Jump to content

परमहंस-परिव्राजक (उपनिषद्)

विकिपिडिया नं
नेपाललिपि परिक्षण: 𑐠𑑂𑐰 𑐥𑑁𑐫𑐵 𑐣𑐾𑐥𑐵𑐮𑐮𑐶𑐥𑐶𑐂 𑐥𑐬𑐶𑐎𑑂𑐲𑐞 𑐥𑑁 𑐧𑑂𑐰𑐣𑐾𑐟: परमहंस-परिव्राजक (उपनिषद्) 𑐟𑐶𑐫𑐵𑐡𑐶𑐳𑑄𑑋
The phrase "Paramahamsa Parivrajaka" means "wandering highest Hamsa

परमहंस-परिव्राजक (उपनिषद्) छगू काव्य ख। थ्व काव्य मुक्तिक उपनिषद्‌या अन्तर्गतय् उपनिषद् दुने ला []। थ्व श्रुति प्रचलनया छगू महत्त्वपूर्ण धार्मिक ग्रन्थ ख।

श्लोक

[सम्पादन]

थुकिया श्लोक थ्व कथं दु-[]

उपनिषद् परमहंसपरिव्राजक उपनिषत्



पारिव्राज्यधर्मवन्तो यज्ज्ञानाद्ब्रह्मतां ययुः ।
तद्ब्रह्म प्रणवैकार्थं तुर्यतुर्यं हरिं भजे ॥
ॐ भद्रं कर्णेभिः श्ऱृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवांस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो व्ऱृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः ।
स्वस्तो नो ब्ऱृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ अथ पितामहः स्वपितरमादिनारायणमुपसमेत्य
प्रणम्य पप्रच्च्ह भगवंस्त्वन्मुखाद्वर्णाश्रमधर्म
क्रमं सर्वं श्रुतं विदितमवगतम् ।
इदानीं परमहंसपरिव्राजकलक्षणं वेदितुमिच्च्हामि कः
परिव्रजनाधिकारी कीद्ऱृशं परिव्राजकलक्षणं कः
परमहंसः परिव्राजकत्वं कथं तत्सर्वं मे ब्रूहीति ।
स होवाच भगवानादिनारायणः ।
सद्गुरुसमीपे सकलविद्यापरिश्रमज्ञो भूत्वा विद्वान्सर्व
मैहिकामुष्मिकसुखश्रमं ज्ञात्वैषणात्रयवासनात्रय
ममत्वाहङ्कारादिकं वमनान्नमिव हेयमधिगम्य मोक्ष
मार्गैकसाधनो ब्रह्मचर्यं समाप्य ग्ऱृही भवेत् ।
ग्ऱृहाद्वनी भूत्वा प्रव्रजेत् ।
यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्ग्ऱृहाद्वा वनाद्वा ।
अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको वोत्सन्नाग्नि
रनग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेदिति बुद्ध्वा
सर्वसंसारेषु विरक्तो ब्रह्मचारी ग्ऱृही वानप्रस्थो वा
पितरं मातरं कलत्रपुत्रमाप्तबन्धुवर्गं तदभावे शिष्यं
सहवासिनं वानुमोदयित्वा तद्धैके प्राजापत्यामेवेष्टिं कुर्वन्ति
तदु तथा न कुर्यात् । आग्नेय्यामेव कुर्यात् ।
अग्निर्हि प्राणः प्राणमेवैतया करोति त्रैधातवीयामेव कुर्यात् ।
एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति ।
अयं ते योनिर्ऱृत्वियो यतो जातो आरोचथाः ।
