Jump to content

सरस्वती-रहस्य (उपनिषद्)

विकिपिडिया नं
नेपाललिपि परिक्षण: 𑐠𑑂𑐰 𑐥𑑁𑐫𑐵 𑐣𑐾𑐥𑐵𑐮𑐮𑐶𑐥𑐶𑐂 𑐥𑐬𑐶𑐎𑑂𑐲𑐞 𑐥𑑁 𑐧𑑂𑐰𑐣𑐾𑐟: सरस्वती-रहस्य (उपनिषद्) 𑐟𑐶𑐫𑐵𑐡𑐶𑐳𑑄𑑋

सरस्वती-रहस्य (उपनिषद्) छगू काव्य ख। थ्व काव्य मुक्तिक उपनिषद्‌या अन्तर्गतय् उपनिषद् दुने ला []। थ्व श्रुति प्रचलनया छगू महत्त्वपूर्ण धार्मिक ग्रन्थ ख।

थ्व उपनिषदया अर्थ “बुद्धि देवीया गुप्त ज्ञान” ख। थ्व छगू अन्त्य मध्यकालीन युग संस्कृत ग्रन्थ ख व हिन्दू धर्मया चिधंगु उपनिषदय् छगू ख। थ्व ग्रन्थयात ८गु शक्ति उपनिषदय् छगूया कथं वर्गीकृत यानातःगु दु व कृष्ण यजुर्वेदय् दुथ्याःगु दु ।

उपनिषद स्त्रीत्वयात शक्ति (ऊर्जा, शक्ति)या रुपय् व आध्यात्मिक ब्राह्मण सिद्धान्तया रुपय् महिमा बिइगु निंतिं नांजाः। थुकिलि भक्ति व वेदान्त शब्दावलीया संयोजनया व्यापक छ्येला दु। एनेट विल्के व ओलिभर मोएबसं थ्व ग्रन्थया अन्तर्निहित दार्शनिक आधार अद्वैत वेदान्त नाप ज्वः लाःगु धका धाःगु दु। हिन्दू धर्मया देवी परम्पराया निंतिं थ्व ग्रन्थ महत्त्वपूर्ण दु।


श्लोक

[सम्पादन]

थुकिया श्लोक थ्व कथं दु-[]

उपनिषद्

॥ सरस्वतीरहस्योपनिषत् ॥


प्रतियोगिविनिर्मुक्तब्रह्मविद्यैकगोचरम् ।
अखण्डनिर्विकल्पं तद्रामचन्द्रपदं भजे ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता
मनो मे वाचि प्रतिष्ठितम् ॥

आविरावीर्म एधि वेदस्य म आणीस्थः
शृतं मे मा प्रहासीः अनेनाधीतेनाहोरात्रान्सन्दधामि
ऋतं वदिष्यामि सत्यं वदिष्यामि ॥

तन्मामवतु तद्वक्तारमवतु
अवतु मामवतु वक्तारमवतु वक्तारम् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥
1
हरिः ॐ ॥

ऋषयो ह वै भगवन्तमाश्वलायनं संपूज्य पप्रच्छुः

केनोपायेन तज्ज्ञानं तत्पदार्थावभासकम् ।
यदुपासनया तत्त्वं जानासि भगवन्वद ॥ १.१ ॥

सरस्वतीदशश्लोक्या सऋचा बीजमिश्रया ।
स्तुत्वा जप्त्वा परां सिद्धिमलभं मुनिपुङ्गवाः ॥ १.२ ॥

ऋषयः ऊचुः ।
कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।
महासरस्वती येन तुष्टा भगवती वद ॥ १.३ ॥

स होवाचाश्वलायनः ।
अस्य श्रीसरस्वतीदशश्लोकीमहामन्त्रस्य ।
अहमाश्वलायन ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीवागीश्वरी देवता ।
यद्वागिति बीजम् ।
देवीं वाचमिति
शक्तिः ।

ॐ प्रणो देवीति कीलकम् ।
विनियोगस्तत्प्रीत्यर्थे ।
श्रद्धा मेधा प्रज्ञा धारणा वाग्देवता महासरस्वतीत्येतैरङ्गन्यासः ॥

