Jump to content

बृहज्जाबाल (उपनिषद्)

विकिपिडिया नं
नेपाललिपि परिक्षण: 𑐠𑑂𑐰 𑐥𑑁𑐫𑐵 𑐣𑐾𑐥𑐵𑐮𑐮𑐶𑐥𑐶𑐂 𑐥𑐬𑐶𑐎𑑂𑐲𑐞 𑐥𑑁 𑐧𑑂𑐰𑐣𑐾𑐟: बृहज्जाबाल (उपनिषद्) 𑐟𑐶𑐫𑐵𑐡𑐶𑐳𑑄𑑋
Cow dung being burnt to create Bhasma.
A Shaiva

बृहज्जाबाल (उपनिषद्) छगू काव्य ख। थ्व काव्य मुक्तिक उपनिषद्‌या अन्तर्गतय् उपनिषद् दुने ला []। थ्व श्रुति प्रचलनया छगू महत्त्वपूर्ण धार्मिक ग्रन्थ ख।

श्लोक

[सम्पादन]

थुकिया श्लोक थ्व कथं दु-[]

उपनिषद् बृहज्जाबालोपनिषत्



यज्ज्ञानाग्निः स्वातिरिक्तभ्रमं भस्म करोति तत् ।
बृहज्जाबालनिगमशिरोवेद्यमहं महः ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं
पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिः । व्यशेम देवहितं
यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ आपो वा इदमसत्सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे
समभवत् ।
तस्यान्तर्मनसि कामः समवर्तत इदं सृजेयमिति ।
तस्माद्यत्पुरुषो
मनसाभिगच्च्हति । तद्वाचा वदति । तत्कर्मणा करोति ।
तदेषाभ्यनूक्ता ।
कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् ।
सतो बन्धुमसति निरविन्दन् । हृदि प्रतीष्या कवयो
मनीषेति ।
उपैनं तदुपनमति । यत्कामो भवति । य एवं वेद । स
तपोऽतप्यत ।
स तपस्तप्त्वा । स एतं भुसुण्डः कालाग्निरुद्रमगमदागत्य भो
विभूतेर्माहात्म्यं ब्रूहीति तथेति प्रत्यवोचद्भुसुण्डं
वक्ष्यमाणं किमिति
विभूतिरुद्राक्षयोर्माहात्म्यं बभाणेति आदावेव पैप्पलादेन
सहोक्तमिति
तत्फलश्रुतिरिति तस्योर्ध्वं किं वदामेति ।
बृहज्जाबालाभिधां मुक्तिश्रुतिं
ममोपदेशं कुरुष्वेति । ॐ तदेति । सद्योजातात्पृथिवी ।
तस्याः स्यान्निवृत्तिः ।
तस्याः कपिलवर्णानन्दा । तद्गोमयेन विभूतिर्जाता ।
वामदेवादुदकम् ।
तस्मात्प्रतिष्ठा । तस्याः कृष्णवर्णाभद्रा । तद्गोमयेन
भसितं जातम् ।
अघोराद्वह्निः । तस्माद्विद्या । तस्या रक्तवर्णा सुरभिः ।
तद्गोमयेन भस्म जातम् ।
तत्पुरुषाद्वायुः । तस्माच्छान्तिः । तस्याः श्वेतवर्णा
सुशीला । तस्या
गोमयेन क्षारं जातम् । ईशानादाकाशम् ।
तस्माच्छान्त्यतीता ।
तस्याश्चित्रवर्णा सुमनाः । तद्गोमयेन रक्षा जाता ।
विभूतिर्भसितं भस्म
क्षारं रक्षेति भस्मनो भवन्ति पञ्च नामानि ।
पञ्चभिर्नामभिर्भृशमैश्वर्यकारणाद्भूतिः । भस्म
सर्वाघभक्षणात् ।
भासनाद्भसितम् । क्षारणदापदां क्षारम् ।
भूतप्रेतपिशाचब्रह्मराक्षसापस्मारभवभीतिभ्योऽभिरक्षण
अद्रक्षेति ॥
प्रथमं ब्राह्मणम् ॥ १॥

अथ भुसुण्डः कालाग्निरुद्रमग्नीषोमात्मकं भस्मस्नानविधिं
पप्रच्च्ह ।
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकं भस्म सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो
बहिश्च ॥
अग्नीषोमात्मकं विश्वमित्यग्निराचक्षते ।
रौद्री घोरा या तैजसी तनूः । सोमः शक्त्यमृतमयः
शक्तिकरी तनूः ।

अमृतं यत्प्रतिष्ठा सा तेजोविद्याकला स्वयम् ।
स्थूलसूक्ष्मेषु भूतेषु स एव रसतेजसी ॥ १॥

द्विविधा तेजसो वृत्तिः सूर्यात्मा चानलात्मिका ।
तथैव रसशक्तिश्च सोमात्मा चानलात्मिका ॥ २॥

वैद्युदादिमयं तेजो मधुरादिमयो रसः ।
तेजोरसविभेदैस्तु वृत्तमेतच्चराचरम् ॥ ३॥

अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते ।
अत एव हविः क्लृप्तमग्नीषोमात्मकं जगत् ॥ ४॥

ऊर्ध्वशक्तिमयं सोम अधोशक्तिमयोऽनलः ।
ताभ्यां संपुटितस्तस्माच्च्हश्वद्विश्वमिदं जगत् ॥ ५॥

अग्नेरूर्ध्वं भवत्येषा यावत्सौम्यं परामृतम् ।
यावदग्न्यात्मकं सौम्यममृतं विसृत्यधः ॥ ६॥

अत एव हि कालाग्निरधस्ताच्च्हक्तिरूर्ध्वगा ।
यावदादहनश्चोर्ध्वमधस्तात्पावनं भवेत् ॥ ७॥

आधारशक्त्यावधृतः कालाग्निरयमूर्ध्वगः ।
तथैव निम्नगः सोमः शिवशक्तिपदास्पदः ॥ ८॥

शिवश्चोर्ध्वमयः शक्तिरूर्ध्वशक्तिमयः शिवः ।
तदित्थं शिवशक्तिभ्यां नाव्याप्तमिह किंचन ॥ ९॥

