दुष्यन्त



शास्त्रय् दसु
[सम्पादन]अभिज्ञानशाकुन्तलम् — षष्ठोऽङ्कः[१] राजा- किमनेन सन्ततिरस्ति नास्तीति ?
- येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना
- स स पापादृते तासां दुष्यन्त इति घुष्यताम् ॥२३॥
प्रतीहारी – एवं नाम घोषयितव्यम् (निष्क्रम्य पुनः प्रविश्य) काले
- प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् ।
अभिज्ञानशाकुन्तलम् — सप्तमोऽङ्कः[२] बालः- मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि । राजा- पुत्रक, मया सहेव मातरमभिनन्दिष्यसि । बालः - मम खलु तातो दुष्यन्तः ! न त्वम् । राजा -(सस्मितम्) एष विवाद एव प्रत्याययति !
- (ततः प्रविशत्येकवेणीधरा शकुन्तला)
ऋग्वेदः मण्डल ८[३] काशकृत्स्नधातुपाठे (१.२०६) कण, क्वणादि धातवः शब्दे भवन्ति। अस्याः चन्नवीरकृतटीकायां कणः – लघुद्रव्यम्, कणिमा गिरिपर्व(घाटी), कणुः – चक्षुः इत्याद्यर्थेषु भवति। क्वण धातु प्रतिध्वनि अर्थे अस्ति। उणादिसूत्राणि १.१५१ (१.१४९) अनुसारेण अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन् । अशू- व्याप्तौ, प्रुष – प्रोक्षणे, .....। अत्र क्वन् प्रत्ययः महत्वपूर्णमस्ति। किं अयं क्वन्, क्वण आधुनिकविज्ञानस्य क्वाण्टा(quantum) अस्ति, अयं विचारणीयः। आधुनिकविज्ञानुसारेण क्वाण्टा कणः अपि अस्ति, तरंगः अपि। तस्य स्वरूपस्य निर्धारणं शक्यं नास्ति। उणादिसूत्रे क्वनशब्दस्य ये विशेषणाः अशू, प्रुषादि सन्ति, किं ते सर्वाणि क्वणशब्दस्य गुणाः सन्ति, अयं अन्वेषणीयः। पौराणिक एवं लौकिकसाहित्ये कण्वाश्रमे शकुन्तला – दुष्यन्त मेलनम् एवं भरतस्य जन्मकथा प्रसिद्धा अस्ति। पुराणेषु अस्याः कथायाः रूपान्तराः अपि सन्ति – यथा – कथासरित्सागरे १२.३४.३६ एका अतिरूपसम्पन्ना मन्दारवती युवती अस्ति यस्याः निवासं हंसद्वीपे अस्ति। तस्याः मेलनम् सर्वेषां व…
कथासरित्सागरः — लम्बकः ६ — तरङ्गः ६[४] यथावकाशोऽपि हृतस्तत्रान्तःपुरयोषिताम् ॥१०७ अपीमां प्राप्नुयां भार्यां कस्यापीह सुतामृषेः । दुष्यन्त इव कण्वस्य मुनेः कन्यां शकुन्तलाम् ॥१०८ इति संचिन्तयन्नेव संगृहीतसमित्कुशम् । सोऽत्रापश्यत्तमायान्तं मुनिं मङ्कणकं नृपः ॥ १०९