Jump to content

निर्वाण (उपनिषद्)

विकिपिडिया नं
नेपाललिपि परिक्षण: 𑐠𑑂𑐰 𑐥𑑁𑐫𑐵 𑐣𑐾𑐥𑐵𑐮𑐮𑐶𑐥𑐶𑐂 𑐥𑐬𑐶𑐎𑑂𑐲𑐞 𑐥𑑁 𑐧𑑂𑐰𑐣𑐾𑐟: निर्वाण (उपनिषद्) 𑐟𑐶𑐫𑐵𑐡𑐶𑐳𑑄𑑋

निर्वाण (उपनिषद्) छगू काव्य ख। थ्व काव्य मुक्तिक उपनिषद्‌या अन्तर्गतय् उपनिषद् दुने ला []। थ्व श्रुति प्रचलनया छगू महत्त्वपूर्ण धार्मिक ग्रन्थ ख।

श्लोक

[सम्पादन]

थुकिया श्लोक थ्व कथं दु-[]

॥ निर्वाणोपनिषत् ॥ (ऋग्वेदीय संन्यासोपनिषत्)


निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम् ।
त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तयेत् ॥


ॐ वाण्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।
आविरावीर्म एधि । वेदस्य मा आणीस्थः ।
श्रुतं मे मा प्रहासीः। अनेनाधीतेनाहोरात्रान्सन्दधामि ।
ऋतं वदिष्यामि । सत्यं वदिष्यामि ।
तन्मामवतु । तद्वक्तारमवतु । अवतु मामवतु वक्तारम्।
ॐ शान्तिः शान्तिः शान्तिः ॥


अथ निर्वाणोपनिषदं व्याख्यास्यामः । परमहंसः सोऽहम् ।
परिव्राजकाः पश्चिमलिण्गाः । मन्मथक्षेत्रपालाः । गगनसिद्धान्तः।
अमृतकल्लोलनदी । अक्षयं निरञ्जनम् । निःसंशय ऋषिः ।
निर्वाणो देवता । निष्कुलप्रवृत्तिः । निष्केवलङ्य़ानम् ॥१-११॥


ऊर्ध्वाम्नायः । निरालम्ब पीठः । संयोगदीक्षा ।
वियोगोपदेशः । दीक्षासन्तोषपानं च । द्वादशावदित्यावलोकनम् ।
विवेकरक्षा । करुणैव केलिः । आनन्दमाला ।
एकान्तगुहायां मुक्तासनसु-खगोष्टी । अकल्पितभिक्षाशी ।
हंसाचारः ।सर्वभूतान्तर्वर्ती हंस इति प्रतिपादनम् ॥१२-२४॥


धैर्यकन्था । उदासीनकौपीनम् । विचारदण्डः ।
ब्रह्मावलोकयोगपट्टः । श्रियां पादुका । परेच्छाचरणम् ।
कुण्डलिनीबन्धः। परापवादमुक्तो जीवन्मुक्तः । शिवयोगनिद्रा च ।
खेचरीमुद्रा च । परमानन्दी । निर्गणगुणत्रयम् । विवेकलभ्यम्।
मनोवागगोचरम् । अनित्यं जगद्यज्जनितं स्वप्नजगदभ्रगजादितुल्यम् ।
तथा देहादिसण्घातं मोहगुणजालकलितं तद्रज्जुसर्पवत्कल्पितम् । विष्णुविध्यादिशताभिधानलक्ष्यम् ।
अण्कुशो मार्गः । शून्यं न संकेत: । परमेश्वरसत्ता ।
सत्यसिद्ध-योगो मठः । अमरपदं न तत्स्वरूपम् । आदिब्रह्मस्वसंवित् ।
अजपा गायत्री । विकारदण्डो ध्येयः॥


मनोनिरोधिनी कन्था । योगेन सदानन्दस्वरूपदर्शनम् ।
आनन्दभिक्षाशी । महाश्मशानेऽप्यानन्दवने वासः । एकान्तस्थानम् ।
आनन्दमठम् । उन्मन्यवस्था । शारदा चेष्टा । उन्मनी गतिः ।
निर्मलगात्रम् । निरालम्बपीठम् । अमृतकल्लोलानन्दक्रिया ।
पाण्डरगगनमहासिद्धान्तः । शमदमा-दिदिव्यशक्त्याचरणे क्षेत्रपात्रपटुता ।
परावरसंयोगः । तारकोपदेशाः । अद्वैतसदानन्दो देवता॥