असकृच्चाग्निना दग्धं जगत्तद्भस्मसात्कृतम् ।
अग्नेर्वीर्यमिदं प्राहुस्तद्वीर्यं भस्म यत्ततः ॥ १०॥

यश्चेत्थं भस्मसद्भावं ज्ञात्वाभिस्नाति भस्मना ।
अग्निरित्यादिभिर्मन्त्रैर्दग्धपापः स उच्यते ॥ ११॥

अग्नेर्वीर्यं च तद्भस्म सोमेनाप्लावितं पुनः ।
अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥ १२॥

योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः ।
शाक्तेनामृतवर्षेण ह्यधिकारान्निवर्तते ॥ १३॥

अतो मृत्युञ्जयायेत्थममृतप्लावनं सताम् ।
शिवशक्त्यमृतस्पर्शे लब्ध एव कुतो मृतिः ॥ १४॥

यो वेद गहनं गुह्यं पावनं च तथोदितम् ।
अग्नीषोमपुटं कृत्वा न स भूयोऽभिजायते ॥ १५॥

शिवाग्निना तनुं दग्ध्वा शक्तिसोमामृतेन यः ।
प्लावयेद्योगमार्गेण सोऽमृतत्वाय कल्पते सोऽमृत्वाय कल्पत
इति ॥ १६॥

द्वितीयं ब्राह्मणम् ॥ २॥

अथ भुसुण्डः कालाग्निरुद्रं विभूतियोगमनुब्रूहीति होवाच
विकटाङ्गामुन्मत्तां महाखलां मलिनामशिवादिचिह्नान्वितां
पुनर्धेनुं कृशाङ्गां वत्सहीनामशान्तामदुघ्धदोहिनीं
निरिन्द्रियां जग्धतृणां केशचेलास्थिभक्षिणीं सन्धिनीं
नवप्रसूतां रोगार्तां गां विहाय
प्रशस्तगोमयमाहरेद्गोमयं स्वस्थं ग्राह्यं शुभे स्थाने वा
पतितमपरित्यज्यात ऊर्ध्वं मर्दयेद्गव्येन गोमयग्रहणं कपिला
वा धवला वा अलाभे तदन्या गौः स्याद्दोषवर्जिता
कपिलागोर्भस्मोक्तं लब्धं गोभस्म नो चेदन्यगोक्षारं यत्र
क्वापि स्थितं च यत्तन्न हि धार्यं संस्कारसहितं
धार्यम् ।
तत्रैते श्लोका भवन्ति ।

विद्याशक्तिः समस्तानां शक्तिरित्यभिधीयते ।
गुणत्रयाश्रया विद्या सा विद्या च तदाश्रया ॥ १॥

गुणत्रयमिदं धेनुर्विद्याभूद्गोमयं शुभम् ।
मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परम् ॥

वत्सस्तु स्मृतयश्चास्य तत्संभूतं तु गोमयम् ।
आगाव इति मन्त्रेण धेनुं तत्राभिमन्त्रयेत् ॥ ३॥

गावो भग गावो इति प्राशयेत्तर्पणं जलम् ।
उपोष्य च चतुर्दश्यां शुक्ले कृष्णेऽथवा व्रती ॥ ४॥

परेद्युः प्रातरुत्थाय शुचिर्भूत्वा समाहितः ।
कृतस्नानो धौतवस्त्रः पयोर्धं च सृजेच्च गाम् ॥ ५॥

उत्थाप्य गां प्रयत्नेन गायत्र्या मूत्रमाहरेत् ।
सौवर्णे राजते ताम्रे धारयेन्मृण्मये घटे ॥ ६॥

पौष्करेऽथ पलाशे वा पात्रे गोशृङ्ग एव वा ।
आदधीत हि गोमूत्रं गन्धद्वारेति गोमयम् ॥ ७॥

अभूमिपातं गृह्णीयात्पात्रे पूर्वोदिते गृही ।
गोमयं शोधयेद्विद्वान्श्रीर्मे भजतुमन्त्रतः ॥ ८॥

अलक्ष्मीर्म इति मन्त्रेण गोमयं धान्यवर्जितम् ।
संत्वासिंचामि मन्त्रेण गोमये क्षिपेत् ॥ ९॥

पञ्चानां त्विति मन्त्रेण पिण्डानां च चतुर्दश ।
कुर्यात्संशोध्य किरणैः सौरकैराहरेत्ततः ॥ १०॥

निदध्यादथ पूर्वोक्तपात्रे गोमयपिण्डकान् ।
स्वगृह्योक्तविधानेन प्रतिष्ठाप्याग्निमीजयेत् ॥ ११॥

पिण्डांश्च निक्षिपेत्तत्र आद्यन्तं प्रणवेन तु ।
षडक्षरस्य सूक्तस्य व्याकृतस्य तथाक्षरैः ॥ १२॥

स्वाहान्ते जुहुयात्तत्र वर्णदेवाय पिण्डकान् ।
आघारावाज्यभागौ च प्रक्षिपेद्व्याहृतीः सुधीः ॥ १३॥

ततो निधनपतये त्रयोविंशज्जुहोति च ।
होतव्याः पञ्च ब्रह्माणि नमो हिरण्यबाहवे ॥ १४॥

इति सर्वाहुतिर्हुत्वा चतुर्थ्यन्तैश्च मन्त्रकैः ।
ऋतंसत्यं कद्रुद्राय यस्य वकङ्कतीति च ॥ १५॥

एतैश्च जुहुयाद्विद्वाननाज्ञातत्रयं तथा ।
व्याहृतीरथ हुत्वा च ततः स्विष्टकृतं हुनेत् ॥ १६॥

होमशेषं तु निर्वर्त्य पूर्णपात्रोदकं तथा ।
पूर्णमसीति यजुषा जलेनान्येन बृंहयेत् ॥ १७॥

ब्राह्मणेष्वमृतमिति तज्जलं शिरसि क्षिपेत् ।
प्राच्यामिति दिशां लिङ्गैर्दिक्षु तोयं विनिक्षिपेत् ॥ १८॥

ब्रह्मणे दक्षिणां दत्त्वा शान्त्यै पुलकमाहरेत् ।
आहरिष्यामि देवानां सर्वेषां कर्मगुप्तये ॥ १९॥

जातवेदसमेनं त्वां पुलकैश्च्हादयाम्यहम् ।
मन्त्रेणानेन तं वह्निं पुलकैश्च्हादयेत्ततः ॥ २०॥

