Jump to content

रामदेव

विकिपिडिया नं
नेपाललिपि परिक्षण: 𑐠𑑂𑐰 𑐥𑑁𑐫𑐵 𑐣𑐾𑐥𑐵𑐮𑐮𑐶𑐥𑐶𑐂 𑐥𑐬𑐶𑐎𑑂𑐲𑐞 𑐥𑑁 𑐧𑑂𑐰𑐣𑐾𑐟: रामदेव 𑐟𑐶𑐫𑐵𑐡𑐶𑐳𑑄𑑋

रामदेव पौराणिक आधारे मनुयागु वंशजयाम्ह छम्ह हिन्दू पात्र खः।

शास्त्रय् दसु

[सम्पादन]

माधवीयधातुवृत्तिः — भ्वादिप्रकरणम्[१] षिध गत्याम् ।। के चिदुदितं पठन्ति । यदाह काश्यप:, उकार ""उदितो वा इति विशेषणार्थ इति, तरङ्गिणी चायमुदिदिति, तद्वृत्तिविरोधादुपेक्ष्यं, यदाह तत: परं सिध्यतिरेव नेतर इत्यनिट्कारिकायां सिध्यतिबुध्यत्यो श्यना निर्द्देशादन्यविकरणयोर्बुधिसिध्योरिडभवत्येव । बोधिता । सोधिता । निष्ठायामपि प्रतिषेधाभावाद् बुधितं सिधि?तमित्येव भवतीति । उदित्त्वे हि ""उदितो वा इति क्त्वायां विकल्पस्योक्तत्वाद् *यस्य विभाषा* यस्य धातो: क्क चिद्वभाषेहुक्तस्तस्य निष्ठायामिण नेति प्रतिषेधेन भाव्यमिति कथमेवं ब्रूयात् । तत्र न्यासपदमञ्जर्योरपि सिधेरुदित्त्वमनार्षमित्युक्तम् । अत एव क्षीरस्वामी सिद्धमित्युदाहृत्य निरनुबन्धपाठे तु सिधित इत्यपरितुष्यन्नुदाजहार । अथोदाहरणानि ""धात्वादे: ष: स: ।। ( सेधति । सिषेध । सिषेधिथ । सिषिधिव ) "आदेशप्रत्यययो: इति षत्वं, ( सेधिता । सेधिष्यति । सेधतु । असेधत् । आशिषि । सिध्यात् । असेधीत् । असेधिष्यत् । कर्मणि सिध्यत इत्यादि ) गत्यर्थत्वेन कर्तृस्थक्रियत्वाद् न कर्मकर्तास्ति ( सिसे…

स्कन्दपुराणम् — खण्डः ३ (ब्रह्मखण्डः) — धर्मारण्य खण्डः — अध्यायः ३१[२] स्वर्गे देवाः प्रशंसंति धर्मारण्यनिवासिनः ।। ३२ ।। ते पुण्यास्ते पुण्यकृतो ये वसंति कलौ नराः ।। धर्मारण्ये रामदेव सर्वकिल्बिषनाशने ।। ३३ ।। ब्रह्महत्यादिपापानि सर्वस्तेयकृतानि च ।। परदारप्रसंगादि अभक्ष्यभक्षणादि वै ।। ३४ ।।

स्कन्दपुराणम् — खण्डः ३ (ब्रह्मखण्डः) — धर्मारण्य खण्डः — अध्यायः ३६[३] दर्शयध्वं हनूमंतं रामं वा लक्ष्मणं तथा ।। यद्यस्ति प्रत्ययः कश्चित्स नो विप्राः प्रदर्श्यताम् ।।८१।। उक्तं तै रामदेवेन दूतं कृत्वांजनीसुतम् ।। चतुश्चत्वारिंशदधिकं दत्तं ग्रामशतं नृप ।। ६२ ।। पुनरागत्य स्थानेऽस्मिन्दत्ता ग्रामास्त्रयोदश ।।

लिधंसा

[सम्पादन]
  1. ↑ विकिस्रोतः – माधवीयधातुवृत्तिः/भ्वादिप्रकरणम्
  2. ↑ विकिस्रोतः – स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ३१
  3. ↑ विकिस्रोतः – स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ३६