Jump to content

उष्ण

विकिपिडिया नं
नेपाललिपि परिक्षण: 𑐠𑑂𑐰 𑐥𑑁𑐫𑐵 𑐣𑐾𑐥𑐵𑐮𑐮𑐶𑐥𑐶𑐂 𑐥𑐬𑐶𑐎𑑂𑐲𑐞 𑐥𑑁 𑐧𑑂𑐰𑐣𑐾𑐟: उष्ण 𑐟𑐶𑐫𑐵𑐡𑐶𑐳𑑄𑑋

उष्ण पौराणिक आधारे मनुयागु वंशजयाम्ह छम्ह हिन्दू पात्र खः।

शास्त्रय् दसु

[सम्पादन]

अग्निपुराणम् — अध्यायः २८१[] गुडुची तत्र तिक्तापि भवत्युष्णातिवीर्यतः ।। २८१.५ ।। उष्णा कषायापि तथा पथ्या भवति मानद । मधुरोपि तथा मांस उष्ण एव प्रकीर्त्तितः ।। २८१.६ ।।

अर्थशास्त्रम् — अधिकरणम् ७ — अध्यायः ६[] "त्वं एतावत्-कार्यं साधय । अहं इदं कार्यं साधयिष्यामि" इति परिपणित-अर्थः ।। ०७.६.०७ ।।

यदि वा मन्येत "शैल-वन-नदी-दुर्गं अटवी-व्यवहितं छिन्न-धान्य-पुरुष-वीवध-आसारं अयवस-इन्धन-उदकं अविज्ञातं प्रकृष्टं अन्य-भाव-देशीयं वा सैन्य-व्यायामानां अलब्ध-भौमं वा देशं परो यास्यति । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-देशं संधिं उपेयात्  ।। ०७.६.०८  ।।
यदि वा मन्येत "प्रवर्ष-उष्ण-शीतं अतिव्याधि-प्रायं उपक्षीण-आहार-उपभोगं सैन्य-व्यायामानां चाउपरोधिकं कार्य-साधनानां ऊनं अतिरिक्तं वा कालं परश्चेष्टिष्यते । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-कालं संधिं उपेयात् ।। ०७.६.०९ ।।
यदि वा मन्येत "प्रत्यादेयं प्रकृति-कोपकं दीर्घ-कालं महा-क्षय-व्ययं अल्पं अनर्थ-अनुबन्धं अकल्यं अधर्म्यं मध्यम-उदासीन-विरुद्धं मित्र-उपघातकं वा कार्यं परः साधयिष्यति । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-अर्थं संधिं उपेयात् ।। ०७.६.१० ।।
एवं देश-कालयोः काल-कार्ययोर्देश-कार्ययोर्देश-काल-कार्याणां…

अर्थशास्त्रम् — अधिकरणम् ९ — अध्यायः ४[] सामवायिकानां अनिर्बन्ध-गामित्वात्पुरोगः इति ।। ०९.४.२३ ।।

तुल्ये लाभे देश-कालौ शक्त्य्-उपायौ प्रिय-अप्रियौ जव-अजवौ सामीप्य-विप्रकर्षौ तदात्व-अनुबन्धौ सारत्व-सातत्ये बाहुल्य-बाहु-गुण्ये च विमृश्य बहु-गुण-युक्तं लाभं आददीत   ।। ०९.४.२४  ।।
लाभ-विघ्नाः कामः कोपः साध्वसं कारुण्यं ह्रीरनार्य-भावो मानः सानुक्रोशता पर-लोक-अपेक्षा धार्मिकत्वं अत्यागित्वं दैन्यं असूया हस्त-गत-अवमानो दौरात्म्यं अविश्वासो भयं अप्रतीकारः शीत-उष्ण-वर्षाणां आक्षम्यं मङ्गल-तिथि-नक्षत्र-इष्टित्वं इति ।। ०९.४.२५ ।।
नक्षत्रं अति पृच्छन्तं बालं अर्थोअतिवर्तते । ।। ०९.४.२६अ ब ।।
अर्थो ह्यर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः ।। ०९.४.२६च्द् ।।

अष्टाङ्गहृदयम् — चिकित्सास्थानम्[] पिप्पलीभिर् युतान् गालान् कलिङ्गैर् मधुकेन वा ॥ ६ ॥
उष्णाम्भसा स-मधुना पिबेत् स-लवणेन वा ।
पटोल-निम्ब-कर्कोट-वेत्र-पत्त्रोदकेन वा ॥ ७ ॥

लिधंसा

[सम्पादन]
  1. विकिस्रोतः – अग्निपुराणम्/अध्यायः २८१
  2. विकिस्रोतः – अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः ६
  3. विकिस्रोतः – अर्थशास्त्रम्/अधिकरणम् ९/अध्यायः ४
  4. विकिस्रोतः – अष्टाङ्गहृदयम्/चिकित्सास्थानम्