Jump to content

परमहंस (उपनिषद्)

विकिपिडिया नं
नेपाललिपि परिक्षण: 𑐠𑑂𑐰 𑐥𑑁𑐫𑐵 𑐣𑐾𑐥𑐵𑐮𑐮𑐶𑐥𑐶𑐂 𑐥𑐬𑐶𑐎𑑂𑐲𑐞 𑐥𑑁 𑐧𑑂𑐰𑐣𑐾𑐟: परमहंस (उपनिषद्) 𑐟𑐶𑐫𑐵𑐡𑐶𑐳𑑄𑑋
A Sannyasi

परमहंस (उपनिषद्) छगू काव्य ख। थ्व काव्य मुक्तिक उपनिषद्‌या अन्तर्गतय् उपनिषद् दुने ला [१]। थ्व श्रुति प्रचलनया छगू महत्त्वपूर्ण धार्मिक ग्रन्थ ख।

श्लोक

[सम्पादन]

थुकिया श्लोक थ्व कथं दु-[२]

उपनिषद्

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥


अथ योगिनां परमहंसानां कोऽयं मार्नस्तेषं का स्थितिरिति नारदो भगवन्तमुपगत्योवाच । तं भगवानाह । योऽयं परमहंसमार्गो लोके दुर्लभतरो न तु बाहुल्यो यद्येको भवति स एव नित्यपूतस्थः स एव वेदपुरुष इति विदुषो मन्यन्ते महापुरुषो यच्चित्तं तत्सर्वदा मय्येवावतिष्ठते तस्मादहं च तस्मिन्नेवावस्थीयते । असौ स्वपुत्रमित्रकलत्रबन्ध्वादीञ्छिखायज्ञॊपवीतं स्वाध्यायं च सर्वकर्माणि संन्यस्यायं ब्रह्माण्डं च हित्वा कौपीनं दण्डमाच्छादनं च स्वशरीरोपभोगार्थाय च लोकस्योपकारार्थाय च परिग्रहेत् । तच्च न मुख्योऽस्ति कोऽयं मुख्य इति चेदयं मुख्यः ॥ १ ॥


न दण्डं न शिखां न यज्ञॊपवीतं न चाच्छादनं चरति परमहंसः । न शितं न चोष्णं न सुखं न दुःखं न मानावमाने च षडूर्मिवर्जं निन्दागर्वमत्सरदम्मदर्पेचछाद्वेषसुखदुःखकामकोधलोभमोहहर्षासूयाहङ्कारादींश्च हित्वा स्ववपुः कुणपमिव दृश्यते यतस्तद्वपुरपध्वस्तं संशयविपरीतमिथ्याज्ञानानां यो हेतुस्तेन नित्यनिवृत्तस्तन्नित्यबोधस्तत्स्वयमेवावस्थितिस्तं शान्तमचलमद्वयानन्दविद्घन एवास्मि । तदेव मम परम्धाम तदेव शिखा च तदेवोपवीत च । परमात्मात्मनोरेकत्वज्ञानेन तयोर्भेद एव विभग्नः सा सन्ध्या ॥ २ ॥


सर्वान्कामान्परित्यज्य अद्वैते परमस्थितिः । ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते । काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः । तितिक्षाज्ञानवैराग्यशमदिगुणवर्जितः । स याति नरकान्धोरान्महारौरवसंज्ञकान् । इदमन्तरं ङ्य़ात्वा स परमहंसः ॥ ३ ॥