त्रिदिनं ज्वलनस्थित्यै च्हादनं पुलकैः स्मृतम् ।
ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुञ्जीत वाग्यतः ॥ २१॥

भस्माधिक्यमभीप्सुस्तु अधिकं गोमयं हरेत् ।
दिनत्रयेण यदि वा एकस्मिन्दिवसेऽथवा ॥ २२॥

तृतीये वा चतुर्थे वा प्रातः स्नात्वा सिताम्बरः ।
शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥ २३॥

शुक्लदन्तो भस्मदिग्धो मन्त्रेणानेन मन्त्रवित् ।
ॐ तद्ब्रह्मेति चोच्चार्य पौलकं भस्म संत्यजेत् ॥ २४॥

तत्र चावाहनमुखानुपचारांस्तु षोडश ।
कुर्याद्व्याहृतिभिस्त्वेवं ततोऽग्निमुपसंहरेत् ॥ २५॥

अग्निर्भस्मेति मन्त्रेण गृह्णीयाद्भस्म चोत्तरम् ।
अग्निरित्यादिमन्त्रेण प्रमृज्य च ततः परम् ॥ २६॥

संयोज्य गन्धसलिलैः कपिलामूत्रकेण वा ।
चन्द्रकुङ्कुमकाश्मीरमुशिरं चन्दनं तथा ॥ २७॥

अगरुत्रितयं चैव चूर्णयित्वा तु सूक्ष्मतः ।
क्षिपेद्भस्मनि तच्चूर्णमोमिति ब्रह्ममन्त्रतः ॥ २८॥

प्रणवेनाहरेद्विद्वान्बृहतो वटकानथ ।
अणोरणीयनिति हि मन्त्रेण च विचक्षणः ॥ २९॥

इत्थं भस्म सुसम्पाद्य शुष्कमादय मन्त्रवित् ।
प्रणवेन विमृज्याथ सप्तप्रणवमन्त्रितम् ॥ ३०॥

ईशानेति शिरोदेशे मुखं तत्पुरुषेण तु ।
उरुदेशमघोरेण गुह्यं वामेन मन्त्रयेत् ॥ ३१॥

सद्योजातेन वै पादान्सर्वाङ्गं प्रणवेन तु ।
तत उद्धूल्य सर्वाङ्गमापादतलमस्तकम् ॥ ३२॥

आचम्य वसनं धौतं ततश्चैतत्प्रधारयेत् ।
पुनराचम्य कर्म स्वं कर्तुमर्हसि सत्तम ॥ ३३॥

अथ चतुर्विधं भस्म कल्पम् ।
प्रथममनुकल्पम् । द्वितीयमुपकल्पम् ।
उपोपकल्पं तृतीयम् । अकल्पं चतुर्थम् ।
अग्निहोत्रं समुद्भूतं विरजानलजमनुकल्पम् ।
वने शुष्कं शकृत्संगृह्य कल्पोक्तविधिना
कल्पितमुपकल्पं स्यात् ।
अरण्ये शुष्कगोमयं चूर्णीकृत्य गोमूत्रैः पिण्डीकृत्य
यथाकल्पं संस्कृतमुपोपकल्पम् । शिवालयस्थमकल्पं
शतकल्पं च ।
इत्थं चतुर्विधं भस्म पापं निकृन्तयेन्मोक्षं ददातीति
भगवान्कालाग्निरुद्रः ॥ ३४॥
इति तृतीयं ब्राह्मणम् ॥ ३॥

अथ भुसुण्डः कालाग्निरुद्रं भस्मस्नानविधिं ब्रूहीति
होवाचाथ प्रणवेन विमृज्याथ
सप्तप्रणवेनाभिमन्त्रितमागमेन तु तेनैव दिग्बन्धनं
कारयेत्पुनरपि तेनास्त्रमन्त्रेणाङ्गानि
मूर्धादीन्युद्धूलयेन्मलस्नानमिदमीशानाद्यैः
पञ्चभिर्मन्त्रैस्तनुं क्रमाद्धूलयेत् ।
ईशानेति शिरोदेशं मुखं तत्पुरुषेण तु । ऊरुदेशमघोरेण
गुह्यकं वामदेवतः ।
सद्योजातेन वै पादो सर्वाङ्गं प्रणवेन तु । आपादतलमस्तकं
सर्वाङ्गं तत उद्धूलाचम्य
वसनं धौतं श्वेतं प्रधारयेद्विधिस्नानमिदम् ॥
तत्र श्लोका भवन्ति ।
भस्ममुष्टिं समादाय संहितामन्त्रमन्त्रिताम् ।
मस्तकात्पादपर्यन्तं मलस्नानं पुरोदितम् ॥ १॥

तन्मन्त्रेणैव कर्तव्यं विधिस्नानं समाचरेत् ।
ईशाने पञ्चधा भस्म विकिरेन्मूर्ध्नि यत्रतः ॥ २॥

मुखे चतुर्थवक्त्रेण अघोरेणाष्टधा हृदि ।
वामेन गुह्यदेशे तु त्रिदशस्थानभेदतः ॥ ३॥

अष्टावन्तेन साध्येन पादावद्धूल्य यत्रतः ।
सर्वाङ्गोद्धूलनं कार्यं राजन्यस्य यथाविधि ॥ ४॥

मुखं विना च तत्सर्वमुद्धूल्य क्रमयोगतः ।
सन्ध्याद्वये निशीथे च तथा पूर्वावसानयोः ॥ ५॥

सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम् ।
स्त्रियं नपुंसकं गृध्रं बिडालं बकमूषिकम् ॥ ६॥

स्पृष्ट्वा तथाविधानन्यान्भस्मस्नानं समाचरेत् ।
देवाग्निगुरुवृद्धानां समीपेऽन्त्यजदर्शने ॥ ७॥

अशुद्धभूतले मार्गे कुर्यानोद्धूलनं व्रती ।
शङ्खतोयेन मूलेन भस्मना मिश्रणं भवेत् ॥ ८॥

योजितं चन्दनेनैव वारिणा भस्मसंयुतम् ।
चन्दनेन समालिम्पेज्ज्ञानदं चूर्णमेव तत् ॥ ९॥