नीहारहारघनसारसुधाकराभां
कल्याणदां कनकचम्पकदामभूषाम् ।
उत्तुङ्गपीनकुचकुम्भमनोहराङ्गीं
वाणीं नमामि मनसा वचसा विभूत्यै ॥ १ ॥

ॐ प्रणो देवीत्यस्य मन्त्रस्य भरद्वाज ऋषिः ।
गायत्री छन्दः ।
श्रीसरस्वती देवता ।
प्रणवेन बीजशक्तिः कीलकम् ।
इष्टार्थे विनियोगः ।
मन्त्रेण न्यासः ॥
या वेदान्तार्थतत्त्वैकस्वरूपा परमार्थतः ।
नामरूपात्मना व्यक्ता सा मां पातु सरस्वति ॥
[]प्रणो देवी सरस्वती वाजेभिर्वाजेनीवती ।
धीनामवित्र्यवतु ॥ २.१ ॥

[]आ नो दिव इति मन्त्रस्य अत्रिरृषिः ।
त्रिष्टुप् छन्दः ।
सरस्वती देवता ।
ह्रीमिति बीजशक्तिः कीलकम् ।
इष्टार्थे विनियोगः ।
मन्त्रेण न्यासः ॥
या साङ्गोपाङ्ग वेदेषु चतुर्श्वेकैव गीयते ।
अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥
ह्रीं []आ नो दिवो बृहतः पर्वतादा सरस्वती यजतागंतु यज्ञम् ।
हवं देवी जुजुषाणा घृताची शग्मां नो वाचामुशती शृणोतु ॥ २.२ ॥

पावका न इति मन्त्रस्य ।
मधुच्छन्द ऋषिः ।
गायत्री छन्दः ।
सरस्वती देवता ।
श्रीमिति बीजशक्तिः कीलकम् ।
इष्टार्थे विनियोगः ।
मन्त्रेण न्यासः ॥
या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते ।
अनादिनिधनानन्ता सा मां पातु सरस्वती ॥
श्रीं []पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
यज्ञं वष्टु धिया वसुः ॥ २.३ ॥

चोदयत्रीति मन्त्रस्य मधुच्छन्द ऋषिः ।
गायत्री छन्दः ।
सरस्वती देवता ।
ब्लूमिति बीजशक्तिः कीलकम् ।
मन्त्रेण न्यासः ॥
अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी ।
प्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती ॥
ब्लूं []चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।
यज्ञं दधे सरस्वती ॥ २.४ ॥

महो अर्ण इति मन्त्रस्य ।
मधुच्छन्द ऋषिः ।
गायत्री छन्दः ।
सरस्वती देवता ।
सौरिति बीजशक्तिः कीलकम् ।
मन्त्रेण न्यासः ।
अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति ।
रुद्रादित्यादिरूपस्था यस्यामावेश्यतां पुनः ।
ध्यायन्ति सर्वरूपैका सा मां पातु सरस्वती ।
सौः []महो अर्णः सरस्वती प्रचेतयति केतुना ।
धियो विश्वा विराजति ॥ २.५ ॥

चत्वारि वागिति मन्त्रस्य उचथ्यपुत्रो दीर्घतमा ऋषिः ।
त्रिष्टुप् छन्दः ।
सरस्वती देवता ।
ऐमिति बीजशक्तिः कीलकम् ।
मन्त्रेण न्यासः ।
या प्रत्यग्दृष्टिभिर्जीवैर्व्यज्यमानानुभूयते ।
व्यापिनि ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥
ऐं []चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ २.६ ॥

यद्वाग्वदन्तीति मन्त्रस्य भार्गव ऋषिः ।
त्रिष्टुप् छन्दः ।
सरस्वती देवता ।
क्लीमिति बीजशक्तिः कीलकम् ।
मन्त्रेण न्यासः ।
नामजात्यादिमिर्भेदैरष्टधा या विकल्पिता ।
निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती ॥
क्लीं [१०]यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा ।
चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥ २.७ ॥

