Jump to content

मरुत्त

विकिपिडिया नं
नेपाललिपि परिक्षण: 𑐠𑑂𑐰 𑐥𑑁𑐫𑐵 𑐣𑐾𑐥𑐵𑐮𑐮𑐶𑐥𑐶𑐂 𑐥𑐬𑐶𑐎𑑂𑐲𑐞 𑐥𑑁 𑐧𑑂𑐰𑐣𑐾𑐟: मरुत्त 𑐟𑐶𑐫𑐵𑐡𑐶𑐳𑑄𑑋

मरुत्त वेदकथं मनुयागु वंशजयाम्ह छम्ह हिन्दू पात्र खः।

शास्त्रय् दसु

[सम्पादन]

ऐतरेय ब्राह्मणम् — पञ्चिका ८ (अष्टम पञ्चिका)[] आम्बाष्ठ्यस्य राज्ञो महाभिषेककथा (अत्रास्ति गाथा) औग्रसैन्यस्य युधाश्रौष्टेः, भौवनस्य विश्वकर्मणः, (अत्रास्ति गाथा) .. पैजवनस्य सुदासः, आविक्षितस्य मरुत्तस्य, राज्ञो महाभिषेककथा (अत्रास्ति गाथा)</ref>एतेन ह वा ऐन्द्रेण महाभिषेकेण तुरः कावषेयो जनमेजयं पारिक्षितमभिषिषेच तस्मादु जनमेजयः पारिक्षितः समन्तं सर्वः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। तदेषाऽभि यज्ञगाथा गीयते। आसन्दीवति धान्यादं रुक्मिणं हरितस्रजम्। अश्वं बबन्ध सारंगं देवेभ्यो जनमेजय इति। एतेन ह वा ऐन्द्रेण महाभिषेकेण च्यवनो भार्गवः शार्यातं मानवमभिषिषेच तस्मादु शार्यातो मानवः समन्तं सर्वः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे देवानां हापि सत्रे गृहपतिरास। एतेन ह वा ऐन्द्रेण महाभिषेकेण सोमशुष्मा वाजरत्नायनः शतानीकं सात्राजितमभिषिषेच तस्मादु शतानीकः सात्राजितः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदावाम्बाष्ठ्यम् अभिषिषिचतुस्तस्माद्वाम्बाष्ठ्यः समन्तं सर्वतः पृथिवीं जयन्परीयाय…

काशिका (पदमञ्जरीव्याख्यासहिता) — प्रथमोऽध्यायः — चतुर्थः पादः[] उपसर्गाः क्रियायोगे।। 1.4.59 ।। क्रियायोगे इति तृतीया, निपातनात् समासः, `कर्तृ करणे कृता' इति बहुलवचनाद्वा। यद्वा--क्रियया करणभूतया प्रादीनां धातुभिर्योगात् करणे तृतीयया एव समासः। प्रणयतीति। `उपसर्गादसमासेऽपि इति णत्वम्। प्रनायक इति। नन्वत्रापि गमिक्रियायोगोऽस्त्येव, सत्यम्; प्रादयः पुनरेवमात्मकाः, यदुत श्रुतायां क्रियायां तामेव विशिंषन्ति, अश्रुतायां तु ससाधनां क्रियामाक्षिपन्ति। तत्र क्रियायोगग्रहणसामर्थ्याद् यत्क्रियायुक्ताः प्रादयस्तं प्रत्युपसर्गसंज्ञा भवतीत्ययमर्थो भवति। अत्र च यत्क्रियायुक्तः प्रादिः स गमिर्न प्रयुज्यते, यश्च प्रयुज्यते न तत्क्रियायुक्त इति नास्ति णत्वप्रसङ्गः। मरुच्छब्दस्येति। उपसर्गसंज्ञैवेष्यते, न निपातसंज्ञा। तस्यां हि सत्यां निपाताद्युदात्तत्वम्`तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरेण स्यात्, अन्तोदात्तश्च मरुत्तशब्द इष्यते। ननूपसर्गसंज्ञायामपि `उपसर्गाश्चाभिवर्जम्' इत्याद्युदात्तत्वं स्यादेव, न; नानेनापूर्वमाद्युदात्तत्वं विधीयते, किं तर्हि? `निपाताः' इत्य…

तन्त्रालोके एकोनत्रिंशमाह्निकम्[] मच्छन्दः कुङ्कुणाम्बा च षड्युग्मं साधिकारकम् ॥३२॥
सौम्ये मरुत्त ईशान्तं द्वितीया पङ्क्तिरीदृशी ।
अमरवरदेवचित्रालिविन्ध्यगुडिका इति क्रमात्षडमी ॥३३॥

मत्स्यपुराणम् — अध्यायः ४४[] तितिक्षुरभवत् पुत्र औशनः शत्रुतापनः। मरुत्तस्तस्य तनयो राजर्षीणामनुत्तमः।। ४४.२४ ।। आसीन् मरुत्त तनयो वीरः कम्बलबर्हिषः।

लिधंसा

[सम्पादन]
  1. विकिस्रोतः – ऐतरेय ब्राह्मणम्/पञ्चिका ८ (अष्टम पञ्चिका)
  2. विकिस्रोतः – काशिका (पदमञ्जरीव्याख्यासहिता)/प्रथमोऽध्यायः/चतुर्थः पादः
  3. विकिस्रोतः – तन्त्रालोके एकोनत्रिंशमाह्निकम्
  4. विकिस्रोतः – मत्स्यपुराणम्/अध्यायः ४४