Jump to content

जाबाल(सामवेद) (उपनिषद्)

विकिपिडिया नं
नेपाललिपि परिक्षण: 𑐠𑑂𑐰 𑐥𑑁𑐫𑐵 𑐣𑐾𑐥𑐵𑐮𑐮𑐶𑐥𑐶𑐂 𑐥𑐬𑐶𑐎𑑂𑐲𑐞 𑐥𑑁 𑐧𑑂𑐰𑐣𑐾𑐟: जाबाल(सामवेद) (उपनिषद्) 𑐟𑐶𑐫𑐵𑐡𑐶𑐳𑑄𑑋
The supposed portrait of Jnana guru Siva Yogaswami

जाबाल(सामवेद) (उपनिषद्) छगू काव्य ख। थ्व काव्य मुक्तिक उपनिषद्‌या अन्तर्गतय् उपनिषद् दुने ला []। थ्व श्रुति प्रचलनया छगू महत्त्वपूर्ण धार्मिक ग्रन्थ ख।

श्लोक

[सम्पादन]

थुकिया श्लोक थ्व कथं दु-[] उपनिषद्

॥ जाबालोपनिषत् ॥

जाबालोपनिषत्ख्यातं संन्यासज्ञानगोचरम् ।
वस्तुतस्त्रैपदं ब्रह्म स्वमात्रमवशिष्यते ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं
देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
तस्माद्यत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव ।
इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ॥
अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म
व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति
तस्मादविमुक्तमेव निषेवेत अविमुक्तं न
विमुञ्चेदेवमेवैतद्याज्ञवल्क्यः ॥ १ ॥

अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त
आत्मा तं कथमहं विजानीयामिति ॥

स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य
एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति ॥

सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति ।
वरणायां नाश्यां च मध्ये प्रतिष्ठित इति ॥

का वै वरणा का च नाशीति ।
सर्वानिन्द्रियकृतान्दोषान्वारयतीति तेन वरणा भवति ॥

सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नाशी भवतीति ॥
कतमं चास्य स्थानं भवतीति ।
भ्रुवोर्घ्राणस्य च यः
सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति ।
एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति ।
सोऽविमुक्त उपास्य इति ।
सोऽविमुक्तं ज्ञानमाचष्टे ।
यो वैतदेवं वेदेति ॥ २ ॥

अथ हैनं ब्रह्मचारिण ऊचुः किं जप्येनामृतत्वं ब्रूहीति ॥
स होवाच याज्ञवल्क्यः ।
शतरुद्रियेणेत्येतान्येव ह वा अमृतस्य नामानि ॥
एतैर्ह वा अमृतो भवतीति एवमेवैतद्याज्ञवल्क्यः ॥ ३ ॥

अथ हैनं जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच
भगवन्संन्यासं ब्रूहीति ।
स होवाच याज्ञवल्क्यः ।
ब्रह्मचर्यं परिसमाप्य गृही भवेत् ।
गृही भूत्वा वनी भवेत् ।
वनी भूत्वा प्रव्रजेत् ।
यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा ॥

अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको
वोत्सन्नग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् ।
तद्धैके प्राजापत्यामेवेष्टि, न् कुर्वन्ति ।
तदु तथा न कुर्यादाग्नेयीमेव कुर्यात् ॥

अग्निर्ह वै प्राणः प्राणमेव तथा करोति ॥
त्रैधातवीयामेव कुर्यात् ।
एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति ॥

अयं ते योनिरृत्विजो यतो जातः प्राणादरोचथाः ।
तं प्राणं जानन्नग्न आरोहाथा नो वर्धय रयिम् ।
इत्यनेन मन्त्रेणाग्निमाजिघ्रेत् ॥

एष ह वा अग्नेर्योनिर्यः प्राणः प्राणं गच्छ
स्वाहेत्येवमेवैतदाह ॥
ग्रामादग्निमाहृत्य पूर्वदग्निमाघ्रापयेत् ॥

यद्यग्निं न विन्देदप्सु जुहुयात् ।
आपो वै सर्वा देवताः
सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वोधृत्य
प्राश्नीयात्साज्यं हविरनामयं मोक्षमन्त्रः त्रय्यैवं
वदेत् ।
एतद्ब्रह्मैतदुपासितव्यम् ।
एवमेवैतद्भगवन्निति वै याज्ञवल्क्यः ॥ ४ ॥

अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं पृच्छामि त्वा
याज्ञवल्क्य अयज्ञोपवीति कथं ब्राह्मण इति ।
स होवाच याज्ञवल्क्यः ।
इदमेवास्य तद्यज्ञोपवीतं य आत्मापः
प्राश्याचम्यायं विधिः परिव्राजकानाम् ।
वीराध्वाने वा
अनाशके वा अपां प्रवेशे वा अग्निप्रवेशे वा महाप्रस्थाने वा ।
अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही
भैक्षणो ब्रह्मभूयाय भवतीति ।
यद्यातुरः स्यान्मनसा वाचा संन्यसेत् ।
एष पन्था ब्रह्मणा हानुवित्तस्तेनैति
संन्यासी ब्रह्मविदित्येवमेवैष भगवन्याज्ञवल्क्य ॥ ५ ॥

तत्र
परमहंसानामसंवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघजड
भरतदत्तात्रेयरैवतक-
प्रभृतयोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता
उन्मत्तवदाचरन्तस्त्रिदण्डं कमण्डलुं शिक्यं पात्रं
जलपवित्रं शिखां यज्ञोपवीतं च इत्येतत्सर्वं
भूःस्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् ॥

यथा जातरूपधरो निर्ग्रन्थो निष्परिग्रहस्तत्तद्ब्रह्ममार्गे
सम्यक्संपन्नः शुद्धमानसः प्राणसन्धारणार्थं
यथोक्तकाले विमुक्तो भैक्षमाचरन्नुदरपात्रेण
लाभालाभयोः समो भूत्वा
शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्
निहोत्रगृहनदीपुलिनगिरिकुहरकन्दरकोटरनिर्झरस्थण्डिलेषु
तेष्वनिकेतवास्य प्रयत्नो निर्ममः
शुक्लध्यानपरायणोऽध्यात्मनिष्ठोऽशुभकर्म-
निर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो
नाम परमहंसो नामेति ॥ ६ ॥

ॐ पूर्णमद इति शातिः ॥

इत्यथर्ववेदीया जाबालोपनिषत्समाप्ता ॥


लिधंसा

[सम्पादन]

स्वयादिसँ

[सम्पादन]