देवीं वाचमिति मन्त्रस्य भार्गव ऋषिः ।
त्रिष्टुप् छन्दः ।
सरस्वती देवता ।
सौरिति बीजशक्तिः कीलकम् ।
मन्त्रेण न्यासः ।
व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् ।
सर्वकामदुघा धेनुः सा मां पातु सरस्वती ॥
सौः [११]देवीं वाचमजनयन्त देवास्ता विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥२.८ ॥

उत त्व इति मन्त्रस्य बृहस्पतिरृषिः ।
त्रिष्टुप्छन्दः ।
सरस्वती देवता ।
समिति बीजशक्तिः कीलकम् ।
मन्त्रेण न्यासः ।
यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना ।
योगी याति परं स्थानं सा मां पातु सरस्वती ॥
सं [१२]उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् ।
उतो त्वस्मै तन्वं १ विसस्रे जायेव पत्य उशती सुवासाः ॥ २.९ ॥

अम्बितम इति मन्त्रस्य गृत्समद ऋषिः ।
अनुष्टुप् छन्दः ।
सरस्वती देवता ।
ऐमिति बीजशक्तिः कीलकम् ।
मन्त्रेण न्यासः ।
नामरूपात्मकं सर्वं यस्यामावेश्य तं पुनः ।
ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती ॥
ऐं [१३]अम्बितमे नदीतमे देवितमे सरस्वती ।
अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥ २.१० ॥


3
चतुर्मुखमुखाम्भोजवनहंसवधूर्मम ।
मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥ ३.१ ॥

नमस्ते शारदे देवि काश्मीरपुरवासिनी ।
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥ २ ॥

अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी ।
मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा ॥ ३ ॥

कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषिता ।
महासरस्वती देवी जिह्वाग्रे संनिविश्यताम् ॥ ४ ॥

या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा ।
भक्तजिह्वाग्रसद्ना शमादिगुणदायिनी ॥ ३.५ ॥

नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् ।
भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ ६ ॥

यः कवित्वं निरातङ्कं भक्तिमुक्ती च वाञ्छति ।
सोऽभ्यैर्च्यैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम् ॥ ७ ॥

तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् ।
भक्तिश्रद्धाभियुक्तस्य षण्मासात्प्रत्ययो भवेत् ॥ ८ ॥

ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा ।
गद्यपद्यात्मकैः शब्दैरप्रमेयैर्विवक्षितैः ॥ ९ ॥

अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ।
इत्येवं निश्चयं विप्राः सा होवाच सरस्वती ॥ ३.१० ॥

आत्मविद्या मया लब्धा ब्रह्मणैव सनातनी ।
ब्रह्मत्वं मे सदा नित्यं सच्चिदानन्दरूपतः ॥ ११ ॥

प्रकृतित्वं ततः सृष्टं सत्त्वादिगुणसाम्यतः ।
सत्यमाभाति चिच्छाया दर्पणे प्रतिबिम्बवत् ॥ १२ ॥

तेन चित्प्रतिबिम्बेन त्रिविधा भाति सा पुनः ।
प्रकृत्यवच्छिन्नतया पुरुषत्वं पुनश्च ते ॥ १३ ॥

शुद्धसत्त्वप्रधानायां मायायां बिम्बितो ह्यजः ।
सत्त्वप्रधाना प्रकृतिर्मायेति प्रतिपाद्यते ॥ १४ ॥

सा माया स्ववशोपाधिः सर्वज्ञस्येश्वरस्य हि ।
वश्यमायत्वमेकत्वं सर्वज्ञत्वं च तस्य तु ॥ ३.१५ ॥

सात्त्विकत्वात्समष्टित्वात्साक्षित्वाज्जगतामपि ।
जगत्कर्तुमकर्तुं वा चान्यथा कर्तुमीशते ॥ १६ ॥

यः स ईश्वर इत्युक्तः सर्वज्ञत्वादिभिर्गुणैः ।
शक्तिद्वयं हि मायया विक्षेपावृत्तिरूपकम् ॥ १७ ॥

विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत्सृजेत् ।
अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः ॥ १८ ॥

आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् ।
साक्षिणः पुरतो भातं लिङ्गदेहेन संयुतम् ॥ १९ ॥

चितिच्छाया समावेशाज्जीवः स्याद्व्यावहारिकः ।
अस्य जीवत्वमारोपात्साक्षिण्यप्यवभासते ॥ ३.२० ॥

आवृतौ तु विनष्टायां भेदे भातेऽपयाति तत् ।
तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति ॥ २१ ॥

या शक्तिस्त्वद्वशाद्ब्रह्म विकृतत्वेन भासते ।
अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः ॥ २२ ॥

भेदस्तयोर्विकारः स्यात्सर्गे न ब्रह्मणि क्वचित् ।
[१४]अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ॥ २३ ॥

आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ।
अपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः ॥ २४ ॥

समाधिं सर्वदा कुर्याधृदये वाथ वा बहिः ।
सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि ॥ ३.२५ ॥

दृश्यशब्दानुभेदेन स विकल्पः पुनर्द्विधा ।
कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् ॥ २६ ॥

ध्यायेद्दृश्यानुविद्धोऽयं समाधिः सविकल्पकः ।
असङ्गः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः ॥ २७ ॥

अस्मीतिशब्दविद्धोऽयं समाधिः सविकल्पकः ।
स्वानुभूतिरसावेशाद्दृश्यशब्दाद्यपेक्षितुः ॥ २८ ॥

निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत् ।
हृदीव बाह्यदेशेऽपि यस्मिन्कस्मिंश्च वस्तुनि ॥ २९ ॥

समाधिराद्यसन्मात्रान्नामरूपपृथक्कृतिः ।
स्तब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः ॥ ३.३० ॥

एतैः समाधिभिः षड्भिर्नयेत्कालं निरन्तरम् ।
देहाभिमाने गलिते विज्ञाते परमात्मनि ।
यत्र यत्र मनो याति तत्र तत्र परामृतम् ॥ ३१ ॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ३२ ॥

मयि जीवत्वमीशत्वं कल्पितं वस्तुतो नहि ।
इति यस्तु विजानाति स मुक्तो नात्र संशयः ॥ ३३ ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता ।
मनो मे वाचि प्रतिष्ठितम् ।
आविरावीर्म एधि ।
वेदस्य म आणीस्थः ।
शृतं मे मा प्रहासीः ।
अनेनाधीतेनाहोरात्रान्सन्दधामि ।
ऋतं वदिष्यामि ।
सत्यं वदिष्यामि ।
तन्मामवतु ।
तद्वक्तारमवतु ।
अवतु मामवतु वक्तारमवतु वक्तारम् ॥

॥ इति सरस्वतीरहस्योपनिषत्समाप्ता ॥

अधिकाध्ययनाय

[सम्पादन]

