Jump to content

कृष्ण (उपनिषद्)

विकिपिडिया नं
नेपाललिपि परिक्षण: 𑐠𑑂𑐰 𑐥𑑁𑐫𑐵 𑐣𑐾𑐥𑐵𑐮𑐮𑐶𑐥𑐶𑐂 𑐥𑐬𑐶𑐎𑑂𑐲𑐞 𑐥𑑁 𑐧𑑂𑐰𑐣𑐾𑐟: कृष्ण (उपनिषद्) 𑐟𑐶𑐫𑐵𑐡𑐶𑐳𑑄𑑋

कृष्ण (उपनिषद्) छगू काव्य ख। थ्व काव्य मुक्तिक उपनिषद्‌या अन्तर्गतय् उपनिषद् दुने ला []। थ्व श्रुति प्रचलनया छगू महत्त्वपूर्ण धार्मिक ग्रन्थ ख।

श्लोक

[सम्पादन]

थुकिया श्लोक थ्व कथं दु-[]

कृष्णोपनिषत्

॥ श्री गुरुभ्यो नमः हरिः ॐ ॥

यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया ।
अतोषयद्देवमौनिपटलं तं नतोऽस्म्यहम् ॥ १॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

          ॐ शान्तिः शान्तिः शान्तिः ।

॥ अथ प्रथम खंडः ॥

[सम्पादन]

हरिः ॐ । श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं
   दृष्ट्वा सर्वाण्गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः ।
   तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिण्गामो भवन्तमिति ।
   भवान्तरे कृष्णावतारे यूयं गोपिका भूत्व मामालिण्गथ
   अन्ये येऽवतारास्ते हि गोपा न स्त्रीश्च नो कुरु । अन्योन्यविग्रहं
  धार्यं तवाण्गस्पर्शनादिह । शाश्वतस्पर्शयितास्माकं
   गृण्हीमोऽवतारान्वयम् ॥ १॥

   रुद्रादीनां वचः शृत्वा प्रोवाच भगवान्स्वयम् ।
   अण्गयण्गं करिष्यामि भवद्वाक्यं करोम्यहम् ॥ २॥

   मोदितास्ते सुरा सर्वे कृतकृत्याधुना वयम् ।
   यो नन्दः परमानन्दो यशोदो मुक्तिगेहिनी ॥ ३॥

   माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी ।
   प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी ॥ ४॥

   तामसी दैत्यपक्ष्एषु माया त्रेधा ह्युदाहृता ।
   अजेया वैष्णवी माया जप्येन च सुता पुरा ॥ ५॥

   देवकी ब्रह्मपुत्र सा या वेदैरुपगीयते ।
   निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः ॥ ६॥

   स्तुवते सततं यस्तु सोऽवतीर्णो महीतले ।
   वने वृन्दावने क्रीडण्गोपगोपीसुरैः सह ॥ ७॥

   गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः ।
   वंशस्तु भगवान् रुद्रः शृण्गमिन्द्रः सगोसुरः ॥ ८॥

   गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः ।
   लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः ॥ ९॥

   गोपरूपो हरिः साक्षान्मायाविग्रहधारणः ।
   दुर्बोधं कुहकं तस्य मायया मोहितं जगत् ॥ १०॥

   दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्विजः ।
   रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम् ॥ ११॥

   बलं ज्ञानं सुराणां वै तेषां ज्ञानं हृतं क्षणात् ।
   शेशनागो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम् ॥ १२॥

   अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा ।
   ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः ॥ १३॥

   द्वेषाश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः ।
   दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः ॥ १४॥

   दया सा रोहिणी माता सत्यभामा धरेति वै ।
   अघासुरो महाव्याधिः कलिः कंसः स भूपतिः ॥ १५॥