मध्याह्नात्प्राग्जलैर्युक्तं तोयं तदनुवर्जयेत् ॥
अथ भुसुण्डो भगवन्तं कालाग्निरुद्रं त्रिपुण्ड्रविधिं

पप्रच्च्ह ॥
तत्रैते श्लोका भवन्ति ।
त्रिपुण्ड्रं कारयेत्पश्चाद्ब्रह्मविष्णुशिवात्मकम् ।
मध्याङ्गुलिभिरादाय तिसृभिर्मूलमन्त्रतः ॥ १०॥

अनामामध्यमाङ्गुष्ठैरथवा स्यात्त्रिपुण्ड्रकम् ।
उद्धूलयेन्मुखं विप्रः क्षत्रियस्तच्च्हिरोदिनम् ॥ ११॥

द्वात्रिंशस्थानके चार्धं षोडशस्थानकेऽपि वा ।
अष्टस्थाने तथा चैव पञ्चस्थानेऽपि योजयेत् ॥ १२॥

उत्तमाङ्गे ललाटे च कर्णयोर्नेत्रयोस्तथा ।
नासावक्रे गले चैवमंसद्वयमतः परम् ॥ १३॥

कूर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः ।
नाभौ गुह्यद्वये चैवमूर्वोः स्फिग्बिम्बजानुनी ॥ १४॥

जङ्घाद्वये च पादौ च द्वात्रिंशत्स्थानमुत्तमम् ।
अष्टमूर्त्यष्टविद्येशान्दिक्पालान्वसुभिः सह ॥ १५॥

धरो ध्रुवश्च सोमश्च कृपश्चैवानिलोऽनलः ।
प्रत्यूपश्च प्रभासश्च वसवोऽष्टावितीरिताः ॥ १६॥

एतेषां नाममन्त्रेण त्रिपुण्ड्रान्धारयेद्बुधः ।
विदध्यात्षोडशस्थाने त्रिपुण्ड्रं तु समाहितः ॥ १७॥

शीर्षके च ललाटे च कर्णे कण्ठेंऽसकद्वये ।
कूर्परे मणिबन्धे च हृदये नाभिपार्श्वयोः ॥ १८॥

पृष्ठे चैकं प्रतिस्थानं जपेत्तत्राधिदेवताः ।
शिवं शक्तिं च सादाख्यमीशं विद्याख्यमेव च ॥ १९॥

वामादिनवशक्तीश्च एताः षोडश देवताः ।
नासत्यो दस्रकश्चैव अश्विनौ द्वौ समीरितौ ॥ २०॥

अथवा मूर्ध्न्यलीके च कर्णयोः श्वसने तथा ।
बाहुद्वये च हृदये नाभ्यामूर्वोर्युगे तथा ॥ २१॥

जानुद्वये च पदयोः पृष्ठभागे च षोडश ।
शिवश्चेन्द्रश्च रुद्रार्कौ विघ्नेशो विष्णुरेव च ॥ २२॥

श्रीश्चैव हृदयेशश्च तथा नाभौ प्रजापतिः ।
नागश्च नागकन्याश्च उभे च ऋषिकन्यके ॥ २३॥

पादयोश्च समुद्राश्च तीर्थाः पृष्ठेऽपि च स्थिताः ।
एवं वा षोडशस्थानमष्टस्थानम्थोच्यते ॥ २४॥

गुरुस्थानं ललाटं च कर्णद्वयमनन्तरम् ।
असयुग्मं च हृदयं नाभिरित्यष्टमं भवेत् ॥ २५॥

ब्रह्मा च ऋषयः सप्त देवताश्च प्रकीर्तिताः ।
अथवा मस्तकं बाहू हृदयं नाभिरेव च ॥ २६॥

पञ्चस्थानान्यमून्याहुर्भस्मतत्त्वविदो जनाः ।
यथासम्भवतः कुर्याद्देशकलाद्यपेक्षया ॥ २७॥

उद्धूलनेऽप्यशक्तश्चेत्त्रिपुण्ड्रादीनि कारयेत् ।
ललाटे हृदये नाभौ गले च मणिबन्धयोः ॥ २८॥

बाहुमध्ये बाहुमूले पृष्ठे चैव च शीर्षके ॥
ललाटे ब्रह्मणे नमः । हृदये हव्यवाहनाय नमः ।
नाभौ स्कन्दाय नमः । गले विष्णवे नमः ।
मध्ये प्रभञ्जनाय नमः । मणिबन्धे वसुभ्यो नमः ।
पृष्ठे हरये नमः । कुकुदि शम्भवे नमः ।
शिरसि परमात्मने नमः । इत्यादिस्थानेषु त्रिपुण्ड्रं
धारयेत् ॥
त्रिनेत्रं त्रिगुणाधारं त्रयाणां जनकं प्रभुम् ।
स्मरन्नमः शिवायेति ललाटे तत्त्रिपुण्ड्रकम् ॥ २९॥

कूर्पराधः पितृभ्यां तु ईशानाभ्यां तथोपरि ।
ईशाभ्यां नम इत्युक्त्वा पार्श्वयोश्च त्रिपुण्ड्रकम् ॥ ३०॥

स्वच्छाभ्यां नम इत्युक्त्वा धारयेत्तत्प्रकोष्ठयोः ।
भीमायेति तथा पृष्ठे शिवायेति च पार्श्वयोः ॥ ३१॥

नीलकण्ठाय शिरसि क्षिपेत्सर्वात्मने नमः ।
पापं नाशयते कृत्स्नमपि जन्मान्तरार्जितम् ॥ ३२॥

कण्ठोपरि कृतं पापं नष्टं स्यात्तत्र धारणात् ।
कर्णे तु धारणात्कर्णरोगादिकृतपातकम् ॥ ३३॥

बाह्वोबाहुकृतं पापं वक्षःसु मनसा कृतम् ।
नाभ्यां शिश्नकृतं पापं पृष्ठे गुदकृतं तथा ॥ ३४॥

पार्श्वयोर्धारणात्पापं परस्त्र्यालिङ्गनादिकम् ।
तद्भस्मधारणं कुर्यात्सर्वत्रैव त्रिपुण्ड्रकम् ॥ ३५॥

ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम् ।
गुणलोकत्रयाणां च धारणं तेन वै श्रुतम् ॥ ३६॥