तं जानन्नग्न आरोहाथानो वर्धया रयिमित्यनेन मन्त्रेणाग्नि
माजिघ्रेत् ।
एष वा अग्नेर्योनिर्यः प्राणं गच्च्ह स्वां योनिं गच्च्हस्वा
हेत्येवमेवैतदाह ।
ग्रामाच्च्ह्रोत्रियागारादग्निमाह्ऱृत्य स्वविध्युक्तक्रमेण
पूर्ववदग्निमाजिघ्रेत् ।
यद्यातुरो वाग्निं न विनेदप्सु जुहुयात् ।
आपो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति
हुत्वोद्ध्ऱृत्य प्राश्नीयात् साज्यं हविरनामयम् ।
एष विधिर्वीराध्वाने वाऽनाशके वा सम्प्रवेशे वाग्निप्रवेशे
वा महाप्रस्थाने वा ।
यद्यातुरः स्यान्मनसा वाचा वा संन्यसेदेष पन्थाः ।
स्वस्थक्रमेणैव चेदात्मश्राद्धं विरजाहोमं क्ऱृत्वाग्नि
मात्मन्यारोप्य लौकिकवैदिकसाम्र्थ्यं स्वचतुर्दशकरण
प्रव्ऱृत्तिं च पुत्रे समारोप्य तदभावे शिष्ये वा तदभावे
स्वात्मन्येव वा ब्रह्मा त्वं यज्ञस्त्वमित्यभिमन्त्र्य ब्रह्म
भावनया ध्यात्वा सावित्रीप्रवेशपूर्वकमप्सु सर्वविद्यार्थ
स्वरूपां ब्राह्मण्याधारां वेदमातरं क्रमाद्व्याह्ऱृतिषु
त्रिषु प्रविलाप्य व्याह्ऱृतित्रयमकारोकारमकारेषु प्रविलाप्य
तत्सावधानेनापः प्राश्य प्रणवेन शिखामुत्क्ऱृष्य
यज्ञोपवीतं च्हित्त्वा वस्त्रमपि भूमौ वाप्सु वा विस्ऱृज्य
ॐ भूः स्वाहा ॐ भुवः स्वाहा ॐ सुवः स्वाहेत्यनेन
जातरूपधरो भूत्वा स्वं रूपं ध्यायन्पुनः प्ऱृथक्
प्रणवव्याह्ऱृतिपूर्वकं मनसा वचसापि संन्यस्तं मया
संन्यस्तं मया संन्यस्तं मयेति मन्द्रमध्यमतारध्वनि
भिस्त्रिवारं त्रिगुणीक्ऱृतप्रेषोच्चारणं क्ऱृत्वा प्रणवैक
ध्यानपरायणः सन्नभयं सर्वभूतेभ्यो मत्तः स्वाहेत्यूर्ध्व
बाहुर्भूत्वा ब्रह्माहमस्मीति तत्त्वमस्यादिवाक्यार्थस्वरूपा
नुसन्धानं कुर्वन्नुदीचिं दिशं गच्च्हेत् ।
जातरूपधरश्चरेत् । एष संन्यासः ।
तदधिकारी न भवेद्यदि ग्ऱृहस्थप्रार्थनापूर्वकमभयं
सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते सखा मा गोपायौजः
सखा योऽसीन्द्रस्य व्रजोऽसि वार्गघ्नः शर्म मे भव यत्पापं
तन्निवारयेत्यनेन मन्त्रेण प्रणवपूर्वकं सलक्षणं वाइणवं
दण्डं कटिसूत्रं कौपीनं कमण्डलुं विवर्णवस्त्रमेकं
परिग्ऱृह्य सद्गुरुमुपगम्य नत्वा गुरुमुखात्तत्त्वमसीति
महावाक्यं प्रणवपूर्वकमुपलभ्याथ जीर्णवल्कलाजिनं
ध्ऱृत्वाथ जलावतरणमूर्ध्वगमनमेकभिक्षां परित्यज्य
त्रिकालस्नानमाचरन्वेदान्तश्रवणपूर्वकं प्रणवानुष्ठानं