   शमो मित्रः सुदामा च सत्याक्रूरोद्धवो दमः ।
   यः शङ्खः स स्वयं विष्णुर्लक्ष्मीरूपो व्यवस्थितः ॥ १६॥

   दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः ।
   दुग्दोदधिः कृतस्तेन भग्नभाण्डो दधिगृहे ॥ १७॥

   क्रीडते बालको भूत्वा पूर्ववत्सुमहोदधौ ।
   संहारार्थं च शत्रूणां रक्षणाय च संस्थितः ॥ १८॥

   कृपार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् ।
   यत्स्रष्टुमीश्वरेणासीतच्चक्रं ब्रह्मरूपदृक् ॥ १९॥

   जयन्तीसंभवो वायुश्चमरो धर्मसंज्ञितः ।
   यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः ॥ २०॥

  कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा ।
   चक्रं शंखं च संसिद्धिं बिन्दुं च सर्वमूर्धनि ॥ २१॥

   यावन्ति देवरूपाणि वदन्ति विभुधा जनाः ।
   नमन्ति देवरूपेभ्य एवमादि न संशयः ॥ २२॥

   गदा च काळिका साक्षात्सर्वशत्रुनिबर्हिणी ।
   धनुः शार्ङ्गं स्वमाया च शरत्कालः सुभोजनः ॥ २३॥

   अब्जकाण्डं जगत्बीजं धृतं पाणौ स्वलीलया ।
   गरुडो वटभाण्डीरः सुदामा नारदो मुनिः ॥ २४॥

   वृन्दा भक्तिः क्रिया बुद्धिः सर्वजन्तुप्रकाशिनी ।
   तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः ।
   भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम् ॥ २५॥

॥ इति प्रथम खण्डः ॥

॥ अथ द्वितीयः खण्डः ॥

[सम्पादन]

शेषो ह वै वासुदेवात् संकर्षणो नाम जीव आसीत् ।

सोऽकामयत प्रजाः सृजेयेति ।

ततः प्रद्युम्नसंज्ञक आसीत् ।

तस्मात् अहंकारनामानिरुद्धो हिरण्यगर्भोऽजायत ।

तस्मात् दश प्रजापतयो मरीच्याद्याः
स्थाणुदक्षकर्दमप्रियव्रतोत्तनपादवायवो व्यजायन्त ।

तेभ्योः सर्वाणि भूतानि च ।

तस्माच्छेषादेव सर्वाणि cअ भूतानि समुत्पद्यन्ते ।

तस्मिन्नेव प्रलीयन्ते ।

स एव बहुधा जायमानः सर्वान् परिपाति ।

स एव काद्रवेयो व्याकरणज्योतिषादिशास्त्रणि निर्मिमाणो
बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन्
शीर्ष्ण सिद्धार्थवदवध्रियमाणः सर्वैर्मुनिभिः
संप्रार्थ्यमानः सहस्रशिखराणि मेरोः
शिरोभिरावार्यमाणो महावाय्वहंकारं निराचकार ।

स एव भगवान् भगवन्तं बहुधा विप्रीयमाणः अखिलेन स्वेन
रुपेण युगे युगे तेनैव जयमानः स एव सौमित्रिरैक्ष्वाकः
सर्वाणि धानुषशास्त्राणि सर्वाण्यस्त्रशास्त्राणि बहुधा
विप्रीयमाणो रक्षांसि सर्वाणि विनिघ्नंश्चातुर्वर्ण्यधर्मान्
प्रवर्तयामास ।

स एव भगवान् युगसंधिकाले शारदाभ्रसंनिकाशो
रौहिणेयो वासुदेवः सर्वाणि गदाद्यायुधशास्त्राणि
व्याचक्षाणो नैकान् राजन्यमण्डलान्निराचिकीर्षुः
भूभारमखिलं निचखान ।