आशाम्बरो न नमस्करॊ न स्वाहाकारो न स्वाधाकारॊ न निन्दा न स्तुतिर्यादृचछिको भवेद्भिक्षुः । नावाहनं न विसर्जनं न मन्त्रं न ध्यानं नोपासनं च । न लक्ष्यं नाकक्ष्यं न पृथग्नापृथगहं न न त्वं न सर्वं चानिकेतस्थिरमतिरेव स भिक्षुः सौवर्णादीनां नैव परिग्रहेन्न लोकं नावलोकं न चाऽऽबाधकं क इति चेद्बाधकोऽस्त्येव । यस्माद्भिक्षुर्हिरण्यं रसेन दृष्टं चेत्स ब्रह्महा भवेत् । यस्माद्भिक्षुर्हिरण्यं रसेन स्पृष्टं चेत्स पौल्कसॊ भवेद्यस्माद्भिक्षुर्हिरण्यं रसेन ग्राह्यं चेत्स आत्महा भवेत् । तस्माद्भिक्षुर्हिरण्यं रसेन न दृष्टं च न स्पृष्टं च न ग्राह्यं च । सर्वे कामा मनोगता व्यावर्तन्ते । दुःखे नोद्विग्नः सुखे न स्पृहा त्यागो रागे सर्वत्र शुभाशुभयोरनभिस्नेहो न द्वेष्टि न मोदं च । सर्वेषामिन्द्रियाणां गतिरुपरमते य आत्मन्येवावस्थीयते यत्पूर्णानन्दैकबोधस्तद्ब्रह्मैवाहमस्मीति कृतकृत्यो भवति कृतकृत्यो भवति ॥ ४ ॥


ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥


॥ इति श्रीपरमहंसोपनिषत्समाप्ता ॥

अधिकाध्ययनाय

[सम्पादन]

वर्गः:उपनिषदः


लिधंसा

[सम्पादन]

स्वयादिसँ

[सम्पादन]


