गर्भ (उपनिषद्)
गर्भ (उपनिषद्) छगू काव्य ख। थ्व काव्य मुक्तिक उपनिषद्या अन्तर्गतय् उपनिषद् दुने ला [१]। थ्व श्रुति प्रचलनया छगू महत्त्वपूर्ण धार्मिक ग्रन्थ ख।
श्लोक
[सम्पादन]थुकिया श्लोक थ्व कथं दु-[२]
उपनिषद्
- ॥ गर्भोपनिषत् ॥
- यद्गर्भोपनिषद्वेद्यं गर्भस्य स्वात्मबोधकम् ।
- शरीरापह्नवात्सिद्धं स्वमात्रं कलये हरिम् ॥
- ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥
- ॐ शान्तिः शान्तिः शान्तिः ||
- ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥
- ॐ पञ्चात्मकं पञ्चसु वर्तमानं षडाश्रयं षड्गुणयोगयुक्तम् । तत्सप्तधातुत्रिमलं द्वियोनिं चतुर्विधाहारमयं शरीरं भवति । पञ्चात्मकमिति कस्मात् पृथिव्यापस्तेजो-वायुराकाशमिति । अस्मिन्पञ्चात्मके शरीरे का पृथिवी का आपः किं तेजः को वायुः किमाकाशम् । इत्यस्मिन्पञ्चात्मके शरीरे तत्र यत्कठिनं सा पृथिवी यद्द्रवं ता आपो यदुष्णं तत्तेजो यत्सञ्चरति स वायुः यत्सुषिरं तदाकाशमित्युच्यते । तत्र पृथिवी धारणे आपः पिण्डीकरणे तेजः प्रकाशने वायुर्गमने आकाशमवकाशप्रदाने । पृथक् श्रोत्रे शब्दोपलब्धौ त्वक् स्पर्शे चक्षुषी रूपे जिह्वा रसने नासिकाऽऽघ्राणे वदति । षडाश्रयमिति कस्मात् । मधुराम्ललवणतिक्तकटुकषायरसान्विन्दते । षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाश्चेति । इष्टानिष्टशब्दसंज्ञाः प्रणिधानाद्दशविधा भवन्ति ॥ १ ॥
(अर्थ: “म्ह पंचात्मक दु—पञ्चसु (पञ्च महाभूतेषु) वर्तमान, षडाश्रय तथा षड्गुण-योगयुक्त जुइ। थ्व सप्तधातु, त्रिमल, द्वियोनि, तथा चतुर्विध-आहारमय जुइ।
थुकियात पञ्चात्मक छाय् धाइ? छाय् धाःसा थुकिलि पृथिवी, आपः, तेजस्, वायु, आकाश थ्व न्यागु (पञ्च) तत्त्व दै।
थ्व पञ्चात्मक म्हय्
गुगु छाःगु दु (कठिन), व पृथिवी ख,
गुगु द्रव (ति) दु, व लः ख,
गुगु उष्ण (ताप) दु, व तेजस् ख,
गुगु सञ्चरति (गतिशील) दु, व वायु (फय्) ख,
गुगु सुषिर (रिक्त/स्थान) दु, व आकाश ख।
थुकिलि—
पृथिवी धारण याइगुलि,
आपः पिण्डीकरण (संजोजन)य्,
तेजस् प्रकाशनय्,
वायु गमनय्,
आकाश अवकाश-प्रदानय् सहायक जुइ।
न्हाय्पं शब्द-उपलब्धिइ, छेंगु स्पर्शय्, मिखा रूपय्, म्ये रसय्, न्ह्याय् गन्ध-ज्ञानय् ज्या याइ।
थुकियात षडाश्रय छाय् धाइ? छाय् धाःसा थ्व खुगु रसया अनुभव याइ— मधुर, आम्ल, लवण, तिक्त, कटु, कषाय।
नापं— षड्ज, ऋषभ, गान्धार, मध्यम, पञ्चम, धैवत, निषाद—थ्व सःतेत आधार सः धाइ।
इष्ट व अनिष्ट शब्द-संज्ञा तथा इमिगु भेद प्रणिधानं दशविध (दस प्रकार) जुइ।)
- शुक्लो रक्तः कृष्णो धूम्रः पीतः कपिलः पाण्डुर इति । सप्तधातुकमिति कस्मात् यदा देवदत्तस्य द्रव्यादिविषया जायन्ते । परस्परं सौम्यगुणत्वात् षड्विधो रसो रसाच्छोणितं शोणितान्मांसं मांसान्मेदो मेदसः स्नायवः स्नाव्नोऽस्थीन्यस्थिभ्यो मज्जा मज्ज्ञः शुक्रं शुक्रशोणितसंयोगादावर्तते गर्भो हृदि व्यवस्थां नयति । हृदयेऽन्तराग्निः अग्निस्थाने पित्तं पित्तस्थाने वायुः वायुस्थाने हृदयं प्राजापत्यात्क्रमात् ॥ २ ॥