स एव भगवान् युगे तुरियेऽपि ब्रह्मकुले जायमानः सर्व
उपनिषदः उद्दिधीर्षुः सर्वाणि धर्मशास्त्राणि
विस्तारयिष्णुः सर्वानपि जनान् संतारयिष्णुः
सर्वानपि वैष्णवान् धर्मान् विजृम्भयन्
सर्वानपि पाषण्डान् निचखान ।

स एष जगदन्तर्यामी ।

स एष सर्वात्मकः ।

स एव मुमुक्षुभिर्ध्येयः ।

स एव मोक्षप्रदः ।

एतं स्मृत्वा सर्वेभ्यः पापेभ्यो मुच्यते ।

तन्नाम संकीर्तयन् विष्णुसायुज्यं गच्च्हति ।

तदेतद् दिवा अधीयानः रात्रिकृतं पापं नाशयति ।

नक्तमधीयानो दिवसकृतं पापं नाशयति ।

तदेतद्वेदानां रहस्यं तदेतदुपनिषदां रहस्यम्
एतदधीयानः सर्वत्रतुफलं लभते
शान्तिमेति मनःशुद्धिमेति सर्वतीर्थफलं लभते
य एवं वेद देहबन्धाद्विमुच्यते इत्युपनिषत् ॥
 ॥ इति द्वितीयः खण्डः ॥
   हरिः ॐ तत्सत्

ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

 ॐ शान्तिः शान्तिः शान्तिः ।

  ॥ इति कृष्णोपनिषत्समाप्ता ॥

 ॥ भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णार्पणमस्तु ॥

लिधंसा

[सम्पादन]

स्वयादिसँ

[सम्पादन]


