Jump to content

केन (उपनिषद्)

विकिपिडिया नं
नेपाललिपि परिक्षण: 𑐠𑑂𑐰 𑐥𑑁𑐫𑐵 𑐣𑐾𑐥𑐵𑐮𑐮𑐶𑐥𑐶𑐂 𑐥𑐬𑐶𑐎𑑂𑐲𑐞 𑐥𑑁 𑐧𑑂𑐰𑐣𑐾𑐟: केन (उपनिषद्) 𑐟𑐶𑐫𑐵𑐡𑐶𑐳𑑄𑑋

केन (उपनिषद्) छगू काव्य ख। थ्व काव्य मुक्तिक उपनिषद्‌या अन्तर्गतय् उपनिषद् दुने ला []। थ्व श्रुति प्रचलनया छगू महत्त्वपूर्ण धार्मिक ग्रन्थ ख।

श्लोक

[सम्पादन]

थुकिया श्लोक थ्व कथं दु-[]

॥ अथ केनोपनिषत् ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं
माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।
तदात्मनि निरते य
उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।

ॐ शान्तिः शान्तिः शान्तिः ॥

प्रथमः खण्डः

[सम्पादन]

ॐ केनेषितं पतति प्रेषितं मनः
केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति
चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १ ॥

श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं
स उ प्राणस्य प्राणः चक्षुषश्चक्षुः |
अतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।
न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥

अन्यदेव तद्विदितादथो अविदितादधि ।
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४ ॥

यद्वाचाऽनभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥

यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥

यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८ ॥

यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९ ॥

॥ इति केनोपनिषदि प्रथमः खण्डः ॥

द्वितीयः खण्डः

[सम्पादन]

यदि मन्यसे सुवेदेति दहरमेवापि
नूनं त्वं वेत्थ ब्रह्मणो रूपम् ।
यदस्य त्वं यदस्य देवेष्वथ नु
मीमाँस्येमेव ते मन्ये विदितम् ॥ १ ॥

नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २ ॥

यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३ ॥

प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥

इह चेदवेदीदथ सत्यमस्ति
न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः
प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥

 ॥ इति केनोपनिषदि द्वितीयः खण्डः ॥

तृतीयः खण्डः

[सम्पादन]

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो
विजये देवा अमहीयन्त ॥ १ ॥

त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ।
तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत
किमिदं यक्षमिति ॥ २ ॥

तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि
किमिदं यक्षमिति तथेति ॥ ३ ॥

तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा
अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ४ ॥

तस्मिँस्त्वयि किं वीर्यमित्यपीदँ सर्वं
दहेयं यदिदं पृथिव्यामिति ॥ ५ ॥

तस्मै तृणं निदधावेतद्दहेति ।
तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव
निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६ ॥

अथ वायुमब्रुवन्वायवेतद्विजानीहि
किमेतद्यक्षमिति तथेति ॥ ७ ॥

तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा
अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ ८ ॥

तस्मिँस्त्वयि किं वीर्यमित्यपीदँ
सर्वमाददीय यदिदं पृथिव्यामिति ॥ ९ ॥

तस्मै तृणं निदधावेतदादत्स्वेति
तदुपप्रेयाय सर्वजवेन तन्न शशाकादतुम् |
स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १० ॥

अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति
तदभ्यद्रवत्तस्मात्तिरोदधे ॥ ११ ॥

स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँ
हैमवतीं ताँहोवाच किमेतद्यक्षमिति ॥ १२ ॥

 ॥ इति केनोपनिषदि तृतीयः खण्डः ॥

चतुर्थः खण्डः

[सम्पादन]

सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति
ततो हैव विदाञ्चकार ब्रह्मेति ॥ १ ॥

तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते
ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २ ॥

तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्
सह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३ ॥

तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३[]इतीन् न्यमीमिषदा३
इत्यधिदैवतम् ॥ ४ ॥

अथाध्यात्मं यद्देतद्गच्छतीव च मनोऽनेन
चैतदुपस्मरत्यभीक्ष्णँ सङ्कल्पः ॥ ५ ॥

तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि
हैनँ सर्वाणि भूतानि संवाञ्छन्ति ॥ ६ ॥

उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त
उपनिषदमब्रूमेति ॥ ७ ॥

तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि
सत्यमायतनम् ॥ ८ ॥

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे
लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९ ॥

 ॥ इति केनोपनिषदि चतुर्थः खण्डः ॥


ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं
माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकारोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।
तदात्मनि निरते य
उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।

ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति केनोपनिषद् ॥

लिधंसा

[सम्पादन]
  1. http://sanskritdocuments.org/all_sa/upanishad_list_sa.html
  2. [केनोपनिषद्
  3. footnoteExtra `aa'kaar is used in the sense of comparison

स्वयादिसँ

[सम्पादन]


