागरांभः सप्तद्वीपा वसुन्धरा भूरादिचतुर्दशभुवनानामाधाराधेया प्रणवात्मिका भवति ।
नीला च मुखविद्युन्मालिनी सर्वौषधीनां सर्वप्राणिनां पोषणार्थं सर्वरूपा भवति ॥८॥

समस्तभुवनस्याधोभागे जलाकारात्मिका मण्डूकमयेति भुवनाधारेति विज्ञायते ॥१९॥

क्रियाशक्तिस्वरूपं हरेर्मुखान्नादः ।
तन्नादाद्बिन्दुः ।
बिन्दोरोंकारः ।
ओंकारात्परतो रामवै-खानसपर्वतः ।
तत्पर्वते कर्मज्ञानमयीभिर्बहुशाखा भवन्ति ॥२०॥

तत्रत्रयीमयं शास्त्रमाद्यं सर्वार्थदर्शनम् ।
ऋग्यजुःसामरूपत्वात्त्रयीति परिकीर्तिता ॥२१॥

हेतुना कार्यसिद्धेन चतुर्धा परिकीर्तिता ।
ऋचो यजूंषि सामानि अथर्वाङ्गिरसस्तथा ॥२२॥

चातुर्होत्रप्रधानत्वाल्लिङ्गादित्रितयं त्रयी ।
अथर्वाङ्गिरसं रूपं सामऋग्यजुरात्मकम् ॥२३॥

तथा दिशन्त्याभिचारसामान्येन पृथक्पृथक् ।
एकविंशतिशाखायामृग्वेदः परिकीर्तितः ॥२४॥

शतं च नवशाखासु यजुषामेव जन्मनाम् ।
साम्नः सहस्रशाखाः स्युः पञ्चशाखा अथर्वणः ॥२५॥

वैखानसमतस्तस्मिन्नादौ प्रत्यक्षदर्शनम् ।
स्मर्यते मुनिभिर्नित्यं वैखानसमतः परम् ॥२६॥

कल्पो व्याकरणं शिक्षा निरुक्तं ज्योतिषं छन्द एतानि षडङ्गानि ॥२७॥

उपाङ्गमयनं चैव मीमांसान्यायविस्तरः ।
धर्मज्ञसेवितार्थं च वेदवेदोऽधिकं तथा ॥२८॥

निबन्धाः सर्वशाखा च समयाचारसङ्गतिः ।
धर्मशास्त्रं महर्षिणामन्तःकरणसम्भृतम् ।
इतिहासपुराणाख्यमुपाङ्गं च प्रकीर्तितम् ॥२९॥

वास्तुवेदो धनुर्वेदो गान्धर्वश्च तथा मुने ।
आयुर्वेदश्च पञ्चैते उपवेदाः प्रकीर्तिता: ॥३०॥

दण्डो नीतिश्च वार्ता च विद्या वायुजयः परः ।
एकविंशतिभेदोऽयं स्वप्रकाशः प्रकीर्तितः ॥३१॥

वैखानसऋषेः पूर्वं विष्णोर्वाणी समुद्भवेत् ।
त्रयीरूपेण सङ्कल्प्य इत्थं देही विजृम्भते ॥३२॥

संख्यारूपेण संकल्प्य वैखानसऋषेः पुरा ।
उदितो यादृशः पूर्वं तादृशं शृणु मेऽखिलम् ।
शश्वद्ब्रह्ममयं रूपं क्रियाशक्तिरुदाहृता ॥३३॥

साक्षाच्छक्तिर्भगवतः स्मरणमात्ररूपाविर्भावप्रादुर्भावात्मिका निग्रहानुग्रहरूपा शान्तितेजोरुपा व्यक्ताव्यक्तकारणचरणसमग्रावयवमुखवर्णभेदरुपा भगवत्सहचारिणी अनपायिनी अनवरतसहाश्रयिणी उदितानुदिताकारानिमेषोन्मेषसृष्टिस्थितिसंहारतिरोधानानुग्रहादिसर्वशक्तिसामर्थ्यात्साक्षाच्छक्तिरिति गीयते ॥३४॥

श्रीवत्सः.

