अग्निवर्ण
Appearance
शास्त्रय् दसु
[सम्पादन]बौधायनधर्मसूत्रम्[१] १।४।६।२-२ तस्माच् छौचं कृत्वा पाणिना परिमृजीत पर्यग्निकरणं हितत् । उद्दीप्यस्व जातवेद इति पुनर्दाहाद् विशिष्यते ॥ १।४।६।३ तत्रापि किंचित् संस्पृष्टं मनसि मन्येत [k: मन्यते] कुशैर्वा तृणैर् वा प्रज्वाल्य प्रदक्षिणं परिदहनम् ॥ १।४।६।४ अत ऊर्ध्वं श्ववायसप्रभृत्युपहतानाम् अग्निवर्ण इत्युपदिशन्ति ॥ १।४।६।५ मूत्रपुरीषलोहित[k: रोहित]रेतःप्रभृत्युपहतानामुत्सर्गः ॥ १।४।६।६ भग्ने कमण्डलौ व्याहृतिभिः शतं जुहुयाज् जपेद् वा ॥
विश्वक्सेनासंहिता — अध्यायः १३[२] शातकुम्भनिभो वर्ण: प्रद्युम्नोऽमर उच्यते ।। 33 ।। पिप्पलादो मुनिर्मुद्राविद्यायाश्छन्द उच्यते। प्रतिष्ठा अग्निवर्ण: स्यादनिरुद्धोऽधिदैवतम् ।। 34 ।। ऋषिर्दक्षो विराट्छन्द: कमला देवता स्मृता। वर्णो दीपनिभ: पद्मविद्याया मुनिसत्तम ।। 35 ।।