वर्गः:उपनिषदः

सो महो अर्न सरस्वती केतुना धियो विश्व। विराजती ।।

लिधंसा

[सम्पादन]
  1. http://sanskritdocuments.org/all_sa/upanishad_list_sa.html
  2. ऋ. ६.६१.४
  3. ऋ. ५.४३.११
  4. ऋ. ५.४३.११
  5. ऋ. १.३.१०
  6. ऋ. १.३.११
  7. ऋ. १.३.१२
  8. ऋ. १.१६४.४५
  9. ऋ. ८.१००.१०
  10. ऋ. ८.१००.११
  11. ऋ. १०.७१.४
  12. ऋ. २.४१.१६
  13. टिप्पणीः पद्मपुराणे ६.१८५ भगवद्गीता एकादशाध्यायस्य माहात्म्यरूपे एका कथा अस्ति। प्रणीतानद्याः तटे एकः मेघङ्करसंज्ञकः नगरः अस्ति यस्मिन् सनन्दसंज्ञकः एकः ब्राह्मणः वसति। सः एकदा गोदावरीतीर्थस्य यात्रायै गृहतः निष्क्रामति, किन्तु तीर्थस्थले कोपि तं वासं-शरणं न ददाति। एकः ग्रामप्रधानः तं धर्मशालायां वासं ददाति। रात्रिकाले सुनन्दः पश्यति यत् सः धर्मशालातः बहिः स्थितः अस्ति एवं ये अन्ये जनाः धर्मशालायां अन्तरे वसन्ति स्म, तान् सर्वान् एकः राक्षसः भक्षणं करोति। केन कारणेन राक्षसेन सुनन्दस्यापि भक्षणं न कृतम्, अस्य कारणं अयमस्ति यत् सुनन्दः भगवद्गीतायाः एकादशाध्यायस्य(विश्वरूपदर्शनम्) जापकः अस्ति। अस्मिन्नाख्याने अयं प्रतीयते यत् प्रणीतानदी प्रेतिसंज्ञकायाः गत्याः सूचकः अस्ति। स्थूलब्रह्माण्डस्य यः सारतमः भागः सूर्यं प्रति गतिं करोति, यथा अग्नेः धूमः, तत् प्रेतिः अस्ति। तेन धूमेन मेघस्य निर्माणं भवति। यादृशस्य प्रकारस्य धूमः अस्ति, तादृशस्य प्रकारस्य मेघस्य जननं भविष्यति। सरस्वतीरहस्योपनिषदस्य संदर्भे, अयं नामरूपतः अस्तिं प्रति गतिः अस्ति। गत्याः द्वितीयः प्रकारः एति अस्ति - सूर्यतः ब्रह्माण्डं प्रति प्रेषितायाः रश्म्याः कः स्वरूपः अस्ति। पद्मपुराणस्य आख्यानं कथयति यत् यः धर्मशालायाः अन्ते वसति, तत् सर्वं नष्टं भवति। यः धर्मशालातः बहिरागच्छति, तदैव शेषं भवति। सरस्वतीरहस्योपनिषदस्य भाषायां - यः अस्ति, भाति, प्रियः अस्ति, यः निर्विकल्पसमाधिः अस्ति, तत् न सुरक्षितः अस्ति। तस्मात् व्युत्थानं अपेक्षितमस्ति।

स्वयादिसँ

[सम्पादन]


