यदु
शास्त्रय् दसु
[सम्पादन]अथर्ववेदः — काण्डं ७[१] एमं यज्ञमनुमतिर्जगाम सुक्षेत्रतायै सुवीरतायै सुजातम् । भद्रा ह्यस्याः प्रमतिर्बभूव सेमं यज्ञमवतु देवगोपा ॥५॥ अनुमतिः सर्वमिदं बभूव यत्तिष्ठति चरति यदु च विश्वमेजति । तस्यास्ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः ॥६॥
उद्धवगीता २[२]
व्यचक्षत अवितृप्ताक्षाः कृष्णम् अद्भुतदर्शनम्॥५॥
स्वर्गौद्यानौअपगैः माल्यैः छादयन्तः यदु उत्तमम्।
गीर्भिः चित्रपदार्थाभिः तुष्टुवुः जगत् ईश्वरम्॥६॥
ऋग्वेदः सूक्तं १.१५४[३] <poem> विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि । यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥१॥ प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥२॥
ऋग्वेदः सूक्तं १.१६[४] मेधातिथ्योपरि टिप्पणी षोळशिशस्त्रे गायत्रीपङ्क्त्योर्विहरणप्रकारोपदेशः -अथातश्छन्दांस्येव व्यतिषजत्या त्वा वहन्तु हरय उपो षु शृणुही गिर इति(१.८२.१) गायत्रीश्च पङ्क्तीश्च व्यतिषजति गायत्रो वै पुरुषः पाङ्क्ताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदु गायत्री च पङ्क्तिश्च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैति - ऐ.ब्रा. ४.३.१ , आ त्वा वहन्तु हरय इति प्रातःसवन उन्नीयमानेभ्योऽन्वाह वृषण्वतीः पीतवतीः सुतवतीर्मद्वती रूपसमृद्धा ऐन्द्रीरन्वाहैन्द्रो वै यज्ञो गायत्रीरन्वाह गायत्रं वै प्रातःसवनं नव न्यूनाः प्रातःसवनेऽन्वाह न्यूने वै रेतः सिच्यते (यदा चमसा उन्नीयन्ते सोमेन पूर्यन्ते तदानीमध्वर्युणा प्रेषितो मैत्रावरुण आ त्वा वहन्तु इति सूक्तमनुब्रूयात्)- ऐ.ब्रा ६.९.१