शारदा देवी



शास्त्रय् दसुपद्मपुराणम् — खण्डः ५ (पातालखण्डः) — अध्यायः ०७४[१] आगत्य शारदां प्राह पश्चिमेऽस्मिन्सरोवरे १९२। शीघ्रं स्नापय तन्वंगीं क्रीडाश्रांतां मृदुस्मिताम् । ततस्तां शारदा देवी तस्मिन्क्रीडासरोवरे १९३। स्नानं कुर्वित्युवाचैनां सा च श्रांता तथाकरोत् । जलाभ्यंतरमाप्तासौ पुनरर्जुनतां गतः १९४। भविष्यपुराणम् — पर्व ३ (प्रतिसर्गपर्व) — खण्डः ३ — अध्यायः २१[२] पाहि मां कामदेवार्त्तं पुष्पवत्यै प्रबोधय ।। ३१ ।। इति स्तुत्वा च सुष्वाप स वीरः परमासने ।। तदा तु शारदा देवी तस्याः स्वप्नप्रदर्शनम् ।। चकार प्रत्यहं देवी वरदाभयकारिणी ।। ३२ ।। एवं गते चतुर्मासे जलवृष्टिकरे मुने ।। भविष्यपुराणम् — पर्व ३ (प्रतिसर्गपर्व) — खण्डः ३ — अध्यायः २६[३] कृत्वा सुष्वाप तद्वेश्मस्तदा तुष्टा स्वयं शिवा ।। १३ ।। मलने महती बाधा क्षयं यास्यति मा शुचः ।। १४ ।। इत्युक्त्वा शारदा देवी कृष्णांशं प्रति चागमत् ।। पुत्र ते जननी भूमिर्महीराजेन पीडिता।। क्षयं यास्यति शीघ्रं च तस्मात्त्वं तां समुद्धर ।। १५ ।। लक्ष्मीनारायणसंहिता — खण्डः २ (त्रेतायुगसन्तानः) — अध्यायः २६४[४] गुणज्ञश्च तथा दैवबलो भव हि सर्वथा ।। ८५ ।। इत्युक्त्वा भगवानत्र राजँस्तिरोदधे द्रुतम् । विप्रे सा शारदा देवी संहिता चौषधिप्रभा ।। ८६ ।। हरिद्वर्णा प्रविवेश विप्रश्चायुष्यवेदवान् । अभवत् तत्क्षणादेव करे विद्यामवाप्तवान् ।। ८७ ।। लिधंसा | |||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|