पार्वती



| ||||||||||||||||||||
पर्वती हिन्दू धर्म् कथं महाद्यःया कला ख।
स्वयादिसँ
[सम्पादन]| विकिमिडिया मंका य् थ्व विषय नाप स्वापु दुगु मिडिया दु: Parvati |
शास्त्रय् दसु
[सम्पादन]अग्निपुराणम् — अध्यायः ३०९[१] न्यस्ताङ्गो न्यस्तमन्त्रस्तु समस्तं व्यापकं न्यसेत् । पार्वती शवरी चेशा वरदाभयहस्तिका ।। ३०९.३ ।। मयूरबलया पिच्छमौलिः किसलयांशुका ।
ऋग्वेदः सूक्तं १.११४[२] रास्व । च । नः । अमृत । मर्तऽभोजनम् । त्मने । तोकाय । तनयाय । मृळ ॥६ “इदं स्तुतिलक्षणं “वचः “मरुताम् एकोनपञ्चाशसंख्याकानां देवविशेषाणां “पित्रे जनकाय “रुद्राय ईश्वराय “उच्यते उच्चार्यते । कीदृशम् । “स्वादोः “स्वादीयः रसवतो मधुघृतादेरपि स्वादुतरम् । अतिशयेन हर्षजनकमित्यर्थः । “वर्धनं स्तुत्यस्य प्रवर्धकम् । स्तोत्रेण हि देवता हृष्टा सती प्रवर्धते । रुद्रस्य च मरुतां पितृत्वम् एवम् आख्यायते । पुरा कदाचिदिन्द्रः असुराञ्जिगाय । तदानीं दितिः असुरमाता इन्द्रहननसमर्थं पुत्रं कामयमाना तपसा भर्तुः सकाशाद्गर्भं लेभे । इमं वृत्तान्तमवगच्छन्निन्द्रो वज्रहस्तः सन् सूक्ष्मरूपो भूत्वा तस्या उदरं प्रविश्य तं गर्भं सप्तधा बिभेद । पुनरप्येकैकं सप्तखण्डमकरोत् । ते सर्वे गर्भैकदेशा योनेर्निर्गत्य अरुदन् । एतस्मिन्नवसरे लीलार्थं गच्छन्तौ पार्वतीपरमेश्वरौ इमान् ददृशतुः । महेशं प्रति पार्वती एवमवोचत् । इमे मांसखण्डा यथा प्रत्येकं पुत्राः संपद्यन्तामेवं त्वया कार्यं मयि चेत्प्रीतिरस्तीति । स च महेश्वर: तान् सम…
नारदपुराणम्- पूर्वार्धः — अध्यायः ७९[३] स्वयं प्रविश्य यदि वा स्वयं भुंक्ष्व स्वगेहवत् ।। गच्छ वा पार्वतीगेहं या कुक्षिं पूरयिष्यति ।। ७९-९८ ।। इत्युक्त्वा तत्करालंबी ह्येकांतमगमद्विभुः ।।
ब्रह्मपुराणम् — अध्यायः १०८[४] हिमवत्पर्वतश्रेष्ठ उमया सहितः शिवः। देवैर्गणैरनुवृतो विचचार यथासुखम्।। पार्वती शंकरं प्राह कदाचिद्रहसि स्थितम्।। १०८.२६ ।। पार्वत्युवाच