उपनिषद्तेगु धलः ॐ
ईश (उपनिषद्)केन (उपनिषद्)कठ (उपनिषद्)प्रश्न (उपनिषद्)मुण्डक (उपनिषद्)माण्डुक्य (उपनिषद्)तैत्तिरीय (उपनिषद्)ऐतरेय (उपनिषद्)छान्दोग्य (उपनिषद्)बृहदारण्यक (उपनिषद्)ब्रह्म (उपनिषद्)कैवल्य (उपनिषद्)जाबाल (उपनिषद्)श्वेताश्वतर (उपनिषद्)हंस (उपनिषद्)आरुणेय (उपनिषद्)गर्भ (उपनिषद्)नारायण (उपनिषद्)परमहंस (उपनिषद्)अमृत-बिन्दु (उपनिषद्)अमृत-नाद (उपनिषद्)अथर्व-शिर (उपनिषद्)अथर्व-शिख (उपनिषद्)मैत्रायणि (उपनिषद्)कौषीताकि (उपनिषद्)बृहज्जाबाल (उपनिषद्)नृसिंहतापनी (उपनिषद्)कालाग्निरुद्र (उपनिषद्)मैत्रेयि (उपनिषद्)सुबाल (उपनिषद्)क्षुरिक (उपनिषद्)मन्त्रिक (उपनिषद्)सर्व-सार (उपनिषद्)निरालम्ब (उपनिषद्)शुक-रहस्य (उपनिषद्)वज्र-सूचिक (उपनिषद्)तेजो-बिन्दु (उपनिषद्)नाद-बिन्दु (उपनिषद्)ध्यानबिन्दु (उपनिषद्)ब्रह्मविद्या (उपनिषद्)योगतत्त्व (उपनिषद्)आत्मबोध (उपनिषद्)परिव्रात् (उपनिषद्)त्रि-षिखि (उपनिषद्)सीतोपनिषद् (उपनिषद्)योगचूडामणि (उपनिषद्)निर्वाण (उपनिषद्)मण्डलब्राह्मण (उपनिषद्)दक्षिणामूर्ति (उपनिषद्)शरभ (उपनिषद्)स्कन्द (उपनिषद्)महानारायण (उपनिषद्)अद्वयतारक (उपनिषद्)रामरहस्य (उपनिषद्)रामतापणि (उपनिषद्)वासुदेव (उपनिषद्)मुद्गल (उपनिषद्)शाण्डिल्य (उपनिषद्)पैंगल (उपनिषद्)भिक्षु (उपनिषद्)महत्-शारीरक (उपनिषद्)योगशिखा (उपनिषद्)तुरीयातीत (उपनिषद्)संन्यास (उपनिषद्)परमहंस-परिव्राजक (उपनिषद्)अक्षमालिक (उपनिषद्)अव्यक्त (उपनिषद्)एकाक्षर (उपनिषद्)अन्नपूर्ण (उपनिषद्)सूर्य (उपनिषद्)अक्षि (उपनिषद्)अध्यात्मा (उपनिषद्)कुण्डिकोपनिषद् (उपनिषद्)सावित्रि (उपनिषद्)आत्मा (उपनिषद्)पाशुपत (उपनिषद्)परब्रह्म (उपनिषद्)अवधूत (उपनिषद्)त्रिपुरातपनोपनिषद् (उपनिषद्)देवि (उपनिषद्)त्रिपुर (उपनिषद्)कर (उपनिषद्)भावन (उपनिषद्)रुद्र-हृदय (उपनिषद्)योग-कुण्डलिनि (उपनिषद्)भस्मोपनिषद् (उपनिषद्)रुद्राक्ष (उपनिषद्)गणपति (उपनिषद्)दर्शन (उपनिषद्)तारसार (उपनिषद्)महावाक्य (उपनिषद्)पञ्च-ब्रह्म (उपनिषद्)प्राणाग्नि-होत्र (उपनिषद्)गोपाल-तपणि (उपनिषद्)कृष्ण (उपनिषद्)याज्ञवल्क्य (उपनिषद्)वराह (उपनिषद्)शात्यायनि (उपनिषद्)हयग्रीव (उपनिषद्)दत्तात्रेय (उपनिषद्)गारुड (उपनिषद्)कलि-सण्टारण (उपनिषद्)जाबाल(सामवेद) (उपनिषद्)सौभाग्य (उपनिषद्)सरस्वती-रहस्य (उपनिषद्)बह्वृच (उपनिषद्)मुक्तिक (उपनिषद्)
हिन्दू धर्म
श्रुति: वेद · उपनिषद · श्रुत
स्मृति: इतिहास (रामायण, महाभारत, श्रीमदभागवत गीता) · पुराण · सुत्र · आगम (तन्त्र, यन्त्र) · वेदान्त
विचा:त: अवतार · आत्मा · ब्राह्मन · कोसस · धर्म · कर्म · मोक्ष · माया · इष्ट-देव · मुर्ति · पूनर्जन्म · हलिम · तत्त्व · त्रिमुर्ति · कतुर्थगुरु
दर्शन: मान्यता · प्राचीन हिन्दू धर्म · साँख्य · न्याय · वैशेषिक · योग · मीमांसा · वेदान्त · तन्त्र · भक्ति
परम्परा: ज्योतिष · आयुर्वेद · आरति · भजन · दर्शन · दिक्षा · मन्त्र · पुजा · सत्संग · स्तोत्र · ईहिपा: · यज्ञ
गुरु: शंकर · रामानुज · माधवाचार्य · रामकृष्ण · शारदा देवी · विवेकानन्द · नारायण गुरु · औरोबिन्दो · रमन महार्षि · शिवानन्द · चिन्‍मयानन्‍द · शुब्रमुनियस्वामी · स्वामीनारायण · प्रभुपद · लोकेनाथ
विभाजन: वैष्णभ · शैव · शक्ति · स्मृति · हिन्दू पूनरुत्थान ज्याझ्व
द्य: द्यतेगु नां · हिन्दू बाखं
युग: सत्य युग · त्रेता युग · द्वापर युग · कलि युग
वर्ण: ब्राह्मन · क्षत्रीय · वैश्य · शुद्र · दलित · वर्णाश्रम धर्म