इति चतुर्थं ब्राह्मणम् ॥ ४॥
मानस्तोकेन मन्त्रेण मन्त्रितं भस्म धारयेत् ।

ऊर्ध्वपुण्ड्रं भवेत्सामं मध्यपुण्ड्रं त्रियायुषम् ॥ १॥
त्रियायुषाणि कुरुते ललाटे च भुजद्वये ।

नाभौ शिरसि हृत्पार्श्वे ब्राह्मणाः क्षत्रियास्तथा ॥ २॥
त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम् ।
इदं मुख्यं गृहस्थानां विरजानलजं भवेत् ॥ ३॥

विरजानलजं चैव धार्यं प्रोक्तं महर्षिभिः ।
औपासनसमुत्पन्नं गृहस्थानां विशेषतः ॥ ४॥

समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा ।
शूद्राणां श्रोत्रियागारपचनाग्निसमुद्भवम् ॥ ५॥

अन्येषामपि सर्वेषां धार्यं चैवानलोद्भवम् ।
यतीनां ज्ञानदं प्रोक्तं वनस्थानां विरक्तिदम् ॥ ६॥

अतिवर्णाश्रमाणां तु श्मशानाग्निसमुद्भवम् ।
सर्वेषां देवालयस्थं भस्म शिवाग्निजं शिवयोगिनाम् ।

शिवालयस्थं तल्लिङ्गलिप्तं वा मन्त्रसंस्कारदग्धं वा ॥
तत्रैते श्लोका भवन्ति ।

तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना धृतम् ॥ ७॥

त्यक्तवर्णाश्रमाचारो लुप्तसर्वक्रियोऽपि यः ।
सकृत्तिर्यक्त्रिपुण्ड्राङ्कधारणात्सोऽपि पूज्यते ॥ ८॥

ये भस्मधारणं त्यक्त्वा कर्म कुर्वन्ति मानवाः ।
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥ ९॥

महापातकयुक्तानां पूर्वजन्मार्जितागसाम् ।
त्रिपुण्ड्रोद्धूलनद्वेषो जायते सुदृढं बुधाः ॥ १०॥

येषां कोपो भवेद्ब्रह्मं।cल्ललाटे भस्मदर्शनात् ।
तेषामुत्पत्तिसाङ्कर्यमनुमेयं विपश्चिता ॥ ११॥

येषां नास्ति मुने श्रद्धा श्रौते भस्मनि सर्वदा ।
गर्भाधानादिसंस्कारस्तेषां नास्तीति निश्चयः ॥ १२॥

ये भस्मधारिणं दृष्ट्वा नराः कुर्वन्ति ताडनम् ।
तेषां चण्डालतो जन्म ब्रह्मन्नूह्यं विपश्चिता ॥ १३॥

येषां क्रोधो भवेद्भस्मधारणे तत्प्रमाणके ।
ते महापातकैर्युक्ता इति शास्त्रस्य निश्चयः ॥ १४॥

त्रिपुण्ड्ऱकं ये विनिन्दन्ति निन्दन्ति शिवमेव ते ।
धारयन्ति च ये भक्त्या धारयन्ति शिवं च ते ॥ १५॥

धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् ।
धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ॥ १६॥

रुद्राग्नेर्यत्परं वीर्यं तद्भस्म परिकीर्तितम् ।
तस्मात्सर्वेषु कालेषु वीर्यवान्भस्मसंयुतः ॥ १७॥

भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात् ।
भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ॥ १८॥

भस्मसन्दिग्धसर्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः ।
भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः ॥ १९॥

इति पञ्चमं ब्राह्मणम् ॥ ५॥
अथ भुसुण्डः कालाग्निरुद्रं नामपञ्चकस्य माहात्म्यं

ब्रूहीति होवाच । अथ वसिष्ठवंशजस्य शतभार्यासमेतस्य
धनञ्जयस्य ब्राह्मणस्य ज्येष्ठभार्यापुत्रः करुण इति नाम

तस्य शुचिस्मिता भार्या । असौ करुणो भ्रातृवैरमसहमानो
भवानीतटस्थं नृसिंहमगमत् । तत्र
देवसमीपेऽन्येनोपायनार्थं
समर्पितं जम्बीरफलं गृहीत्वाजिघ्रत्तदा तत्रस्था
अशपन्पाप
मक्षिको भव वर्षाणां शतमिति । सोऽपि शापमादाय मक्षिकः
सन्स्वचेष्टितं तस्यै निवेद्य मां रक्षेति स्वभार्यामवदत्तदा
मक्षिकोऽभवत्तमेवं ज्ञात्वा ज्ञातयस्तैलमध्ये ह्यमारयन्त्सा
मृतं पतिमादायारुन्धतीमगमद्भो शुचिस्मिते
शोकेनालमरुन्धत्याहामुं
जीवयाम्यद्य विभूतिमादायेति एषाग्निहोत्रजं भस्म ॥
मृत्युञ्जयेन मन्त्रेण मृतजन्तौ तदाक्षिपत् ।
मन्दवायुस्तदा जज्ञे व्यजनेन शुचिस्मिते ॥ १॥

उदतिष्ठत्तदा जन्तुर्भस्मनोऽस्य प्रभावतः ।
ततो वर्षशते पूर्णे ज्ञातिरेको ह्यमारयत् ॥ २॥

भस्मैव जीवयामास काश्यां पञ्च तदाभवन् ।
देवानपि तथाभूतान्मामप्येतादृशं पुरा ॥ ३॥

तस्मात्तु भस्मनां जन्तुं जीवयामि तदानघे ।
इत्येवमुक्त्वा भगवान्दधीचिः समजायत ॥ ४॥

स्वरूपं च ततो गत्वा स्वमाश्रमपदं ययाविति ॥
इदानीमस्य भस्मनः सर्वाघभक्षणसामर्थ्यं

विधत्त इत्याह । श्रीगौतमविवाहकाले तामहल्यां
दृष्ट्वा सर्वे देवाः कामातुरा अभवन् तदा

नष्टज्ञाना दुर्वाससं गत्वा पप्रच्च्हुस्तद्दोषं
शमयिष्याअमीत्युवाच ततः शतरुद्रेण मन्त्रेण