कुर्वन्ब्रह्ममार्गे सम्यक् सम्पन्नः स्वाभिमतमात्मनि गोपयित्वा
निर्ममोऽध्यात्मनिष्ठः कामक्रोधलोभमोहमदमात्सर्य
दम्भदर्पाहङ्कारासूयागर्वेच्च्हाद्वेषहर्षामर्ष
ममत्वादींश्च हित्वा ज्ञानवैराग्ययुक्तो वित्तस्त्रीपराङ्मुखः
शुद्धमानसः सर्वोपनिषदर्थमालोच्य ब्रह्मचर्या
परिग्रहाहिंसासत्यं यत्नेन रक्षञ्जितेन्द्रियो बहिरन्तःस्नेहवर्जितः
शरीरसंधारणार्थं वा त्रिषु वर्णेष्वभिशस्तपतितवर्जितेषु
पशुरद्रोही भैक्ष्यमाणो ब्रह्मभूयाय भवति ।
सर्वेषु कालेषु लाभालाभौ समौ क्ऱृत्वा परपात्रमधूकरे
णान्नमश्नन्मेदोव्ऱृद्धिमकुर्वन्क्ऱृशीभूत्वा ब्रह्माहमस्मीति
भावयन्गुर्वर्थं ग्राममुपेत्य ध्रुवशीलोऽष्टौ मास्येकाकी
चरेद्द्वावेवाचरेत् ।
यदालंबुद्धिर्भवेत्तदा कुटीचको वा बहूदको वा हंसो वा
परमहंसो वा तत्तन्मन्त्रपूर्वकं कटिसूत्रं कौपीनं दण्डं
कमण्डलुं सर्वमप्सु विस्ऱृज्याथ जातरूपधरश्चरेत् ।
ग्राम एकरात्रं तीर्थे त्रिरात्रं पत्तने पञ्चरात्रं क्षेत्रे
सप्तरात्रमनिकेतः स्थिरमतिरनग्निसेवी निर्विकारो नियमानियाम
मुत्स्ऱृज्य प्राणसन्धारणार्थमयमेव लाभालाभौ समौ
क्ऱृत्वा गोव्ऱृत्त्या भैक्षमाचरन्नुदकस्थलकमण्डलुर्
रबाधकरहस्यस्थलवासो न पुनर्लाभालाभरतः शुभाशुभ
कर्मनिर्मूलनपरः सर्वत्र भूतलशयनः क्षौरकर्मपरित्यक्तो
युक्तचातुर्मास्यव्रतनियमः शुक्लध्यानपरायणोऽर्थस्त्रीपुर
पराङ्मुखोऽनुन्मत्तोऽप्युन्मत्तवदाचरन्नव्यक्तलिङ्गोऽलिङ्गोऽव्य
क्ताचारो दिवानक्तसमत्वेनास्वप्नः स्वरूपानुसन्धानब्रह्म
प्रणवध्यानमार्गेणावहितः संन्यासेन देहत्यागं करोति स
परमहंसपरिव्राजको भवति ।
भगवन् ब्रह्मप्रणवः कीद्ऱृश इति ब्रह्मा प्ऱृच्च्हति ।
स होवाच नारायणः ।
ब्रह्मप्रणवः षोडशमात्रात्मकः सोऽवस्थाचतुष्टय
चतुष्टयगोचरः ।
जाग्रदवस्थायां जाग्रदादिचरस्रोऽवस्थाः स्वप्ने स्वप्नादि
चतस्रोवस्थाः सुषुप्तौ सुषुप्त्यादिचतस्रोऽवस्थातुरीये
तुरीयादिचतस्रोऽवस्था भवन्तीति ।
जाग्रदवस्थायां विश्वस्य चातुर्विध्यं विश्वविश्वो विश्वतैजसो
विश्वप्राज्ञो विश्वतुरीय इति ।
स्वप्नावस्थायां तैजसस्य चातुर्विध्यं
तैजसविश्वस्तैजसतैजसस्तैजसप्राज्ञस्तैजसतुरीय इति ।
सुषुप्त्यवस्थायां प्राज्ञस्य चातुर्विध्यं प्राज्ञविश्वः
प्राज्ञतैजसः प्राज्ञप्राज्ञः प्राज्ञतुरीय इति।
तुरीयावस्थायां तुरीयस्य चातुर्विध्यं
तुरीयविश्वस्तुरीयतैजसस्तुरीयप्राज्ञस्तुतुरीयतुरीय इति ।