उपनिषद्तेगु धलः ॐ
ईश (उपनिषद्)केन (उपनिषद्)कठ (उपनिषद्)प्रश्न (उपनिषद्)मुण्डक (उपनिषद्)माण्डुक्य (उपनिषद्)तैत्तिरीय (उपनिषद्)ऐतरेय (उपनिषद्)छान्दोग्य (उपनिषद्)बृहदारण्यक (उपनिषद्)ब्रह्म (उपनिषद्)कैवल्य (उपनिषद्)जाबाल (उपनिषद्)श्वेताश्वतर (उपनिषद्)हंस (उपनिषद्)आरुणेय (उपनिषद्)गर्भ (उपनिषद्)नारायण (उपनिषद्)परमहंस (उपनिषद्)अमृत-बिन्दु (उपनिषद्)अमृत-नाद (उपनिषद्)अथर्व-शिर (उपनिषद्)अथर्व-शिख (उपनिषद्)मैत्रायणि (उपनिषद्)कौषीताकि (उपनिषद्)बृहज्जाबाल (उपनिषद्)नृसिंहतापनी (उपनिषद्)कालाग्निरुद्र (उपनिषद्)मैत्रेयि (उपनिषद्)सुबाल (उपनिषद्)क्षुरिक (उपनिषद्)मन्त्रिक (उपनिषद्)सर्व-सार (उपनिषद्)निरालम्ब (उपनिषद्)शुक-रहस्य (उपनिषद्)वज्र-सूचिक (उपनिषद्)तेजो-बिन्दु (उपनिषद्)नाद-बिन्दु (उपनिषद्)ध्यानबिन्दु (उपनिषद्)ब्रह्मविद्या (उपनिषद्)योगतत्त्व (उपनिषद्)आत्मबोध (उपनिषद्)परिव्रात् (उपनिषद्)त्रि-षिखि (उपनिषद्)सीतोपनिषद् (उपनिषद्)योगचूडामणि (उपनिषद्)निर्वाण (उपनिषद्)मण्डलब्राह्मण (उपनिषद्)दक्षिणामूर्ति (उपनिषद्)शरभ (उपनिषद्)स्कन्द (उपनिषद्)महानारायण (उपनिषद्)अद्वयतारक (उपनिषद्)रामरहस्य (उपनिषद्)रामतापणि (उपनिषद्)वासुदेव (उपनिषद्)मुद्गल (उपनिषद्)शाण्डिल्य (उपनिषद्)पैंगल (उपनिषद्)भिक्षु (उपनिषद्)महत्-शारीरक (उपनिषद्)योगशिखा (उपनिषद्)तुरीयातीत (उपनिषद्)संन्यास (उपनिषद्)परमहंस-परिव्राजक (उपनिषद्)अक्षमालिक (उपनिषद्)अव्यक्त (उपनिषद्)एकाक्षर (उपनिषद्)अन्नपूर्ण (उपनिषद्)सूर्य (उपनिषद्)अक्षि (उपनिषद्)अध्यात्मा (उपनिषद्)कुण्डिकोपनिषद् (उपनिषद्)सावित्रि (उपनिषद्)आत्मा (उपनिषद्)पाशुपत (उपनिषद्)परब्रह्म (उपनिषद्)अवधूत (उपनिषद्)त्रिपुरातपनोपनिषद् (उपनिषद्)देवि (उपनिषद्)त्रिपुर (उपनिषद्)कर (उपनिषद्)भावन (उपनिषद्)रुद्र-हृदय (उपनिषद्)योग-कुण्डलिनि (उपनिषद्)भस्मोपनिषद् (उपनिषद्)रुद्राक्ष (उपनिषद्)गणपति (उपनिषद्)दर्शन (उपनिषद्)तारसार (उपनिषद्)महावाक्य (उपनिषद्)पञ्च-ब्रह्म (उपनिषद्)प्राणाग्नि-होत्र (उपनिषद्)गोपाल-तपणि (उपनिषद्)कृष्ण (उपनिषद्)याज्ञवल्क्य (उपनिषद्)वराह (उपनिषद्)शात्यायनि (उपनिषद्)हयग्रीव (उपनिषद्)दत्तात्रेय (उपनिषद्)गारुड (उपनिषद्)कलि-सण्टारण (उपनिषद्)जाबाल(सामवेद) (उपनिषद्)सौभाग्य (उपनिषद्)सरस्वती-रहस्य (उपनिषद्)बह्वृच (उपनिषद्)मुक्तिक (उपनिषद्)
हिन्दू धर्म
श्रुति: वेद · उपनिषद · श्रुत
स्मृति: इतिहास (रामायण, महाभारत, श्रीमदभागवत गीता) · पुराण · सुत्र · आगम (तन्त्र, यन्त्र) · वेदान्त
विचा:त: अवतार · आत्मा · ब्राह्मन · कोसस · धर्म · कर्म · मोक्ष · माया · इष्ट-देव · मुर्ति · पूनर्जन्म · हलिम · तत्त्व · त्रिमुर्ति · कतुर्थगुरु
दर्शन: मान्यता · प्राचीन हिन्दू धर्म · साँख्य · न्याय · वैशेषिक · योग · मीमांसा · वेदान्त · तन्त्र · भक्ति
परम्परा: ज्योतिष · आयुर्वेद · आरति · भजन · दर्शन · दिक्षा · मन्त्र · पुजा · सत्संग · स्तोत्र · ईहिपा: · यज्ञ
गुरु: शंकर · रामानुज · माधवाचार्य · रामकृष्ण · शारदा देवी · विवेकानन्द · नारायण गुरु · औरोबिन्दो · रमन महार्षि · शिवानन्द · चिन्‍मयानन्‍द · शुब्रमुनियस्वामी · स्वामीनारायण · प्रभुपद · लोकेनाथ
विभाजन: वैष्णभ · शैव · शक्ति · स्मृति · हिन्दू पूनरुत्थान ज्याझ्व
द्य: द्यतेगु नां · हिन्दू बाखं
युग: सत्य युग · त्रेता युग · द्वापर युग · कलि युग
वर्ण: ब्राह्मन · क्षत्रीय · वैश्य · शुद्र · दलित · वर्णाश्रम धर्म