उपनिषद्तेगु धलः ॐ
ईश (उपनिषद्)केन (उपनिषद्)कठ (उपनिषद्)प्रश्न (उपनिषद्)मुण्डक (उपनिषद्)माण्डुक्य (उपनिषद्)तैत्तिरीय (उपनिषद्)ऐतरेय (उपनिषद्)छान्दोग्य (उपनिषद्)बृहदारण्यक (उपनिषद्)ब्रह्म (उपनिषद्)कैवल्य (उपनिषद्)जाबाल (उपनिषद्)श्वेताश्वतर (उपनिषद्)हंस (उपनिषद्)आरुणेय (उपनिषद्)गर्भ (उपनिषद्)नारायण (उपनिषद्)परमहंस (उपनिषद्)अमृत-बिन्दु (उपनिषद्)अमृत-नाद (उपनिषद्)अथर्व-शिर (उपनिषद्)अथर्व-शिख (उपनिषद्)मैत्रायणि (उपनिषद्)कौषीताकि (उपनिषद्)बृहज्जाबाल (उपनिषद्)नृसिंहतापनी (उपनिषद्)कालाग्निरुद्र (उपनिषद्)मैत्रेयि (उपनिषद्)सुबाल (उपनिषद्)क्षुरिक (उपनिषद्)मन्त्रिक (उपनिषद्)सर्व-सार (उपनिषद्)निरालम्ब (उपनिषद्)शुक-रहस्य (उपनिषद्)वज्र-सूचिक (उपनिषद्)तेजो-बिन्दु (उपनिषद्)नाद-बिन्दु (उपनिषद्)ध्यानबिन्दु (उपनिषद्)ब्रह्मविद्या (उपनिषद्)योगतत्त्व (उपनिषद्)आत्मबोध (उपनिषद्)परिव्रात् (उपनिषद्)त्रि-षिखि (उपनिषद्)सीतोपनिषद् (उपनिषद्)योगचूडामणि (उपनिषद्)निर्वाण (उपनिषद्)मण्डलब्राह्मण (उपनिषद्)दक्षिणामूर्ति (उपनिषद्)शरभ (उपनिषद्)स्कन्द (उपनिषद्)महानारायण (उपनिषद्)अद्वयतारक (उपनिषद्)रामरहस्य (उपनिषद्)रामतापणि (उपनिषद्)वासुदेव (उपनिषद्)मुद्गल (उपनिषद्)शाण्डिल्य (उपनिषद्)पैंगल (उपनिषद्)भिक्षु (उपनिषद्)महत्-शारीरक (उपनिषद्)योगशिखा (उपनिषद्)तुरीयातीत (उपनिषद्)संन्यास (उपनिषद्)परमहंस-परिव्राजक (उपनिषद्)अक्षमालिक (उपनिषद्)अव्यक्त (उपनिषद्)एकाक्षर (उपनिषद्)अन्नपूर्ण (उपनिषद्)सूर्य (उपनिषद्)अक्षि (उपनिषद्)अध्यात्मा (उपनिषद्)कुण्डिकोपनिषद् (उपनिषद्)सावित्रि (उपनिषद्)आत्मा (उपनिषद्)पाशुपत (उपनिषद्)परब्रह्म (उपनिषद्)अवधूत (उपनिषद्)त्रिपुरातपनोपनिषद् (उपनिषद्)देवि (उपनिषद्)त्रिपुर (उपनिषद्)कर (उपनिषद्)भावन (उपनिषद्)रुद्र-हृदय (उपनिषद्)योग-कुण्डलिनि (उपनिषद्)भस्मोपनिषद् (उपनिषद्)रुद्राक्ष (उपनिषद्)गणपति (उपनिषद्)दर्शन (उपनिषद्)तारसार (उपनिषद्)महावाक्य (उपनिषद्)पञ्च-ब्रह्म (उपनिषद्)प्राणाग्नि-होत्र (उपनिषद्)गोपाल-तपणि (उपनिषद्)कृष्ण (उपनिषद्)याज्ञवल्क्य (उपनिषद्)वराह (उपनिषद्)शात्यायनि (उपनिषद्)हयग्रीव (उपनिषद्)दत्तात्रेय (उपनिषद्)गारुड (उपनिषद्)कलि-सण्टारण (उपनिषद्)जाबाल(सामवेद) (उपनिषद्)सौभाग्य (उपनिषद्)सरस्वती-रहस्य (उपनिषद्)बह्वृच (उपनिषद्)मुक्तिक (उपनिषद्)
हिन्दू धर्म
श्रुति: वेद · उपनिषद · श्रुत
स्मृति: इतिहास (रामायण, महाभारत, श्रीमदभागवत गीता) · पुराण · सुत्र · आगम (तन्त्र, यन्त्र) · वेदान्त
विचा:त: अवतार · आत्मा · ब्राह्मन · कोसस · धर्म · कर्म · मोक्ष · माया · इष्ट-देव · मुर्ति · पूनर्जन्म · हलिम · तत्त्व · त्रिमुर्ति · कतुर्थगुरु
दर्शन: मान्यता · प्राचीन हिन्दू धर्म · साँख्य · न्याय · वैशेषिक · योग · मीमांसा · वेदान्त · तन्त्र · भक्ति
परम्परा: ज्योतिष · आयुर्वेद · आरति · भजन · दर्शन · दिक्षा · मन्त्र · पुजा · सत्संग · स्तोत्र · ईहिपा: · यज्ञ
गुरु: शंकर · रामानुज · माधवाचार्य · रामकृष्ण · शारदा देवी · विवेकानन्द · नारायण गुरु · औरोबिन्दो · रमन महार्षि · शिवानन्द · चिन्‍मयानन्‍द · शुब्रमुनियस्वामी · स्वामीनारायण · प्रभुपद · लोकेनाथ
विभाजन: वैष्णभ · शैव · शक्ति · स्मृति · हिन्दू पूनरुत्थान ज्याझ्व
द्य: द्यतेगु नां · हिन्दू बाखं
युग: सत्य युग · त्रेता युग · द्वापर युग · कलि युग
वर्ण: ब्राह्मन · क्षत्रीय · वैश्य · शुद्र · दलित · वर्णाश्रम धर्म