ते क्रमेण षोडशमात्रा रूढाः अकारे जाग्रद्विश्व उकारे
जाग्रत्तैजसो मकारे जाग्रत्प्राज्ञ अर्धमात्रायां जाग्रत्तुरीयो
बिन्दौ स्वप्नविश्वोनादे स्वप्नतैजसः कलायां स्वप्नप्राज्ञः
कलातीते स्वप्नतुरीयः शान्तौ सुषुप्तविश्वः शान्त्यातीते
सुषुप्ततैजस उन्मन्यां सुषुप्तप्राज्ञो मनोन्मन्यां
सुषुप्ततुरीयः पुर्यां तुरीयविश्वो मध्यमायां तुरीयतैजसः
पश्यन्तां तुरीयप्राज्ञः परायां तुरीयतुरीयः ।
जाग्रन्मात्राचतुष्टयमकारांशं स्वप्नमात्राचतुष्टय
मुकारांशं सुषुप्तिमात्राचतुष्टयं मकारांशं
तुरीयमात्राचतुष्टयमर्धमात्रांशम् ।
अयमेव ब्रह्मप्रणवः । स परमहंसतुरीयातीतावधूतैरुपास्यः ।
तेनैव ब्रह्म प्रकाशते तेन विदेहमुक्तिः ।
भगवन् कथमयज्ञोपवीत्त्यशिखी सर्वकर्मपरित्यक्तः कथं
ब्रह्मनिष्ठापरः कथं ब्राह्मण इति ब्रह्मा प्ऱृच्च्हति ।
स होवाच विष्णुर्भोभोऽर्भक यस्यास्त्यद्वैतमात्मज्ञानं
तदेव यज्ञोपवीतम् ।
तस्य ध्याननिष्ठैव शिखा । तत्कर्म स पवित्रम् ।
स सर्वकर्मक्ऱृत् । स ब्राह्मणः । स ब्रह्मनिष्ठापरः ।
स देवः । स ऱृषिः । स तपस्वी । स श्रेष्ठः ।
स एव सर्वज्येष्ठः । स एव जगद्गुरुः । स एवाहं विद्धि ।
लोके परमहंसपरिव्राजको दुर्लभतरो यद्येकोऽस्ति ।
स एव नित्यपूतः । स एव वेदपुरुषो महापुरुषो यस्तच्चित्तं
मय्येवावतिष्ठते । अहं च तस्मिन्नेवावस्थितः ।
स एव नित्यत्ऱृप्तः । स शीतोष्णसुखदुःखमानावमानवर्जितः ।
स निन्दामर्षसहिष्णुः । स षडूर्मिवर्जितः ।
षड्भावविकारशून्यः । स ज्येष्ठाज्येष्ठव्यवधानरहितः ।
स स्वव्यतिरेकेण नान्यद्रष्टा । आशाम्बरो ननमस्कारो न
स्वाहाकारो न स्वधाकारश्च नविसर्जनपरो निन्दास्तुति
व्यतिरिक्तो नमन्त्रतन्त्रोपासको देवान्तरध्यानशून्यो
लक्ष्यालक्ष्यनिवर्तकः सर्वोपरतः ससच्चिदानन्दाद्वय
चिद्घनः सम्पूर्णानन्दैकबोधो ब्रह्मैवाहममीत्यनवरतं
ब्रह्मप्रणवानुसन्धानेन यः क्ऱृतक्ऱृत्यो भवति स ह
परमहंसपरिव्राडित्युपनिषत् ॥
हरिः ॐ तत्सत् ।
ॐ भद्रं कर्णेभिः श्ऱृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवांस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो व्ऱृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः ।
स्वस्ति नो ब्ऱृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति परमहंसपरिव्राजकोपनिषत्समाप्ता ॥