नियमः स्वातरिन्द्रियनिग्रहः । भयमोहशोकक्रोधत्यागस्त्यागः ।
परावरैक्यरसास्वादनम् । अनियामकत्वनिर्मलशक्तिः।
स्वप्रकाशब्रह्मतत्त्वे शिवशक्तिसम्पुटित प्रपञ्चच्छेदनम् । तथा पत्राक्षाक्षिकमण्डलुः भवाभावदहनम् ।
बिभ्रत्याकाशाधारम् । शिवं तुरीयं यङ्य़ोपवीतम् । तन्मया शिखा ।
चिन्मयं चोत्सृष्टिरण्डम् । संततोक्षिकमण्डलुम् । कर्मनिर्मूलनं कन्था।
मायाममताहंका-रदहनम् । स्मशाने अनाहताण्गी । निस्त्रैगुण्यस्वरूपानुसन्धानं समयं ।
भ्रान्तिहननम् । कामादिवृत्ति-दहनम् । काठिन्यदृढकौपीनम् ।
चिराजिनवासः । अनाहतमन्त्रः । अक्रिययैव जुष्टम् । स्वेच्छाचार-स्वस्वभावो मोक्षः ।
परं ब्रह्म प्लववदाचरणम् । ब्रह्मचर्यशान्तिसंग्रहणम् ।
ब्रह्मचर्याश्रमेऽधीत्य वानप्रस्थाश्रमेऽधीत्या स सर्वसंविन्न्यासं संन्यासम् ।
अन्ते ब्रह्माखण्डाकारम् । नित्यं सर्वसन्देहनाशनम् ॥४९-६०॥


एतन्निर्वाणदर्शनं । शिष्यं पुत्रं विना न देयमित्युपनिषत् ॥६१॥


ॐ वाण्मे मनसीति शान्तिः ॥


इति निर्वाणोपनिषत्समाप्ता ।


लिधंसा

[सम्पादन]

स्वयादिसँ

[सम्पादन]