मन्त्रितं भस्म वै पुरा मयापि दत्तं ब्रह्महत्यादि शान्तम् ।
इत्येवमुक्त्वा दुर्वासा दत्तवान्भस्म चोत्तमम् ।
जाता मद्वचनात्सर्वे यूयं तेऽधिकतेजसः ॥ ५॥

शतरुद्रेण मन्त्रेण भस्मोद्धूलितविग्रहाः ।
निर्धूतरजसः सर्वे तत्क्षणाच्च वयं मुने ॥ ६॥

आश्चर्यमेतज्जानीमो भस्मसामर्थ्यमीदृशम् ।
अस्य भस्मनः शक्तिमन्यां शृणु ।
एतदेव हरिशङ्करयोर्ज्ञानप्रदम् ।
ब्रह्महत्यादि पापनाशकम् ।
महाविभूतिदमिति शिववक्षसि स्थितं नखेनादाय
प्रणवेनाभिमन्त्र्य गायत्र्या पञ्चाक्षरेणाभिमन्त्र्य
हरिर्मस्तकगात्रेषु समर्पयेत् । तथा हृदि ध्यायस्वेति
हरिमुक्त्वा हरः स्वहृदि ध्यात्वा दृष्टो दृष्ट इति
शिवमाह ।
ततो भस्म भक्षयेति हरिमाह हरस्ततः ।
भक्षयिष्ये शिवं भस्म स्नात्वाहं भस्मना पुरा ॥ ७॥

पृष्टेश्वरं भक्तिगम्यं भस्माभक्षयदच्युतः ।
तत्राश्चर्यमतीवासीत्प्रतिबिम्बसमद्युतिः ॥ ८॥

वासुदेवः शुद्धमुक्ताफलवर्णोऽभवत्क्षणात् ।
तदाप्रभृति शुक्लाभो वासुदेवः प्रसन्नवान् ॥ ९॥

न शक्यं भस्मनो ज्ञानं प्रभावं ते कुतो विभो ।
नमस्तेऽस्तु नमस्तेऽस्तु त्वामहं शरणं गतः ॥ १०॥

त्वत्पादयुगले शम्भो भक्तिरस्तु सदा मम ।
भस्मधारणसम्पन्नो मम भक्तो भविष्यति ॥ ११॥

अत एवैषा भूतिर्भूतिकरीत्युक्ता । अस्य पुरस्ताद्वसव
आसन्रुद्रा दक्षिणत आदित्याः पश्चाद्विश्वेदेवा

उत्तरतो ब्रह्मविष्णुमहेश्वरा याभ्यां सूर्याचन्द्रमसौ
पार्श्वयोस्तदेतदृचाभ्युक्तम् ।
ऋचो अक्षरे परमे व्योमन् यस्मिन्देवा अधिविश्वे निषेदुः ।
यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ।
य एतद्बृहज्जाबालं सार्वकामिकं मोक्षद्वारमृङ्मयं
यजुर्मयं साममयं ब्रह्ममयममृतमयं भवति ।
य एतद्बृहज्जाबालं बालो वा वेद स महान्भवति ।
स गुरुः सर्वेषां मन्त्राणामुपदेष्टा भवति ।
मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ शिखायां
वा बध्नीत । सप्तद्वीपवती भूभिर्दक्षिणार्थं नावकल्पते ।
तस्माच्च्ह्रद्धया यां काञ्चिद्गां दद्यात्सा दक्षिणा भवति
॥ १२॥
इति षष्ठं ब्राह्मणम् ॥ ६॥

अथ जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच
भगवान् त्रिपुण्ड्रविधिं नो ब्रूहीति स होवाच
सद्योजातादिपञ्चब्रह्ममन्त्रैः परिगृह्याग्निरिति
भस्मेत्यभिमन्त्र्य मानस्तोक इति समुद्धृत्य
त्रियायुषमिति जलेन संमृज्य त्र्यम्बकमिति
शिरोललाटवक्षःस्कन्धेषु धृत्वा पूतो भवति
मोक्षी भवति । शतरुद्रेण यत्फलमवप्नोति तत्फलमश्नुते
स एष भस्मज्योतिरिति वै याज्ञवल्क्यः ॥ १॥
जनको ह वैदेहः स होवाच याज्ञवल्क्यं भस्मधारणात्किं
फलमश्नुत इति स होवाच तद्भस्मधारणादेव
मुक्तिर्भवति तद्भस्मधारणादेव शिवसायुज्यमवाप्नोति
न स पुनरावर्तते न स पुनरावर्तते स एष भस्मज्योतिरिति
वै याज्ञवल्क्यः ॥ २॥

जनको ह वैदेहः स होवाच याज्ञवल्क्यं भस्मधारणात्किं
फलमश्नुते न वेति तत्र परमहंसानामसंवर्तक
आरुणिश्वेतकेतुदुर्वासऋभुनिदाघजडभरतदत्तात्रेय
रैवतकभुसुण्डप्रभृतयो विभूतिधारणादेवमुक्ताः स्युः
स एष भस्मज्योतिरिति वै याज्ञवल्क्यः ॥ ३॥
जनको ह वैदेहः स होवाच याज्ञवल्क्य भस्मस्नानेन
किं जायत इति यस्य कस्यचिच्च्हरीरे यावन्तो रोमकूपास्तावन्ति
लिङ्गानि भूत्वा तिष्ठन्ति ब्राह्मणो वा क्षत्रियो वा वैश्यो वा
शूद्रो वा तद्भस्मधारणादेतच्च्हब्दस्य रूपं
यस्यां तस्यां ह्येवावतिष्ठते ॥ ४॥

जनको ह वैदेहः स होवाच पैप्पलादेन सह
प्रजापतिलोअकं जगाम तं गत्वोवाच भो प्रजापते
त्रिपुण्ड्रस्य माहात्म्यं ब्रूहीति तं प्रजापतिरब्रवीद्
यथैवेश्वरस्य माहात्म्यं तथैव त्रिपुण्ड्रस्येति ॥ ५॥

अथ पैप्पलादो वैकुण्ठं जगाम तं गत्वोवाच
भो विष्णो त्रिपुण्ड्रस्य माहात्म्यं ब्रूहीति यथैवेश्वरस्य
माहात्म्यं तथैव त्रिपुण्ड्रकस्येति विष्णुराह ॥ ६॥

