जीवात्मा
जीवात्मा छगु हिन्दू धर्मयु विचा ख। हिन्दू धर्म कथं सकल प्राणीय् दैगु आत्मायात जीवात्मा धाइ।
खँग्वःयागु उत्पत्ति व छ्येलेज्या
[सम्पादन]उत्पत्ति व विकास
[सम्पादन]थ्व खँग्वयागु छ्येलेज्या दक्ले न्ह्य संस्कृतय् जुगु ख। लिपा थ्व खँग्वयागु तत्सम खँग्वया रुपे यक्व भासे, यक्व कथं छ्येलेज्या जुल।
छ्येलेज्या
[सम्पादन]थ्व खँग्वयागु छ्येलेज्या संस्कृतय् व संस्कृत नाप स्वापू दुगु व संस्कृत नं बुया वगु भाषे जुगु खने दु।
स्वया दिसँ
[सम्पादन]पिनेयागु स्वापू
[सम्पादन]
शास्त्रय् दसुअग्निपुराणम् — अध्यायः ३८२[१] </poem>
३८२.९ विधित्सा - कर्मारम्भस्य आकाङ्क्षा। ऋग्वेदः सूक्तं १.११३[२] विऽउच्छन्ती । जीवम् । उत्ऽईरयन्ती । उषाः । मृतम् । कम् । चन । बोधयन्ती ॥८ “परायतीनां परागच्छन्तीनाम् अतीतानामुषसां संबन्धि "पाथः अन्तरिक्षैकदेशलक्षणं स्थानम् । ‘ पाथोऽन्तरिक्षं पथा व्याख्यातम् ' ( निरु. ६. ७) इति यास्कः। अद्यतन्युषाः “अन्वेति अनुगच्छति । अतीता उषसो यथा व्युष्टा एवमेवैषापि व्युच्छतीत्यर्थः । तथा “आयतीनाम् आगच्छन्तीनां “शश्वतीनां बह्वीनामुषसां “प्रथमा आद्या भवति । एषा यथा वर्तते एवमेव आगामिन्योऽप्युषस इत्यर्थः । तादृशी “व्युच्छन्ती तमो वर्जयन्ती "जीवं प्राणिनां जीवात्मानम् “उदीरयन्ती शयनादूर्ध्वं प्रेरयन्ती “उषाः “मृतं स्वापसमये प्रलीनेन्द्रियत्वात् मृतमिव सन्तं "कं “चन कमपि पुरुषं “बोधयन्ती पुनः इन्द्रियप्रवेशेन चेतनं कुर्वती प्रवर्तत इति शेषः ॥ परायतीनाम् । इण् गतौ । लटः शतृ । इणो यण् ‘ उगितश्च ' इति ङीप् । ड्याश्छन्दसि बहुलम्' इति नाम उदात्तत्वम् ॥ उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य । ऋग्वेदः सूक्तं १.११५[३] आ । अप्राः । द्यावापृथिवी इति । अन्तरिक्षम् । सूर्यः । आत्मा । जगतः । तस्थुषः । च ॥१ “देवानाम् । दीव्यन्तीति देवा रश्मयः तेषाम् । देवजनानामेव वा । “अनीकं समूह रूपं “चित्रम् आश्चर्यकरं सूर्यस्य मण्डलम् “उदगात् उदयाचलं प्राप्तमासीत्। कीदृशम् । “मित्रस्य “वरुणस्य “अग्नेः च । उपलक्षणमेतत् । तदुपलक्षितानां जगतां “चक्षुः प्रकाशकं चक्षुरिन्द्रियस्थानीयं वा । उदयं प्राप्य च “द्यावापृथिवी दिवं पृथिवीमन्तरिक्षं च “अप्राः । स्वकीयेन तेजसा “आ समन्तात् अपूरयत् । ईदृग्भूतमण्डलान्तर्वर्ती “सूर्यः अन्तर्यामितया सर्वस्य प्रेरकः परमात्मा “जगतः जङ्गमस्य “तस्थुषः स्थावरस्य “च आत्मा स्वरूपभूतः । स हि सर्वस्य स्थावरजङ्गमात्मकस्य कार्यवर्गस्य कारणम् । कारणाच्च कार्यं नातिरिच्यते । तथा च पारमर्षं सूत्र - ‘ तदनन्यत्वमारम्भणशब्दादिभ्यः ( ब्र. सू. २. १. १४) इति । यद्वा । स्थावरजङ्गमात्मकस्य सर्वस्य प्राणिजातस्य जीवात्मा । उदिते हि सूर्ये मृतप्रायं सर्वं जगत् पुनश्चेतनयुक्तं सदुपलभ्यते । तथा च श्रूयते - योऽसौ तपन्न… ऋग्वेदः सूक्तं १.१६४[४] तयोः । अन्यः । पिप्पलम् । स्वादु । अत्ति । अनश्नन् । अन्यः । अभि । चाकशीति ॥२० अत्र लौकिकपक्षिद्वयदृष्टान्तेन जीवपरमात्मानौ स्तूयेते । यथा लोके द्वौ सुपर्णौ सुपतनौ शोभनगमनौ “सयुजा समानयोगौ “सखाया समानख्यानौ "समानं “वृक्षं “परि “षस्वजाते एकमेव वृक्षं परिषस्वजाते आश्रयतः “तयोः “अन्यः एकः “पिप्पलं पक्वं स्वादुतरम् “अत्ति अपरः अनश्नन् “अभि “चाकशीति अभिपश्यति तद्वत् द्वौ सुपर्णस्थानीयौ क्षेत्रज्ञपरमात्मानौ सयुजा समानयोगौ । योगो नाम संबन्धः स च तादात्म्यलक्षणः । स एवात्मा जीवात्मनः स्वरूपं यस्य परमात्मनः स तदात्मा । एवमन्यस्यापि स एवात्मा परमात्मनः स्वरूपं यस्य जीवात्मनः । एवमेकस्वरूपौ इत्यर्थः । अनेन भास्करमतानुसारिणः अतिरेकिनाम्नो जीवात्मा परमात्मनो नान्यः स च परमात्मा जीवादन्यो नानाजीवाश्रयणादिति मतं निरस्तं भवति । ननु संबन्धो द्विष्ठः स च पक्षिणोरेव भेदमपेक्षते अतः कथमैकात्म्यमिति । न । औपाधिकभेदं वास्तवाभेदं चापेक्ष्य प्रवृत्तः । अत एव सखायौ समानख्यानौ नान्यख्यानौ । ननु एकस्य यादृशं ख्यान… लिधंसा | |||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|