शास्त्रय् दसु
अनिरुद्धसंहिता — अध्यायः ४[१]
प्राशयेत्पञ्चगव्यं च विष्णुपादोदकं तथा।। 20 ।।
पुण्याहं वाचयित्वा तु कौतुकं बन्धयेत्सुधीः।
यन्त्रमण्डलगं वापि नारायणकसंज्ञकम्।। 21 ।।
वासुदेवाख्य यन्त्रं वा विष्णुयन्त्रमथापि वा।
केवलं मण्डलं वापि तंत्नकान्तारशोभितम्।। 22 ।।
अर्थशास्त्रम् — अधिकरणम् १ — अध्यायः २०[२]
<poem>
वास्तुक-प्रशस्ते देशे सप्राकार-परिखा-द्वारं अनेक-कक्ष्या-परिगतं अन्तःपुरं कारयेत् ।। ०१.२०.०१ ।।
कोशगृह-विधानेन मध्ये वास-गृहम् । गूढ-भित्ति-संचारं मोहन-गृहं तन्-मध्ये वा वास-गृहम् । भूमि-गृहं वाआसन्न-चैत्य-काष्ठ-देवता-अपिधान-द्वारं अनेक-सुरुङ्गा-संचारं तस्यौपरि प्रासादं गूढ-भित्ति-सोपानं सुषिर-स्तम्भ-प्रवेश-अपसारं वा वास-गृहं यन्त्र-बद्ध-तल-अवपातं कारयेत् । आपत्-प्रतीकार-अर्थं आपदि वा ।। का०१.२०.०२ ।।
अतोअन्यथा वा विकल्पयेत् । सह-अध्यायि-भयात् ।। ०१.२०.०३ ।।
मानुषेणाग्निना त्रिरपसव्यं परिगतं अन्तःपुरं अग्निरन्यो न दहति । न चात्रान्योअग्निर्ज्वलति । वैद्युतेन भस्मना मृत्-सम्युक्तेन करक-वारिणाअवलिप्तं च ।। ०१.२०.०४ ।।
अर्थशास्त्रम् — अधिकरणम् १० — अध्यायः ४[३]
स्व-बल-रक्षा चतुर्-अङ्ग-बल-प्रतिषेधः संग्रामे ग्रहणं मोक्षणं भिन्न-संधानं अभिन्न-भेदनं त्रासनं औदार्यं भीम-घोषश्चैति रथ-कर्माणि ।। १०.४.१५ ।।
सर्व-देश-काल-शस्त्र-वहनं व्यायामश्चैति पदाति-कर्माणि ।। १०.४.१६ ।।
शिबिर-मार्ग-सेतु-कूप-तीर्थ-शोधन-कर्म यन्त्र-आयुध-आवरण-उपकरण-ग्रास-वहनं आयोधनाच्च प्रहरण-आवरण-प्रतिविद्ध-अपनयनं इति विष्टि-कर्माणि ।। १०.४.१७ ।।
कुर्याद्गव-अश्व-व्यायोगं रथेष्वल्प-हयो नृपः । ।। १०.४.१८अ ब ।।
खर-उष्ट्र-शकटानां वा गर्भं अल्प-गजस्तथा ।। १०.४.१८च्द् ।।
अर्थशास्त्रम् — अधिकरणम् १३ — अध्यायः ४[४]
प्रसार-वीवधच्-छेदान्मुष्टि-सस्य-वधादपि । ।। १३.४.०७अ ब ।।
वमनाद्गूढ-घाताच्च जायते प्रकृति-क्षयः ।। १३.४.०७च्द् ।।
"प्रभूत-गुण-बद्ध(वद्ध)-अन्य-कुप्य-यन्त्र-शस्त्र-आवरण-विष्टिरश्मि-समग्रं मे सैन्यम् । ऋतुश्च पुरस्तात् । अपर्तुः परस्य । व्याधि-दुर्भिक्ष-निचय-रक्षा-क्षयः क्रीत-बल-निर्वेदो मित्र-बल-निर्वेदश्च" इति पर्युपासीत ।। १३.४.०८ ।।
कृत्वा स्कन्ध-आवारस्य रक्षां वीवध-आसारयोः पथश्च । परिक्षिप्य दुर्गं खात-सालाभ्याम् । दूषयित्वाउदकम् । अवस्राव्य परिखाः सम्पूरयित्वा वा । सुरुङ्गा-बल-कुटिकाभ्यां वप्र-प्राकारौ हारयेत् । दारं च गुडेन ।। १३.४.०९ ।।
निम्नं वा पांसु-मालयाआच्छादयेत् ।। १३.४.१० ।।