उपनिषद्तेगु धलः ॐ
ईश (उपनिषद्) । केन (उपनिषद्) । कठ (उपनिषद्) । प्रश्न (उपनिषद्) । मुण्डक (उपनिषद्) । माण्डुक्य (उपनिषद्) । तैत्तिरीय (उपनिषद्) । ऐतरेय (उपनिषद्) । छान्दोग्य (उपनिषद्) । बृहदारण्यक (उपनिषद्) । ब्रह्म (उपनिषद्) । कैवल्य (उपनिषद्) । जाबाल (उपनिषद्) । श्वेताश्वतर (उपनिषद्) । हंस (उपनिषद्) । आरुणेय (उपनिषद्) । गर्भ (उपनिषद्) । नारायण (उपनिषद्) । परमहंस (उपनिषद्) । अमृत-बिन्दु (उपनिषद्) । अमृत-नाद (उपनिषद्) । अथर्व-शिर (उपनिषद्) । अथर्व-शिख (उपनिषद्) । मैत्रायणि (उपनिषद्) । कौषीताकि (उपनिषद्) । बृहज्जाबाल (उपनिषद्) । नृसिंहतापनी (उपनिषद्) । कालाग्निरुद्र (उपनिषद्) । मैत्रेयि (उपनिषद्) । सुबाल (उपनिषद्) । क्षुरिक (उपनिषद्) । मन्त्रिक (उपनिषद्) । सर्व-सार (उपनिषद्) । निरालम्ब (उपनिषद्) । शुक-रहस्य (उपनिषद्) । वज्र-सूचिक (उपनिषद्) । तेजो-बिन्दु (उपनिषद्) । नाद-बिन्दु (उपनिषद्) । ध्यानबिन्दु (उपनिषद्) । ब्रह्मविद्या (उपनिषद्) । योगतत्त्व (उपनिषद्) । आत्मबोध (उपनिषद्) । परिव्रात् (उपनिषद्) । त्रि-षिखि (उपनिषद्) । सीतोपनिषद् (उपनिषद्) । योगचूडामणि (उपनिषद्) । निर्वाण (उपनिषद्) । मण्डलब्राह्मण (उपनिषद्) । दक्षिणामूर्ति (उपनिषद्) । शरभ (उपनिषद्) । स्कन्द (उपनिषद्) । महानारायण (उपनिषद्) । अद्वयतारक (उपनिषद्) । रामरहस्य (उपनिषद्) । रामतापणि (उपनिषद्) । वासुदेव (उपनिषद्) । मुद्गल (उपनिषद्) । शाण्डिल्य (उपनिषद्) । पैंगल (उपनिषद्) । भिक्षु (उपनिषद्) । महत्-शारीरक (उपनिषद्) । योगशिखा (उपनिषद्) । तुरीयातीत (उपनिषद्) । संन्यास (उपनिषद्) । परमहंस-परिव्राजक (उपनिषद्) । अक्षमालिक (उपनिषद्) । अव्यक्त (उपनिषद्) । एकाक्षर (उपनिषद्) । अन्नपूर्ण (उपनिषद्) । सूर्य (उपनिषद्) । अक्षि (उपनिषद्) । अध्यात्मा (उपनिषद्) । कुण्डिकोपनिषद् (उपनिषद्) । सावित्रि (उपनिषद्) । आत्मा (उपनिषद्) । पाशुपत (उपनिषद्) । परब्रह्म (उपनिषद्) । अवधूत (उपनिषद्) । त्रिपुरातपनोपनिषद् (उपनिषद्) । देवि (उपनिषद्) । त्रिपुर (उपनिषद्) । कर (उपनिषद्) । भावन (उपनिषद्) । रुद्र-हृदय (उपनिषद्) । योग-कुण्डलिनि (उपनिषद्) । भस्मोपनिषद् (उपनिषद्) । रुद्राक्ष (उपनिषद्) । गणपति (उपनिषद्) । दर्शन (उपनिषद्) । तारसार (उपनिषद्) । महावाक्य (उपनिषद्) । पञ्च-ब्रह्म (उपनिषद्) । प्राणाग्नि-होत्र (उपनिषद्) । गोपाल-तपणि (उपनिषद्) । कृष्ण (उपनिषद्) । याज्ञवल्क्य (उपनिषद्) । वराह (उपनिषद्) । शात्यायनि (उपनिषद्) । हयग्रीव (उपनिषद्) । दत्तात्रेय (उपनिषद्) । गारुड (उपनिषद्) । कलि-सण्टारण (उपनिषद्) । जाबाल(सामवेद) (उपनिषद्) । सौभाग्य (उपनिषद्) । सरस्वती-रहस्य (उपनिषद्) । बह्वृच (उपनिषद्) । मुक्तिक (उपनिषद्)
हिन्दू धर्म
श्रुति: वेद · उपनिषद · श्रुत
स्मृति: इतिहास (रामायण, महाभारत, श्रीमदभागवत गीता) · पुराण · सुत्र · आगम (तन्त्र, यन्त्र) · वेदान्त
विचा:त: अवतार · आत्मा · ब्राह्मन · कोसस · धर्म · कर्म · मोक्ष · माया · इष्ट-देव · मुर्ति · पूनर्जन्म · हलिम · तत्त्व · त्रिमुर्ति · कतुर्थ;· गुरु
दर्शन: मान्यता · प्राचीन हिन्दू धर्म · साँख्य · न्याय · वैशेषिक · योग · मीमांसा · वेदान्त · तन्त्र · भक्ति
परम्परा: ज्योतिष · आयुर्वेद · आरति · भजन · दर्शन · दिक्षा · मन्त्र · पुजा · सत्संग · स्तोत्र · ईहिपा: · यज्ञ
गुरु: शंकर · रामानुज · माधवाचार्य · रामकृष्ण · शारदा देवी · विवेकानन्द · नारायण गुरु · औरोबिन्दो · रमन महार्षि · शिवानन्द · चिन्‍मयानन्‍द · शुब्रमुनियस्वामी · स्वामीनारायण · प्रभुपद · लोकेनाथ
विभाजन: वैष्णभ · शैव · शक्ति · स्मृति · हिन्दू पूनरुत्थान ज्याझ्व
द्य: द्यतेगु नां · हिन्दू बाखं
युग: सत्य युग · त्रेता युग · द्वापर युग · कलि युग
वर्ण: ब्राह्मन · क्षत्रीय · वैश्य · शुद्र · दलित · वर्णाश्रम धर्म