इच्छशक्तिस्त्रिविधा प्रलयावस्थायां विश्रमणार्थं भगवतो दक्षिणवक्षःस्थले श्रीवत्साकृतिर्भूत्वा विश्राम्यतीति सा योगशक्तिः ॥३५॥

भोगशक्तिर्भोगरूपा कल्पवृक्षकामधेनुचिन्तामणिशङ्खपद्मनिध्यादिनवनिधिसमाश्रिता भगवदुपासकानां कामनयाऽकामनया वा भक्तियुक्ता नरं नित्यनैमित्तिककर्मभिरग्निहोत्रादिभिर्वा यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधिभिर्वालमनण्वपि गोपुरप्राकारादिभिर्विमानादिभिः सह भगवद्विग्रहार्चापूजोपकरणैरर्चनैः स्नानाधिपर्वा पितृपूजादिभिरन्नपानादिभिर्वा भगवत्प्रीत्यर्थमुक्त्वा सर्वं क्रियते ॥३६॥

अथातो वीरशक्तिश्चतुर्भुजाऽभयवरदपद्मधरा किरीटाभरणयुता सर्वदेवैः परिवृता कल्पतरुमूले चतुर्भिर्गजै रत्नघटैरमृतजलैरभिषिच्यमाना सर्वदैवतैर्ब्रह्मादिभिर्वन्द्यमाना अणिमा-द्यष्टैश्वर्ययुता संमुखे कामधेनुना स्तूयमाना वेदशास्त्रादिभिः स्तूयमाना जयाद्यप्सरस्स्त्रीभिः परिचर्यमाणा आदित्यसोमाभ्यां दीपाभ्यां प्रकाश्यमाना तुम्बुरुनारदादिभिर्गायमाना राकासिनीवालीभ्यां छत्रेण ह्लादिनीमायाभ्यां चामरेण स्वाहास्वधाभ्यां व्यजनेन भृगुपुण्यादिभिरभ्यर्च्यमाना देवी दिव्यसिंहासने पद्मासनरूढा सकलकारणकार्यकरी लक्ष्मीर्देवस्य पृथग्भवनकल्पना ।
अलंचकार स्थिरा प्रसन्नलोचना सर्वदेवतैः पूज्यमाना वीरलक्ष्मीरिति विज्ञायत इत्युपनिषत् ॥३७॥

लक्ष्म्याः अभिषेकः



ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

==इति सीतोपनिषत्समाप्ता==



Template:टिप्पणी


अधिकाध्ययनाय

[सम्पादन]

वर्गः:उपनिषदः


लिधंसा

[सम्पादन]

स्वयादिसँ

[सम्पादन]


