प्रसेनजित्
शास्त्रय् दसु
[सम्पादन]पद्मपुराणम् — खण्डः १ (सृष्टिखण्डम्) — अध्यायः १३[१] बिले शब्दं स शुश्राव कृतं सत्त्वेन केनचित्। ततः प्रविश्य स बिलं प्रसेनो ह्यृक्षमासदत्७६। ऋक्षः प्रसेनं च तथा ऋक्षं चापि प्रसेनजित्। आसाद्य युयुधाते तौ परस्परजयेच्छया७७। हत्वा ऋक्षः प्रसेनं च ततस्तं मणिमाददात्।
बोधिसत्त्वावदानकल्पलता[२] रूतायुधश्चूतलताचापन्यस्तशिलीमुखः । जयतीति जगौ बन्दी कन्दर्पस्येव कोकिलः ॥ क्११.१९ ॥ अस्मिन्नवसरे श्रीमान् कोसलेन्द्रः प्रसेनजित् । मृगयानिर्गतोऽश्वेन हृतस्तं देशमाययौ ॥ क्११.२० ॥ धन्वीमनोभवाकारः सोऽवतीर्य तुरंगमात् ।
ब्रह्मपुराणम् — अध्यायः ७[३] अकृशाश्वकृशाश्वौ तु संहताश्वसुतौ द्विजाः ८९ तस्य हैमवती कन्या सतां मता दृषद्वती विख्याता त्रिषु लोकेषु पुत्रश्चास्याः प्रसेनजित् ९० लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रताम् अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाभवत् ९१
ब्रह्माण्डपुराणम् — मध्यभागः — अध्यायः ६३[४] कृशाश्वश्चाकृताश्वश्च संहताश्वसुतावुभौ । तस्य पत्नी हैमवती सती माता दृषद्वती ॥ २,६३.६५ ॥ विख्याता त्रिषु लोकेषु पुत्रश्चास्य प्रसेनजित् । युवनाश्वसुतस्तस्य त्रिषु लोकेषु विश्रुतः ॥ २,६३.६६ ॥ अत्यन्तधार्मिका गौरी तस्य पत्नी पतिव्रता ।