अन्तर
Appearance
शास्त्रय् दसु
[सम्पादन]अर्थशास्त्रम् — अधिकरणम् १ — अध्यायः १२[१] }} <poem>
ये चाप्यस्मबन्धिनो अवश्य-भर्तव्यास्ते लक्षणं अङ्ग-विद्यां जम्भक-विद्यां माया-गतं आश्रम-धर्मं निमित्तं अन्तर-चक्रं इत्यधीयानाः सत्त्रिणः । संसर्ग-विद्यां च ।। ०१.१२.०१ ।।
ये जनपदे शूरास्त्यक्त-आत्मानो हस्तिनं व्यालं वा द्रव्य-हेतोः प्रतियोधयेयुस्ते तीक्ष्णाः ।। ०१.१२.०२ ।।
ये बन्धुषु निह्स्नेहाः क्रूरा अलसाश्च ते रसदाः ।। ०१.१२.०३ ।।
अर्थशास्त्रम् — अधिकरणम् २ — अध्यायः १५[२]
पिण्ड-करः षड्-भागः सेना-भक्तं बलिः कर उत्सङ्गः पार्श्वं पारिहीणिकं औपायनिकं कौष्ठेयकं च राष्ट्रं ।। ०२.१५.०३ ।।
धान्य-मूल्यं कोश-निर्हारः प्रयोग-प्रत्यादानं च क्रयिमं ।। ०२.१५.०४ ।।
सस्य-वर्णानां अर्घ-अन्तरेण विनिमयः परिवर्तकः ।। ०२.१५.०५ ।।
सस्य-याचनं अन्यतः प्रामित्यकं ।। ०२.१५.०६ ।।
तदेव प्रतिदान-अर्थं आपमित्यकं ।। ०२.१५.०७ ।।
अर्थशास्त्रम् — अधिकरणम् २ — अध्यायः ३३[३]
अश्व-अध्यक्षेण रथ-अध्यक्षो व्याख्यातः ।। ०२.३३.०१ ।।
स रथ-कर्म-अन्तान्कारयेत् ।। ०२.३३.०२ ।।
दश-पुरुषो द्वादश-अन्तरो रथः ।। ०२.३३.०३ ।।
तस्मादेक-अन्तर-अवरा आ-षड्-अन्तरादिति सप्त रथाः ।। ०२.३३.०४ ।।
देव-रथ-पुष्य-रथ-सांग्रामिक-पारियाणिक-पर-पुर-अभियानिक-वैनयिकांश्च रथान्कारयेत् ।। ०२.३३.०५ ।।
अर्थशास्त्रम् — अधिकरणम् २ — अध्यायः ६[४]
परम-सांवत्सरिकः पर-प्रचार-संक्रान्तो वा पर्युषितः ।। ०२.६.१९ ।।
नष्ट-प्रस्मृतं आयुक्त-दण्डः पार्श्वं पारिहीणिकं औपायनिकं डमर-गतक-स्वं अपुत्रकं निधिश्चान्य-जातः ।। ०२.६.२० ।।
विक्षेप-व्याधित-अन्तर-आरम्भ-शेषं च व्यय-प्रत्यायः ।। ०२.६.२१ ।।
विक्रिये पण्यानां अर्घ-वृद्धिरुपजा । मान-उन्मान-विशेषो व्याजी । क्रय-संघर्षे वार्ध-वृद्धिः इत्यायः ।। ०२.६.२२ ।।
नित्यो नित्य-उत्पादिको लाभो लाभ-उत्पादिक इति व्ययः बाह्यं अभ्यन्तरं चायं विद्याद्वर्ष-शतादपि ।। ०२.६.२३ ।।