उपनिषद्तेगु धलः ॐ
ईश (उपनिषद्)केन (उपनिषद्)कठ (उपनिषद्)प्रश्न (उपनिषद्)मुण्डक (उपनिषद्)माण्डुक्य (उपनिषद्)तैत्तिरीय (उपनिषद्)ऐतरेय (उपनिषद्)छान्दोग्य (उपनिषद्)बृहदारण्यक (उपनिषद्)ब्रह्म (उपनिषद्)कैवल्य (उपनिषद्)जाबाल (उपनिषद्)श्वेताश्वतर (उपनिषद्)हंस (उपनिषद्)आरुणेय (उपनिषद्)गर्भ (उपनिषद्)नारायण (उपनिषद्)परमहंस (उपनिषद्)अमृत-बिन्दु (उपनिषद्)अमृत-नाद (उपनिषद्)अथर्व-शिर (उपनिषद्)अथर्व-शिख (उपनिषद्)मैत्रायणि (उपनिषद्)कौषीताकि (उपनिषद्)बृहज्जाबाल (उपनिषद्)नृसिंहतापनी (उपनिषद्)कालाग्निरुद्र (उपनिषद्)मैत्रेयि (उपनिषद्)सुबाल (उपनिषद्)क्षुरिक (उपनिषद्)मन्त्रिक (उपनिषद्)सर्व-सार (उपनिषद्)निरालम्ब (उपनिषद्)शुक-रहस्य (उपनिषद्)वज्र-सूचिक (उपनिषद्)तेजो-बिन्दु (उपनिषद्)नाद-बिन्दु (उपनिषद्)ध्यानबिन्दु (उपनिषद्)ब्रह्मविद्या (उपनिषद्)योगतत्त्व (उपनिषद्)आत्मबोध (उपनिषद्)परिव्रात् (उपनिषद्)त्रि-षिखि (उपनिषद्)सीतोपनिषद् (उपनिषद्)योगचूडामणि (उपनिषद्)निर्वाण (उपनिषद्)मण्डलब्राह्मण (उपनिषद्)दक्षिणामूर्ति (उपनिषद्)शरभ (उपनिषद्)स्कन्द (उपनिषद्)महानारायण (उपनिषद्)अद्वयतारक (उपनिषद्)रामरहस्य (उपनिषद्)रामतापणि (उपनिषद्)वासुदेव (उपनिषद्)मुद्गल (उपनिषद्)शाण्डिल्य (उपनिषद्)पैंगल (उपनिषद्)भिक्षु (उपनिषद्)महत्-शारीरक (उपनिषद्)योगशिखा (उपनिषद्)तुरीयातीत (उपनिषद्)संन्यास (उपनिषद्)परमहंस-परिव्राजक (उपनिषद्)अक्षमालिक (उपनिषद्)अव्यक्त (उपनिषद्)एकाक्षर (उपनिषद्)अन्नपूर्ण (उपनिषद्)सूर्य (उपनिषद्)अक्षि (उपनिषद्)अध्यात्मा (उपनिषद्)कुण्डिकोपनिषद् (उपनिषद्)सावित्रि (उपनिषद्)आत्मा (उपनिषद्)पाशुपत (उपनिषद्)परब्रह्म (उपनिषद्)अवधूत (उपनिषद्)त्रिपुरातपनोपनिषद् (उपनिषद्)देवि (उपनिषद्)त्रिपुर (उपनिषद्)कर (उपनिषद्)भावन (उपनिषद्)रुद्र-हृदय (उपनिषद्)योग-कुण्डलिनि (उपनिषद्)भस्मोपनिषद् (उपनिषद्)रुद्राक्ष (उपनिषद्)गणपति (उपनिषद्)दर्शन (उपनिषद्)तारसार (उपनिषद्)महावाक्य (उपनिषद्)पञ्च-ब्रह्म (उपनिषद्)प्राणाग्नि-होत्र (उपनिषद्)गोपाल-तपणि (उपनिषद्)कृष्ण (उपनिषद्)याज्ञवल्क्य (उपनिषद्)वराह (उपनिषद्)शात्यायनि (उपनिषद्)हयग्रीव (उपनिषद्)दत्तात्रेय (उपनिषद्)गारुड (उपनिषद्)कलि-सण्टारण (उपनिषद्)जाबाल(सामवेद) (उपनिषद्)सौभाग्य (उपनिषद्)सरस्वती-रहस्य (उपनिषद्)बह्वृच (उपनिषद्)मुक्तिक (उपनिषद्)
हिन्दू धर्म
श्रुति: वेद · उपनिषद · श्रुत
स्मृति: इतिहास (रामायण, महाभारत, श्रीमदभागवत गीता) · पुराण · सुत्र · आगम (तन्त्र, यन्त्र) · वेदान्त
विचा:त: अवतार · आत्मा · ब्राह्मन · कोसस · धर्म · कर्म · मोक्ष · माया · इष्ट-देव · मुर्ति · पूनर्जन्म · हलिम · तत्त्व · त्रिमुर्ति · कतुर्थगुरु
दर्शन: मान्यता · प्राचीन हिन्दू धर्म · साँख्य · न्याय · वैशेषिक · योग · मीमांसा · वेदान्त · तन्त्र · भक्ति
परम्परा: ज्योतिष · आयुर्वेद · आरति · भजन · दर्शन · दिक्षा · मन्त्र · पुजा · सत्संग · स्तोत्र · ईहिपा: · यज्ञ
गुरु: शंकर · रामानुज · माधवाचार्य · रामकृष्ण · शारदा देवी · विवेकानन्द · नारायण गुरु · औरोबिन्दो · रमन महार्षि · शिवानन्द · चिन्‍मयानन्‍द · शुब्रमुनियस्वामी · स्वामीनारायण · प्रभुपद · लोकेनाथ
विभाजन: वैष्णभ · शैव · शक्ति · स्मृति · हिन्दू पूनरुत्थान ज्याझ्व
द्य: द्यतेगु नां · हिन्दू बाखं
युग: सत्य युग · त्रेता युग · द्वापर युग · कलि युग
वर्ण: ब्राह्मन · क्षत्रीय · वैश्य · शुद्र · दलित · वर्णाश्रम धर्म