अथ पैप्पलादः कालाग्निरुद्रं परिसमेत्योवाचाधीहि
भगवन् त्रिपुण्ड्रस्य विधिमिति त्रिपुण्ड्रस्य विधिर्मया
वक्तुं न शक्य इति सत्यमिति होवाचाथ भस्मच्च्हन्नः
संसारान्मुच्यते भस्मशय्याशयानस्तच्च्हब्दगोचरः
शिवसायुज्यमवाप्नोति न स पुनरावर्तते रुद्राध्यायी
सन्नमृतत्वं च गच्च्हति स एष भस्मज्योतिर्विभूति
धारणाद्ब्रह्मैकत्वं च गच्च्हति विभूतिधारणादेव
सर्वेषु तीर्थेषु स्नातो भवति विभूतिधारणाद्वाराणस्यां
स्नानेन यत्फलमवाप्नोति तत्फलमश्नुते स एष
भस्मज्योतिर्यस्य कस्यचिच्च्हरीरे त्रिपुण्ड्रस्य लक्ष्म वर्तते
प्रथमा प्रजापतिर्द्वितीया विष्णुस्तृतीया सदाशिव इति
स एष भस्मज्योतिरिति स एष भस्मज्योतिरिति ॥ ७॥
अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः
पप्रच्छाधीहि भगवन्रुद्राक्षधारणविधिं
स होवाच रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति
लोके ख्यायन्ते सदाशिवः संहारकाले संहारं
कृत्वा संहाराक्षं मुकुलीकरोति तन्नयनाज्जाता
रुद्राक्षा इति होवाच तस्माद्रुद्राक्षत्वमिति तद्रुद्राक्षे
वाग्विषये कृते दशगोप्रदानेन यत्फलमवाप्नोति
तत्फलमश्नुते स एष भस्मज्योती रुद्राक्ष इति
तद्रुद्राक्षं करेण स्पृष्ट्वा धारणमात्रेण
द्विसहस्रगोप्रदानफलं भवति । तद्रुद्राक्षे
एकादशरुद्रत्वं च गच्च्हति । तद्रुद्राक्षे शिरसि
धार्यमाणे कोटिगोप्रदानफलं भवति । एतेषां
स्थानानां कर्णयोः फलं वक्तुं न शक्यमिति होवाच ।
मूर्ध्नि चत्वारिंशच्च्हिखायामेकं त्रयं वा
श्रोत्रयोर्द्वादश कर्णे द्वात्रिंशद्बाह्वोः षोडश
षोडश द्वादश द्वादश मणिबन्धयोः षट्
षडङ्गुष्ठयोस्ततः सन्ध्यां सकुशोऽहरहरुपा
सीताग्निर्ज्योतिरित्यादिभिरग्नौ जुहुयात् ॥ ८॥
इति सप्तमं ब्राह्मणम् ॥ ७॥

अथ बृहज्जाबालस्य फलं नो ब्रूहि भगवन्निति
स होवाच य एतद्बृहज्जाबालं नित्यमधीते
सोऽग्निपूतो भवति स वायुपूतो भवति स आदित्यपूतो भवति
स सोमपूतो भवति स ब्रह्मपूतो भवति स विष्णुपूतो भवति
स रुद्रपूतो भवति स सर्वपूतो भवति स सर्वपूतो भवति ॥ १॥
य एतद्बृहज्जाबालं नित्यमधीते सोऽग्निं स्तम्भयति
स वायुं स्तम्भयति स आदित्यं स्तम्भयति स सोमं स्तम्भयति
स उदकं स्तम्भयति स सर्वान्देवान्स्तम्भयति स
सर्वान्ग्रहान्स्तम्भयति स विषं स्तम्भयति स विषं
स्तम्भयति ॥ २॥

य एतद्बृहज्जाबालं नित्यमधीते स मृत्युं तरति स
पाप्मानं
तरति स ब्रह्महत्यां तरति स भ्रूणहत्यां तरति स
वीरहत्यां
तरति स सर्वहत्यां तरति स संसारं तरति स सर्वं तरति
स सर्वं तरति ॥ ३॥

य एतद्बृहज्जाबालं नित्यमधीते स भूर्लोकं जयति स
भुवर्लोकं जयति
स सुवर्लोकं जयति स महर्लोकं जयति स तपोलोकं जयति
स जनोलोकं जयति स सत्यलोकं जयति स सर्वांल्लोकाञ्जयति
॥ ४॥

य एतद्बृहज्जाबालं नित्यमधीते स ऋचोऽधीते स
यजूंष्यधीते
स सामान्यधीते सोऽथर्वणमधीते सोऽङ्गिरसमधीते स शाखा
अधीते स कल्पानधीते स नारशंसीरधीते स पुरणान्यधीते
स ब्रह्मप्रणवमधीते स ब्रह्मप्रणवमधीते ॥ ५॥
अनुपनीतशतमेकमेकेनोपनीतेन तत्सममुपनीतशतमेकमेकेन
गृहस्थेन तत्समं गृहस्थशतमेकमेकेन वानप्रस्थेन
तत्समं वानप्रस्थशतमेकेमेकेन यतिना तत्समं यतीनां तु
शतं पूर्णमेकमेकेन रुद्रजापकेन तत्समं
रुद्रजापकशतमेकेमेकेन
अथर्वशिरःशिखाध्यापकेन तत्सममथर्वशिरःशाखा
ध्यापकशतमेकमेकेन बृहज्जाबालोपनिषदध्यापकेन
तत्सम।म् तद्वा एतत्परं धाम बृहज्जबालोपनीषज्जपशीलस्य
यत्र न सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति
यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न मृत्युः
प्रविशति
यत्र न दुःखानि प्रविशन्ति सदानन्दं परमानन्दं शान्तं
शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परं पदं
यत्र गत्वा न निवर्तन्ते योगिनस्तदेतदृचाभ्युक्तम् । तद्विष्णोः
परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षु##--?--

    1. तम् ॥

तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं
पदम् ॥
ॐ सत्यमित्युपनिषत् ॥ ६॥
इत्यष्टमं ब्राह्मणम् ॥ ८॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिदधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

इत्यथर्ववेदीय बृहज्जाबालोपनिषत्समाप्ता ॥

अधिकाध्ययनाय

[सम्पादन]

वर्गः:उपनिषदः


लिधंसा

[सम्पादन]