उपनिषद्तेगु धलः ॐ
ईश (उपनिषद्)केन (उपनिषद्)कठ (उपनिषद्)प्रश्न (उपनिषद्)मुण्डक (उपनिषद्)माण्डुक्य (उपनिषद्)तैत्तिरीय (उपनिषद्)ऐतरेय (उपनिषद्)छान्दोग्य (उपनिषद्)बृहदारण्यक (उपनिषद्)ब्रह्म (उपनिषद्)कैवल्य (उपनिषद्)जाबाल (उपनिषद्)श्वेताश्वतर (उपनिषद्)हंस (उपनिषद्)आरुणेय (उपनिषद्)गर्भ (उपनिषद्)नारायण (उपनिषद्)परमहंस (उपनिषद्)अमृत-बिन्दु (उपनिषद्)अमृत-नाद (उपनिषद्)अथर्व-शिर (उपनिषद्)अथर्व-शिख (उपनिषद्)मैत्रायणि (उपनिषद्)कौषीताकि (उपनिषद्)बृहज्जाबाल (उपनिषद्)नृसिंहतापनी (उपनिषद्)कालाग्निरुद्र (उपनिषद्)मैत्रेयि (उपनिषद्)सुबाल (उपनिषद्)क्षुरिक (उपनिषद्)मन्त्रिक (उपनिषद्)सर्व-सार (उपनिषद्)निरालम्ब (उपनिषद्)शुक-रहस्य (उपनिषद्)वज्र-सूचिक (उपनिषद्)तेजो-बिन्दु (उपनिषद्)नाद-बिन्दु (उपनिषद्)ध्यानबिन्दु (उपनिषद्)ब्रह्मविद्या (उपनिषद्)योगतत्त्व (उपनिषद्)आत्मबोध (उपनिषद्)परिव्रात् (उपनिषद्)त्रि-षिखि (उपनिषद्)सीतोपनिषद् (उपनिषद्)योगचूडामणि (उपनिषद्)निर्वाण (उपनिषद्)मण्डलब्राह्मण (उपनिषद्)दक्षिणामूर्ति (उपनिषद्)शरभ (उपनिषद्)स्कन्द (उपनिषद्)महानारायण (उपनिषद्)अद्वयतारक (उपनिषद्)रामरहस्य (उपनिषद्)रामतापणि (उपनिषद्)वासुदेव (उपनिषद्)मुद्गल (उपनिषद्)शाण्डिल्य (उपनिषद्)पैंगल (उपनिषद्)भिक्षु (उपनिषद्)महत्-शारीरक (उपनिषद्)योगशिखा (उपनिषद्)तुरीयातीत (उपनिषद्)संन्यास (उपनिषद्)परमहंस-परिव्राजक (उपनिषद्)अक्षमालिक (उपनिषद्)अव्यक्त (उपनिषद्)एकाक्षर (उपनिषद्)अन्नपूर्ण (उपनिषद्)सूर्य (उपनिषद्)अक्षि (उपनिषद्)अध्यात्मा (उपनिषद्)कुण्डिकोपनिषद् (उपनिषद्)सावित्रि (उपनिषद्)आत्मा (उपनिषद्)पाशुपत (उपनिषद्)परब्रह्म (उपनिषद्)अवधूत (उपनिषद्)त्रिपुरातपनोपनिषद् (उपनिषद्)देवि (उपनिषद्)त्रिपुर (उपनिषद्)कर (उपनिषद्)भावन (उपनिषद्)रुद्र-हृदय (उपनिषद्)योग-कुण्डलिनि (उपनिषद्)भस्मोपनिषद् (उपनिषद्)रुद्राक्ष (उपनिषद्)गणपति (उपनिषद्)दर्शन (उपनिषद्)तारसार (उपनिषद्)महावाक्य (उपनिषद्)पञ्च-ब्रह्म (उपनिषद्)प्राणाग्नि-होत्र (उपनिषद्)गोपाल-तपणि (उपनिषद्)कृष्ण (उपनिषद्)याज्ञवल्क्य (उपनिषद्)वराह (उपनिषद्)शात्यायनि (उपनिषद्)हयग्रीव (उपनिषद्)दत्तात्रेय (उपनिषद्)गारुड (उपनिषद्)कलि-सण्टारण (उपनिषद्)जाबाल(सामवेद) (उपनिषद्)सौभाग्य (उपनिषद्)सरस्वती-रहस्य (उपनिषद्)बह्वृच (उपनिषद्)मुक्तिक (उपनिषद्)
हिन्दू धर्म
श्रुति: वेद · उपनिषद · श्रुत
स्मृति: इतिहास (रामायण, महाभारत, श्रीमदभागवत गीता) · पुराण · सुत्र · आगम (तन्त्र, यन्त्र) · वेदान्त
विचा:त: अवतार · आत्मा · ब्राह्मन · कोसस · धर्म · कर्म · मोक्ष · माया · इष्ट-देव · मुर्ति · पूनर्जन्म · हलिम · तत्त्व · त्रिमुर्ति · कतुर्थगुरु
दर्शन: मान्यता · प्राचीन हिन्दू धर्म · साँख्य · न्याय · वैशेषिक · योग · मीमांसा · वेदान्त · तन्त्र · भक्ति
परम्परा: ज्योतिष · आयुर्वेद · आरति · भजन · दर्शन · दिक्षा · मन्त्र · पुजा · सत्संग · स्तोत्र · ईहिपा: · यज्ञ
गुरु: शंकर · रामानुज · माधवाचार्य · रामकृष्ण · शारदा देवी · विवेकानन्द · नारायण गुरु · औरोबिन्दो · रमन महार्षि · शिवानन्द · चिन्‍मयानन्‍द · शुब्रमुनियस्वामी · स्वामीनारायण · प्रभुपद · लोकेनाथ
विभाजन: वैष्णभ · शैव · शक्ति · स्मृति · हिन्दू पूनरुत्थान ज्याझ्व
द्य: द्यतेगु नां · हिन्दू बाखं
युग: सत्य युग · त्रेता युग · द्वापर युग · कलि युग
वर्ण: ब्राह्मन · क्षत्रीय · वैश्य · शुद्र · दलित · वर्णाश्रम धर्म