अधिकाध्ययनाय

[सम्पादन]

वर्गः:उपनिषदः


लिधंसा

[सम्पादन]

स्वयादिसँ

[सम्पादन]


उपनिषद्तेगु धलः ॐ
ईश (उपनिषद्)केन (उपनिषद्)कठ (उपनिषद्)प्रश्न (उपनिषद्)मुण्डक (उपनिषद्)माण्डुक्य (उपनिषद्)तैत्तिरीय (उपनिषद्)ऐतरेय (उपनिषद्)छान्दोग्य (उपनिषद्)बृहदारण्यक (उपनिषद्)ब्रह्म (उपनिषद्)कैवल्य (उपनिषद्)जाबाल (उपनिषद्)श्वेताश्वतर (उपनिषद्)हंस (उपनिषद्)आरुणेय (उपनिषद्)गर्भ (उपनिषद्)नारायण (उपनिषद्)परमहंस (उपनिषद्)अमृत-बिन्दु (उपनिषद्)अमृत-नाद (उपनिषद्)अथर्व-शिर (उपनिषद्)अथर्व-शिख (उपनिषद्)मैत्रायणि (उपनिषद्)कौषीताकि (उपनिषद्)बृहज्जाबाल (उपनिषद्)नृसिंहतापनी (उपनिषद्)कालाग्निरुद्र (उपनिषद्)मैत्रेयि (उपनिषद्)सुबाल (उपनिषद्)क्षुरिक (उपनिषद्)मन्त्रिक (उपनिषद्)सर्व-सार (उपनिषद्)निरालम्ब (उपनिषद्)शुक-रहस्य (उपनिषद्)वज्र-सूचिक (उपनिषद्)तेजो-बिन्दु (उपनिषद्)नाद-बिन्दु (उपनिषद्)ध्यानबिन्दु (उपनिषद्)ब्रह्मविद्या (उपनिषद्)योगतत्त्व (उपनिषद्)आत्मबोध (उपनिषद्)परिव्रात् (उपनिषद्)त्रि-षिखि (उपनिषद्)सीतोपनिषद् (उपनिषद्)योगचूडामणि (उपनिषद्)निर्वाण (उपनिषद्)मण्डलब्राह्मण (उपनिषद्)दक्षिणामूर्ति (उपनिषद्)शरभ (उपनिषद्)स्कन्द (उपनिषद्)महानारायण (उपनिषद्)अद्वयतारक (उपनिषद्)रामरहस्य (उपनिषद्)रामतापणि (उपनिषद्)वासुदेव (उपनिषद्)मुद्गल (उपनिषद्)शाण्डिल्य (उपनिषद्)पैंगल (उपनिषद्)भिक्षु (उपनिषद्)महत्-शारीरक (उपनिषद्)योगशिखा (उपनिषद्)तुरीयातीत (उपनिषद्)संन्यास (उपनिषद्)परमहंस-परिव्राजक (उपनिषद्)अक्षमालिक (उपनिषद्)अव्यक्त (उपनिषद्)एकाक्षर (उपनिषद्)अन्नपूर्ण (उपनिषद्)सूर्य (उपनिषद्)अक्षि (उपनिषद्)अध्यात्मा (उपनिषद्)कुण्डिकोपनिषद् (उपनिषद्)सावित्रि (उपनिषद्)आत्मा (उपनिषद्)पाशुपत (उपनिषद्)परब्रह्म (उपनिषद्)अवधूत (उपनिषद्)त्रिपुरातपनोपनिषद् (उपनिषद्)देवि (उपनिषद्)त्रिपुर (उपनिषद्)कर (उपनिषद्)भावन (उपनिषद्)रुद्र-हृदय (उपनिषद्)योग-कुण्डलिनि (उपनिषद्)भस्मोपनिषद् (उपनिषद्)रुद्राक्ष (उपनिषद्)गणपति (उपनिषद्)दर्शन (उपनिषद्)तारसार (उपनिषद्)महावाक्य (उपनिषद्)पञ्च-ब्रह्म (उपनिषद्)प्राणाग्नि-होत्र (उपनिषद्)गोपाल-तपणि (उपनिषद्)कृष्ण (उपनिषद्)याज्ञवल्क्य (उपनिषद्)वराह (उपनिषद्)शात्यायनि (उपनिषद्)हयग्रीव (उपनिषद्)दत्तात्रेय (उपनिषद्)गारुड (उपनिषद्)कलि-सण्टारण (उपनिषद्)जाबाल(सामवेद) (उपनिषद्)सौभाग्य (उपनिषद्)सरस्वती-रहस्य (उपनिषद्)बह्वृच (उपनिषद्)मुक्तिक (उपनिषद्)
हिन्दू धर्म
श्रुति: वेद · उपनिषद · श्रुत
स्मृति: इतिहास (रामायण, महाभारत, श्रीमदभागवत गीता) · पुराण · सुत्र · आगम (तन्त्र, यन्त्र) · वेदान्त
विचा:त: अवतार · आत्मा · ब्राह्मन · कोसस · धर्म · कर्म · मोक्ष · माया · इष्ट-देव · मुर्ति · पूनर्जन्म · हलिम · तत्त्व · त्रिमुर्ति · कतुर्थगुरु
दर्शन: मान्यता · प्राचीन हिन्दू धर्म · साँख्य · न्याय · वैशेषिक · योग · मीमांसा · वेदान्त · तन्त्र · भक्ति
परम्परा: ज्योतिष · आयुर्वेद · आरति · भजन · दर्शन · दिक्षा · मन्त्र · पुजा · सत्संग · स्तोत्र · ईहिपा: · यज्ञ
गुरु: शंकर · रामानुज · माधवाचार्य · रामकृष्ण · शारदा देवी · विवेकानन्द · नारायण गुरु · औरोबिन्दो · रमन महार्षि · शिवानन्द · चिन्‍मयानन्‍द · शुब्रमुनियस्वामी · स्वामीनारायण · प्रभुपद · लोकेनाथ
विभाजन: वैष्णभ · शैव · शक्ति · स्मृति · हिन्दू पूनरुत्थान ज्याझ्व
द्य: द्यतेगु नां · हिन्दू बाखं
युग: सत्य युग · त्रेता युग · द्वापर युग · कलि युग
वर्ण: ब्राह्मन · क्षत्रीय · वैश्य · शुद्र · दलित · वर्णाश्रम धर्म