उपनिषद्तेगु धलः ॐ
ईश (उपनिषद्)केन (उपनिषद्)कठ (उपनिषद्)प्रश्न (उपनिषद्)मुण्डक (उपनिषद्)माण्डुक्य (उपनिषद्)तैत्तिरीय (उपनिषद्)ऐतरेय (उपनिषद्)छान्दोग्य (उपनिषद्)बृहदारण्यक (उपनिषद्)ब्रह्म (उपनिषद्)कैवल्य (उपनिषद्)जाबाल (उपनिषद्)श्वेताश्वतर (उपनिषद्)हंस (उपनिषद्)आरुणेय (उपनिषद्)गर्भ (उपनिषद्)नारायण (उपनिषद्)परमहंस (उपनिषद्)अमृत-बिन्दु (उपनिषद्)अमृत-नाद (उपनिषद्)अथर्व-शिर (उपनिषद्)अथर्व-शिख (उपनिषद्)मैत्रायणि (उपनिषद्)कौषीताकि (उपनिषद्)बृहज्जाबाल (उपनिषद्)नृसिंहतापनी (उपनिषद्)कालाग्निरुद्र (उपनिषद्)मैत्रेयि (उपनिषद्)सुबाल (उपनिषद्)क्षुरिक (उपनिषद्)मन्त्रिक (उपनिषद्)सर्व-सार (उपनिषद्)निरालम्ब (उपनिषद्)शुक-रहस्य (उपनिषद्)वज्र-सूचिक (उपनिषद्)तेजो-बिन्दु (उपनिषद्)नाद-बिन्दु (उपनिषद्)ध्यानबिन्दु (उपनिषद्)ब्रह्मविद्या (उपनिषद्)योगतत्त्व (उपनिषद्)आत्मबोध (उपनिषद्)परिव्रात् (उपनिषद्)त्रि-षिखि (उपनिषद्)सीतोपनिषद् (उपनिषद्)योगचूडामणि (उपनिषद्)निर्वाण (उपनिषद्)मण्डलब्राह्मण (उपनिषद्)दक्षिणामूर्ति (उपनिषद्)शरभ (उपनिषद्)स्कन्द (उपनिषद्)महानारायण (उपनिषद्)अद्वयतारक (उपनिषद्)रामरहस्य (उपनिषद्)रामतापणि (उपनिषद्)वासुदेव (उपनिषद्)मुद्गल (उपनिषद्)शाण्डिल्य (उपनिषद्)पैंगल (उपनिषद्)भिक्षु (उपनिषद्)महत्-शारीरक (उपनिषद्)योगशिखा (उपनिषद्)तुरीयातीत (उपनिषद्)संन्यास (उपनिषद्)परमहंस-परिव्राजक (उपनिषद्)अक्षमालिक (उपनिषद्)अव्यक्त (उपनिषद्)एकाक्षर (उपनिषद्)अन्नपूर्ण (उपनिषद्)सूर्य (उपनिषद्)अक्षि (उपनिषद्)अध्यात्मा (उपनिषद्)कुण्डिकोपनिषद् (उपनिषद्)सावित्रि (उपनिषद्)आत्मा (उपनिषद्)पाशुपत (उपनिषद्)परब्रह्म (उपनिषद्)अवधूत (उपनिषद्)त्रिपुरातपनोपनिषद् (उपनिषद्)देवि (उपनिषद्)त्रिपुर (उपनिषद्)कर (उपनिषद्)भावन (उपनिषद्)रुद्र-हृदय (उपनिषद्)योग-कुण्डलिनि (उपनिषद्)भस्मोपनिषद् (उपनिषद्)रुद्राक्ष (उपनिषद्)गणपति (उपनिषद्)दर्शन (उपनिषद्)तारसार (उपनिषद्)महावाक्य (उपनिषद्)पञ्च-ब्रह्म (उपनिषद्)प्राणाग्नि-होत्र (उपनिषद्)गोपाल-तपणि (उपनिषद्)कृष्ण (उपनिषद्)याज्ञवल्क्य (उपनिषद्)वराह (उपनिषद्)शात्यायनि (उपनिषद्)हयग्रीव (उपनिषद्)दत्तात्रेय (उपनिषद्)गारुड (उपनिषद्)कलि-सण्टारण (उपनिषद्)जाबाल(सामवेद) (उपनिषद्)सौभाग्य (उपनिषद्)सरस्वती-रहस्य (उपनिषद्)बह्वृच (उपनिषद्)मुक्तिक (उपनिषद्)
हिन्दू धर्म
श्रुति: वेद · उपनिषद · श्रुत
स्मृति: इतिहास (रामायण, महाभारत, श्रीमदभागवत गीता) · पुराण · सुत्र · आगम (तन्त्र, यन्त्र) · वेदान्त
विचा:त: अवतार · आत्मा · ब्राह्मन · कोसस · धर्म · कर्म · मोक्ष · माया · इष्ट-देव · मुर्ति · पूनर्जन्म · हलिम · तत्त्व · त्रिमुर्ति · कतुर्थगुरु
दर्शन: मान्यता · प्राचीन हिन्दू धर्म · साँख्य · न्याय · वैशेषिक · योग · मीमांसा · वेदान्त · तन्त्र · भक्ति
परम्परा: ज्योतिष · आयुर्वेद · आरति · भजन · दर्शन · दिक्षा · मन्त्र · पुजा · सत्संग · स्तोत्र · ईहिपा: · यज्ञ
गुरु: शंकर · रामानुज · माधवाचार्य · रामकृष्ण · शारदा देवी · विवेकानन्द · नारायण गुरु · औरोबिन्दो · रमन महार्षि · शिवानन्द · चिन्‍मयानन्‍द · शुब्रमुनियस्वामी · स्वामीनारायण · प्रभुपद · लोकेनाथ
विभाजन: वैष्णभ · शैव · शक्ति · स्मृति · हिन्दू पूनरुत्थान ज्याझ्व
द्य: द्यतेगु नां · हिन्दू बाखं
युग: सत्य युग · त्रेता युग · द्वापर युग · कलि युग
वर्ण: ब्राह्मन · क्षत्रीय · वैश्य · शुद्र · दलित · वर्णाश्रम धर्म