सामवेद


स्वयादिसँ
[सम्पादन]शास्त्रय् दसु
[सम्पादन]

ऋग्वेदादिभाष्यभूमिका (दयानन्दसरस्वतीविरचिता) — १. ईश्वरप्रार्थनाविषयः[२]
यस्मिं॑श्चि॒त्तꣳ सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥८॥ (यजु॰३४.५)
(यस्मिन्नृचः साम यजूंषि) हे भगवन् कृपानिधे! यस्मिन्मनसि ऋचः सामानि यजूंषि च प्रतिष्ठितानि भवन्ति, [यस्मिन् प्रतिष्ठिता] यस्मिन् यथार्थमोक्षविद्या च प्रतिष्ठिता भवति, (यस्मिंश्चित्तं सर्वमोतं प्रजानाम्) यस्मिंश्च प्रजानां चित्तं स्मरणात्मकं सर्वमोतमस्ति सूत्रे मणिगणवत्प्रोतमस्ति। कस्यां क इव? [रथनाभाविवाराः] रथनाभौ अरा इव। [तन्मे मनः शिवसङ्कल्पमस्तु] तन्मे मम मनो भवत्कृपया शिवसंकल्पं कल्याणप्रियं सत्यार्थप्रकाशं चास्तु, येन वेदानां सत्यार्थः प्रकाश्येत।
(यस्मिन्नृचः) हे भगवन् कृपानिधे! (ऋचः) ऋग्वेद (साम) सामवेद (यजूᳬषि) यजुर्वेद और इन तीनों के अन्तर… ऋग्वेदादिभाष्यभूमिका (दयानन्दसरस्वतीविरचिता) — २. वेदोत्पत्तिविषयः[३]
तस्मा॑द्य॒ज्ञात् स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे।
छन्दा॑ꣳसि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत॥॥१॥ (यजु॰३१.७)
(तस्माद्यज्ञात् सर्वहुतः) तस्मात् यज्ञात् सच्चिदानन्दादिलक्षणात् पूर्णात् पुरुषात् सर्वहुतात् सर्वपूज्यात् सर्वोपास्यात् सर्वशक्तिमतः परब्रह्मणः (ऋचः) ऋग्वेदः, (यजुः) यजुर्वेदः, (सामानि) सामवेदः, (छन्दाꣳसि) अथर्ववेदश्च (जज्ञिरे) चत्वारो वेदास्तेनैव प्रकाशिता इति वेद्यम्। सर्वहुत इति वेदानामपि विशेषणं भवितुमर्हति, वेदाः सर्वहुतः। यतः सर्वमनुष्यैर्होतुमादातुं ग्रहीतुं योग्याः सन्त्यतः। जज्ञिरे अजायतेति क्रियाद्वयं वेदानामनेकविद्यावत्त्वद्योतनार्थम्। तथा [तस्मात्] तस्मादिति पदद्वयमीश्वरादेव वेदा जाता इत्यवधारणार्थम्। वेदानां गायत्र्यादिच्छन्दोन्वितत्वात् पुनश्छन्दांसीति पदं चतुर्थ… ऋग्वेदादिभाष्यभूमिका (दयानन्दसरस्वतीविरचिता) — ३०. प्रश्नोत्तरविषयः[४] प्र॰ - कास्ताः ? उ॰ - त्रिधा गानविद्या भवति , गानोच्चारणविद्याया द्रुतमध्यमविलम्बित-भेदयुक्तत्वात्। यावता कालेन ह्रस्वस्वरोच्चारणं क्रियते , ततो दीर्घोच्चारणे द्विगुणः , प्लुतोच्चारणे त्रिगुणश्च कालो गच्छतीति। अत एवैकस्यापि , मन्त्रस्य चतसृषु संहितासु पाठः कृतोऽस्ति। तद्यथा - ' ऋग्भिस्स्तुवन्ति। यजुभिर्यजन्ति। सामभिर्गायन्ति ' । ऋग्वेदे सर्वेषां पदार्थानां गुणप्रकाशः कृतोऽस्ति , तथा यजुर्वेदे विदितगुणानां पदार्थानां सकाशात् क्रिययाऽनेकविद्योपकारग्रहणाय विधानं कृतमस्ति। तथा सामवेदे ज्ञानक्रियाविद्ययोर्दीर्घविचारेण फलावधिपर्य्यन्तं विद्याविचारः। एवमथर्ववेदेऽपि त्रयाणां वेदानां मध्ये यो विद्याफलविचारो विहितोऽस्ति तस्य पूर्तिकरणेन रक्षणोन्नती विहिते स्तः। एतदाद्यर्थं वेदानां चत्वारो विभागाः सन्ति। प्रश्नः - वेदानां चतुःसंहिताकरणे किं प्रयोजनमस्तीति ?