स्वयादिसँ

[सम्पादन]


उपनिषद्तेगु धलः ॐ
ईश (उपनिषद्)केन (उपनिषद्)कठ (उपनिषद्)प्रश्न (उपनिषद्)मुण्डक (उपनिषद्)माण्डुक्य (उपनिषद्)तैत्तिरीय (उपनिषद्)ऐतरेय (उपनिषद्)छान्दोग्य (उपनिषद्)बृहदारण्यक (उपनिषद्)ब्रह्म (उपनिषद्)कैवल्य (उपनिषद्)जाबाल (उपनिषद्)श्वेताश्वतर (उपनिषद्)हंस (उपनिषद्)आरुणेय (उपनिषद्)गर्भ (उपनिषद्)नारायण (उपनिषद्)परमहंस (उपनिषद्)अमृत-बिन्दु (उपनिषद्)अमृत-नाद (उपनिषद्)अथर्व-शिर (उपनिषद्)अथर्व-शिख (उपनिषद्)मैत्रायणि (उपनिषद्)कौषीताकि (उपनिषद्)बृहज्जाबाल (उपनिषद्)नृसिंहतापनी (उपनिषद्)कालाग्निरुद्र (उपनिषद्)मैत्रेयि (उपनिषद्)सुबाल (उपनिषद्)क्षुरिक (उपनिषद्)मन्त्रिक (उपनिषद्)सर्व-सार (उपनिषद्)निरालम्ब (उपनिषद्)शुक-रहस्य (उपनिषद्)वज्र-सूचिक (उपनिषद्)तेजो-बिन्दु (उपनिषद्)नाद-बिन्दु (उपनिषद्)ध्यानबिन्दु (उपनिषद्)ब्रह्मविद्या (उपनिषद्)योगतत्त्व (उपनिषद्)आत्मबोध (उपनिषद्)परिव्रात् (उपनिषद्)त्रि-षिखि (उपनिषद्)सीतोपनिषद् (उपनिषद्)योगचूडामणि (उपनिषद्)निर्वाण (उपनिषद्)मण्डलब्राह्मण (उपनिषद्)दक्षिणामूर्ति (उपनिषद्)शरभ (उपनिषद्)स्कन्द (उपनिषद्)महानारायण (उपनिषद्)अद्वयतारक (उपनिषद्)रामरहस्य (उपनिषद्)रामतापणि (उपनिषद्)वासुदेव (उपनिषद्)मुद्गल (उपनिषद्)शाण्डिल्य (उपनिषद्)पैंगल (उपनिषद्)भिक्षु (उपनिषद्)महत्-शारीरक (उपनिषद्)योगशिखा (उपनिषद्)तुरीयातीत (उपनिषद्)संन्यास (उपनिषद्)परमहंस-परिव्राजक (उपनिषद्)अक्षमालिक (उपनिषद्)अव्यक्त (उपनिषद्)एकाक्षर (उपनिषद्)अन्नपूर्ण (उपनिषद्)सूर्य (उपनिषद्)अक्षि (उपनिषद्)अध्यात्मा (उपनिषद्)कुण्डिकोपनिषद् (उपनिषद्)सावित्रि (उपनिषद्)आत्मा (उपनिषद्)पाशुपत (उपनिषद्)परब्रह्म (उपनिषद्)अवधूत (उपनिषद्)त्रिपुरातपनोपनिषद् (उपनिषद्)देवि (उपनिषद्)त्रिपुर (उपनिषद्)कर (उपनिषद्)भावन (उपनिषद्)रुद्र-हृदय (उपनिषद्)योग-कुण्डलिनि (उपनिषद्)भस्मोपनिषद् (उपनिषद्)रुद्राक्ष (उपनिषद्)गणपति (उपनिषद्)दर्शन (उपनिषद्)तारसार (उपनिषद्)महावाक्य (उपनिषद्)पञ्च-ब्रह्म (उपनिषद्)प्राणाग्नि-होत्र (उपनिषद्)गोपाल-तपणि (उपनिषद्)कृष्ण (उपनिषद्)याज्ञवल्क्य (उपनिषद्)वराह (उपनिषद्)शात्यायनि (उपनिषद्)हयग्रीव (उपनिषद्)दत्तात्रेय (उपनिषद्)गारुड (उपनिषद्)कलि-सण्टारण (उपनिषद्)जाबाल(सामवेद) (उपनिषद्)सौभाग्य (उपनिषद्)सरस्वती-रहस्य (उपनिषद्)बह्वृच (उपनिषद्)मुक्तिक (उपनिषद्)
हिन्दू धर्म
श्रुति: वेद · उपनिषद · श्रुत
स्मृति: इतिहास (रामायण, महाभारत, श्रीमदभागवत गीता) · पुराण · सुत्र · आगम (तन्त्र, यन्त्र) · वेदान्त
विचा:त: अवतार · आत्मा · ब्राह्मन · कोसस · धर्म · कर्म · मोक्ष · माया · इष्ट-देव · मुर्ति · पूनर्जन्म · हलिम · तत्त्व · त्रिमुर्ति · कतुर्थगुरु
दर्शन: मान्यता · प्राचीन हिन्दू धर्म · साँख्य · न्याय · वैशेषिक · योग · मीमांसा · वेदान्त · तन्त्र · भक्ति
परम्परा: ज्योतिष · आयुर्वेद · आरति · भजन · दर्शन · दिक्षा · मन्त्र · पुजा · सत्संग · स्तोत्र · ईहिपा: · यज्ञ
गुरु: शंकर · रामानुज · माधवाचार्य · रामकृष्ण · शारदा देवी · विवेकानन्द · नारायण गुरु · औरोबिन्दो · रमन महार्षि · शिवानन्द · चिन्‍मयानन्‍द · शुब्रमुनियस्वामी · स्वामीनारायण · प्रभुपद · लोकेनाथ
विभाजन: वैष्णभ · शैव · शक्ति · स्मृति · हिन्दू पूनरुत्थान ज्याझ्व
द्य: द्यतेगु नां · हिन्दू बाखं
युग: सत्य युग · त्रेता युग · द्वापर युग · कलि युग
वर्ण: ब्राह्मन · क्षत्रीय · वैश्य · शुद्र · दलित · वर्णाश्रम धर्म