- ऋतुकाले सम्प्रयोगादेकरात्रोषितं कलिलं भवति सप्तरात्रोषितं बुद्बुदं भवति अर्धमासाभ्यन्तरेण पिण्डो भवति । मासाभ्यन्तरेण कठिनो भवति । मासद्वयेन शिरः सम्पद्यते मासत्रयेण पादप्रवेशो भवति । अथ चतुर्थे मासे गुल्फजठरकटिप्रदेशा भवन्ति । पञ्चमे मासे पृष्ठवंशो भवति । षष्ठे मासे मुखनासिकाक्षिश्रोत्राणि भवन्ति । सप्तमे मासे जीवेन संयुक्तो भवति । अष्टमे मासे सर्वलक्षणसम्पूर्णो भवति । पितू रेतोऽतिरिक्तात् पुरुषो भवति । मातुः रेतोऽतिरिक्तात्स्त्रियो भवन्त्युभयोर्बीजतुल्यत्वान्नपुंसको भवति । व्याकुलितम-नसोऽन्धाः खञ्जाः कुब्जा वामना भवन्ति । अन्योन्यवायुपरिपीडितशुक्रद्वैध्याद्द्विधा तनुः स्यात्ततो युग्माः प्रजायन्ते । प्रञ्चात्मकः समर्थः पञ्चात्मिका चेजसा बुद्धिर्गन्धरसादि-ज्ञानाक्षराक्षरमोङ्कारं चिन्तयतीति तदेतदेकाक्षरं ज्ञात्वाऽष्टौ प्रकृतयः षोडश विकाराः शरीरे तस्यैव देहिनः अथ मात्राऽशितपीतनाडीसूत्रगतेन प्राण आप्यायते । अथ नवमे मासि सर्वलक्षणज्ञानकरणसम्पूर्णो भवति । पूर्वजातीः स्मरति । शुभाशुभं च कर्म विन्दति ॥ ३ ॥
- पूर्वयोनिसहस्राणि दृष्ट्वा चैव ततो मया । आहारा विविधा भुक्ताः पीताः नानाविधाः स्तनाः । जातश्चैव मृतश्चैव जन्म चैव पुनः पुनः । यन्मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् । एकाकी तेन दह्येऽहं गतास्ते फलभोगिनः । अहो दुःखोदधौ मग्नः न पश्यामि प्रतिक्रियाम् । यदि योन्याः प्रमुञ्चेऽहं तत्प्रपद्ये महेश्वरम् । अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् । यदि योन्याः प्रमुञ्चेऽहं तत्प्रपद्ये नारायणं । अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् । यदि योन्याः प्रमुञ्चेऽहं ध्याये ब्रह्म सनातनम् । अथ योनिद्वारं सम्प्राप्तो यन्त्रेण पीड्यमानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुना संस्पृश्यते तदा न स्मरति जन्ममरणानि न च कर्म शुभाशुभं विन्दति ॥ ४ ॥
- शरीरमिति कस्मात् । अग्नयो ह्यत्र श्रियन्ते ज्ञानाग्निर्दर्शनाग्निः कोष्ठाग्निरिति । तत्र कोष्ठाग्निर्नामाशितपीतलेह्यचोष्यं पचतीति । दर्शनाग्नी रूपादीनां दर्शनं करोति । ज्ञानाग्निः शुभाशुभं च कर्म विन्दति । तत्र त्रीणि स्थानानि भवन्ति । मुखे आवहनीय उदरे गार्हपत्यॊ हृदि दक्षिणाग्निः आत्मा यजमानो मनो ब्रह्मा लोभादयः पशवो धृतिर्दीक्षा सन्तोषश्च बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मेन्द्रियाणि हवींषि शिरः कपालं केशा दर्भा मुखमन्तर्वेदिः चतुष्कपालं शिरः षोडश पार्श्वदन्तोष्ठपटलानि सप्तोत्तरं मर्मशतं साशीतिकं सन्धिशतं सनवकं स्नायुशतं सप्त शिराशतानि पञ्च मज्जाशतानि अस्थीनि च ह वै त्रीणि शतानि षष्टिश्चार्धचतस्रो रोमाणि कोट्यो हृदयं पलान्यष्टौ द्वादश पलानि जिह्वा पित्तप्रस्थं कफस्याढकं शुक्लकुडवं मेदः प्रस्थौ द्वावनियतं मूत्रपुरीषमाहारपरिमाणात् । पैप्पलादं मोक्षशास्त्रं पैप्पलादं मोक्षशास्त्रं परिसमाप्तमिति ॥
- ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥
- ॐ शान्तिः शान्तिः शान्तिः ||
- ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥
- ॥ इति गर्भोपनिषत्समाप्ता ॥
लिधंसा
[सम्पादन]स्वयादिसँ
[सम्पादन]
| |||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|