संवरण
शास्त्रय् दसु
[सम्पादन]अर्थशास्त्रम् — अधिकरणम् १ — अध्यायः २[१]
त्रयी विशेषो ह्यान्वीक्षिकीइति ।। ०१.२.०३ ।।
वार्त्ता दण्ड-नीतिश्चैति बार्हस्पत्याः ।। ०१.२.०४ ।।
संवरण-मात्रं हि त्रयी लोक-यात्रा-विद इति ।। ०१.२.०५ ।।
दण्ड-नीतिरेका विद्याइत्यौशनसाः ।। ०१.२.०६ ।।
तस्यां हि सर्व-विद्या-आरम्भाः प्रतिबद्धा इति ।। ०१.२.०७ ।।
अर्थशास्त्रम् — अधिकरणम् ५ — अध्यायः ५[२]
आसन्नश्चास्य व्यसन-उपघाते प्रयतेत । पर-उपजाप-अतिसंधान-उपधिभ्यश्च रक्षेत् ।। ०५.५.०४ ।।
इङ्गित-आकारौ चास्य लक्षयेत् ।। ०५.५.०५ ।।
काम-द्वेष-हर्ष-दैन्य-व्यवसाय-भय-द्वन्द्व-विपर्यासं इङ्गित-आकाराभ्यां हि मन्त्र-संवरण-अर्थं आचरति प्राज्ञः ।। ०५.५.०६ ।।
दर्शने प्रसीदति । वाक्यं प्रतिगृह्णाति । आसनं ददाति । विविक्तो दर्शयते । शङ्का-स्थाने नातिशङ्कते । कथायां रमते । परिज्ञाप्येष्ववेक्षते । पथ्यं उक्तं सहते । स्मयमानो नियुङ्क्ते । हस्तेन स्पृशति । श्लाघ्ये नौपहसति । परोक्षं गुणं ब्रवीति । भक्ष्येषु स्मरति । सह विहारं याति । व्यसनेअभ्युपपद्यते । तद्-भक्तीन्पूजयति । गुह्यं आचष्टे । मानं वर्धयति । अर्थं करोति । अनर्थं प्रतिहन्ति इति तुष्ट-ज्ञानं ।। ०५.५.०७ ।।
एतदेव विपरीतं अतुष्टस्य । भूयश्च वक्ष्यामः ।। ०५.५.०८ ।।
अष्टाङ्गहृदयम् — शारीरस्थानम् — अध्यायः २[३]
सहात्मना न चोपेक्ष्यः क्षणम् अप्य् अस्त-जीवितः ॥ ३७ ॥
योनि-संवरण-भ्रंश-मक्कल्ल-श्वास-पीडिताम् ।
पूत्य्-उद्गारां हिमाङ्गीं च मूढ-गर्भां परित्यजेत् ॥ ३८ ॥
ऋग्वेदभाष्यम् प्रथममण्डले 31-40 सूक्तानि[४] त्रिर्वाज॑वती॒रिषो॑ अश्विना यु॒वं दो॒षा अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतम्॥3॥ स॒मा॒ने। अह॑न्। त्रिः। अ॒व॒द्य॒ऽगो॒ह॒ना॒। त्रिः। अ॒द्य। य॒ज्ञम्। मधु॑ना। मि॒मि॒क्ष॒त॒म्। त्रिः। वाज॑ऽवतीः। इषः॑। अ॒श्वि॒ना॒। यु॒वम्। दो॒षाः। अ॒स्मभ्य॑म्। उ॒षसः॑। च॒। पि॒न्व॒त॒म्॥3॥ पदार्थः—(समाने) एकस्मिन् (अहन्) अहनि दिने (त्रिः) त्रिवारम् (अवद्यगोहना) अवद्यानि गर्ह्याणि निन्दितानि दुःखानि गूहत आच्छादयतो दूरीकुरुतस्तौ। अवद्यपण्य॰ (अष्टा॰3.1.101) इत्ययं निन्दार्थे निपातः। ण्यन्ताद् गुहू संवरण इत्यस्माद्धातोः ण्यासश्रन्थो युच्। (अष्टा॰3.3.107) इति युच्। ऊदुपधाया गोहः। (अष्टा॰6.4.89) इत्यूदादेशे प्राप्ते। वा च्छन्दसि सर्वे विधयो भवन्ति इत्यस्य निषेधः। सुपां सुलुग्॰ इत्याकारादेशश्च। (त्रिः) त्रिवारम् (अद्य) अस्मिन्नहनि (यज्ञम्) ग्राह्यशिल्पादिसिद्धिकरम् (मधुना) जलेन। मध्वित्युदकनामसु पठितम्। (निघं॰1.12) (मिमिक्षतम्) मेढुमिच्छतम् (त्रिः) त्रिवारम् (वाजवतीः) प्रशस्ता वाजा वेगादयो गुणा विद्यन्ते यासु नौकादिषु ताः। अत्र प्रश…