Jump to content

आदित्य

विकिपिडिया नं
नेपाललिपि परिक्षण: 𑐠𑑂𑐰 𑐥𑑁𑐫𑐵 𑐣𑐾𑐥𑐵𑐮𑐮𑐶𑐥𑐶𑐂 𑐥𑐬𑐶𑐎𑑂𑐲𑐞 𑐥𑑁 𑐧𑑂𑐰𑐣𑐾𑐟: आदित्य 𑐟𑐶𑐫𑐵𑐡𑐶𑐳𑑄𑑋
An 11th–century sculpture of Surya
Sculpture of the 12 asana
The Sun Temple of Gwalior

आदित्य, हिन्दू धर्म कथं छपुचः द्यः ख। थ्व पुचः द्यःत अदितिकश्यपया सन्तान ख।

खँग्वःयागु उत्पत्ति व छ्येलेज्या

[सम्पादन]

उत्पत्ति व विकास

[सम्पादन]

थ्व खँग्वयागु छ्येलेज्या दक्ले न्ह्य संस्कृतय् जुगु ख। लिपा थ्व खँग्वयागु तत्सम खँग्वया रुपे यक्व भासे, यक्व कथं छ्येलेज्या जुल।

स्वया दिसँ

[सम्पादन]

शास्त्रय् दसु

[सम्पादन]

ऋग्वेदः सूक्तं १.१४३[] “विश्ववेदसं सर्वधनम् । वेद इति धननाम, ‘ वेदः वरिवा' (नि. २. १०. ४ ) इति तन्नामसु पाठात् । तादृशं “यम् अग्निं “भृगवः भृगुगोत्रोत्पन्नाः पापस्य भर्जकाः “पृथिव्याः वेद्याः । एकदेशे कृत्स्नशब्दः । यद्वा । ‘ एतावती वै पृथिवी ' (तै. सं. २. ६. ४. ३) इत्यादिश्रुतेर्वेद्याः पृथिवीत्वम् । तस्या नाभौ उत्तरवेद्यां “भुवनस्य भूतजातस्य “मज्सना बलेन निमित्तेन “आ आभिमुख्येन “ईरिरे ईरितवन्तः स्थापितवन्तः “तम् “अग्निं “स्वे स्वकीये "दमे गृहे उत्तवेद्यां “गीर्भिः स्तुतिभिः “आ “हिनुहि प्राप्नुहि ॥ ‘ हि गतौ वृद्धौ च ' । उतश्च प्रत्ययाच्छन्दसि वावचनम् ' इति हेर्लुगभावः ॥ “यः अग्निः “एकः मुख्यः सन् एक एव वा “वस्वः वसुनो गवादिधनस्य “राजति ईश्वरो भवति । प्रदातुमिति शेषः । राजति इत्यैश्वर्यकर्मा, ‘क्षियति राजति' ( नि. २. २१. ४ ) इति तन्नामसु पाठात् । तत्र दृष्टान्तः। “वरुणो “न वारक आदित्य इव । स यथा सर्वस्य ईष्टे तद्वत् ॥ न यो वरा॑य म॒रुता॑मिव स्व॒नः सेने॑व सृ॒ष्टा दि॒व्या यथा॒शनिः॑ ।

ऋग्वेदः सूक्तं १.१६४[] तृतीयः । भ्राता । घृतऽपृष्ठः । अस्य । अत्र । अपश्यम् । विश्पतिम् । सप्तऽपुत्रम् ॥१ अत्र द्वितीयपादे तच्छब्दश्रुतेः प्रथमपादे प्रतिविशेषणं योग्यक्रियार्थसंबद्धो यच्छब्दोऽध्याहार्यः । योऽयं दिवि द्योतते तस्य “अस्य “वामस्य वननीयस्य संभजनीयस्य आरोग्यार्थिभिः सर्वैः सेवनीयस्य “पलितस्य पालयितुः प्रकाशवृष्ट्यादिप्रदानेन पालकस्य तथा योऽयं दिवि द्योतते “तस्य अस्य “होतुः ह्वातव्यस्य आह्वानार्हस्यादित्यस्य “मध्यमः मध्यमस्थानः। मध्ये भवो वायुरुच्यते । आदित्याग्नी अपेक्ष्य अस्य मध्यमत्वम्। स च “अश्नः सर्वत्र व्याप्तः। न हि वायुरहितः कश्चित्प्रदेशोऽस्ति । तादृशः “भ्राता “अस्ति भ्रातृस्थानीयो भवति । यथा लोके भ्राता पितृधनस्य भागं हरति तद्वत् । मध्यस्थानम् अन्तरिक्षलोकं हरतीति वा । वृष्ट्यर्थं रश्मिभिराहृतानां भौमानां रसानां हरणाद्वा भ्रातेत्युच्यते । पित्र्येण धनेन स्वार्जितेन वा भर्तव्यः भवतीति भ्राता। मध्यमो वायुरपि वृष्ट्यर्थं रसैः भक्तव्यः भवति ।। किंच “घृतपृष्ठः घृतमाहुतिलक्षणं पृष्ठे यस्य तादृशः…

ऋग्वेदः सूक्तं १.१९०[] मृगाणाम् । न । हेतयः । यन्ति । च । इमाः । बृहस्पतेः । अहिऽमायान् । अभि । द्यून् ॥४॥ “अस्य बृहस्पतेः “श्लोकः स्तुत्यात्मिका कीर्तिः गर्जितवाक् वा "दिवि द्योतमाने द्युलोके पृथिव्यां च “ईयते गच्छति व्याप्नोति । यो बृहस्पतिः "अत्यो “न अतनशील आदित्य इव “यक्षभृत् पूजितं हविरादिकं दधानः "विचेताः विविधं चेतयिता प्राणिनां विशिष्टप्रज्ञायुक्तो वा "यंसत् नियच्छति फलम् । किंच "मृगाणां हन्तुमन्विष्यतां "हेतयः न आयुधानीवास्य “बृहस्पतेः “इमाः हेतयो हिंस्राणि आयुधानि "यन्ति गच्छन्ति "च ॥ ‘चवायोगे प्रथमा ' इति न निघातः । "अहिमायान् आगत्य हन्त्र्योऽन्तरिक्षचारिण्यो वा माया येषां वृत्रादीनां तानसुरान् “द्यून दिवसान् ।' कालाध्वनोः०' (पा. सू. २. ३. ५) इति द्वितीया ॥ तान्यायुधानि “अभि लक्षयन्ति च ।। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ।। ये त्वा॑ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीव॑न्ति प॒ज्राः ।

ऋग्वेदः सूक्तं १.२४[] अव॑ । ए॒न॒म् । राजा॑ । वरु॑णः । स॒सृ॒ज्या॒त् । वि॒द्वान् । अद॑ब्धः । वि । मु॒मो॒क्तु॒ । पाशा॑न् ॥१३ शुनःशेपः । हि । अह्वत् । गृभीतः । त्रिषु । आदित्यम् । द्रुऽपदेषु । बद्धः । अव । एनम् । राजा । वरुणः । ससृज्यात् । विद्वान् । अदब्धः । वि । मुमोक्तु । पाशान् ॥१३

लिधंसा

[सम्पादन]
  1. विकिस्रोतः – ऋग्वेदः सूक्तं १.१४३
  2. विकिस्रोतः – ऋग्वेदः सूक्तं १.१६४
  3. विकिस्रोतः – ऋग्वेदः सूक्तं १.१९०
  4. विकिस्रोतः – ऋग्वेदः सूक्तं १.२४