सम्भूत
शास्त्रय् दसु
[सम्पादन]अधिकारणचिन्तामणिः — प्रथमोऽध्यायः[१] 37. तर्हि भेदकं विशेषणं भेद्यं विशेष्यमिति विचक्षणप्रवादो व्यर्थः स्यादित्याशङ्क्याह-- तत्तदिति। तत्र तत्तद्विशेषणप्रतिपन्नाकारविरुद्धाकारनिवर्तनं क्रियते न पुनरविरुद्धाकारनिवर्तनम्। यथा नीलमित्युक्ते सति अनीलाद्व्यावृत्तिः क्रियते न पुनरविरुद्धस्योत्पलत्वस्य व्यावृत्तिः। एवमुत्पलमित्युक्ते ऽप्यनुत्पलादेरेव व्यावृत्तिः। न पुनरविरुद्धस्य नीलत्वस्य व्यावृत्तिः। नीलत्वोपलत्वयोस्सामानाधिकरण्येनैव दृष्टत्वात् नीलोत्पलशब्दयोर्यथा दर्शनं व्युत्पत्तेश्च। तेन भेदकत्वं च सिद्धं विशेषणानां विरोधे व्यावर्तकत्वात्। अविरोधे पुनरसिद्धमिति। तर्हि ' यतो वा इमानि भूतानि' इत्यादिवाक्यं भवद्भिर्लक्षणत्वेन प्रधानतयोच्यते। तस्मिन् वाक्ये यत इत्यादिना वैयधिकरण्ये सत्यपि यत्कारणं यच्च स्थापकं यच्च पुनः संहारकं तद्ब्राहृेत्युत्तरेण सामानाधइकरण्येमेव विवक्षितम्। तत्र हेतुत्वादीनां परस्यविरुद्धानां कथमिव लक्षणत्वम्? न हि जनक एव विनाशयति। अतो विरुद्धविशेषणत्वाद् हेतुत्वादिकं न ब्राहृलक्षणमिति। अत्रोत्तरमाह-- व्याघआ…
कल्पवृक्षः[२] अनेन जीवेनात्मनानुप्रविश्येत्यादि । तस्मा एतस्मादात्मन आकाशः सम्भूत इत्यादि च श्रुतेः भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थित इति शैवश्रुतेश्च ।
काशिका — षष्ठोऽध्यायः — द्वितीयः पादः[३] </6-2-145> संज्ञायामनाचितादीनाम् ।। <6-2-146> ।। संज्ञायां विषये गतिकारकोपपदात् क्तान्तमुत्तरपदमन्तोदात्तं भवति आचितादीन्वर्जयित्वा । सम्भूतो रामायणः । उपहूतः शाकल्यः । परिजग्धः कौण्डिन्यः । सम्भूत इति प्राप्त्यर्थाद् भवतेः कर्मणि क्तः । गतिरनन्तरः(6-2-49/3783) इत्यत्र हि कर्मणि इत्यनुवर्त्तते , तद्बाधनार्थं चेदम् । धनुष्खाता नदी । कुद्दालखाता नगरी । हस्तिमृदिता भूमिः । तृतीया कर्मणि(6-2-48/3782) इति प्राप्तिरिह बाध्यते । अनाचितादीनामिति किम्? आचितम् । पर्याचितम् । पर्याचितम् । आस्थापितम् । परगृहीतम् । निरुक्तम् । प्रतिपन्नम् । प्राश्लिष्टम् । उपहतम् । उपस्थितम् ।। संहिताऽगवि । संहिताशब्दो यदा गोरन्यस्य संज्ञा, तदाऽन्तोदात्त एव ।। </6-2-146> प्रवृद्धादीनां च ।। <6-2-147> ।।
काशिकाविवरणपञ्जिका — षष्ठोऽध्यायः — द्वितीयः पादः[४] 146. संज्ञायामनाचितादीनाम्। (6.2.146) `उपहूतः' इति। ह्वेञो निष्ठा, `वचिस्वपि' (6.1.15) इत्यादिना संप्रसारणम्, `हलपः' (6.4.2) इति दीर्घः। `परिजग्धः' इति। `अदो जग्धिर्ल्यप्ति किति' (2.4.36) इत्यदेर्जग्धिरादेशः। `झषस्ततोर्धोऽधः' (8.2.40) इति घत्वम्। `कर्मणि क्तः' इति। भवतेरकर्मकत्वात् कर्मनिष्ठा नोपपद्यत इति सम्भूत इति कर्तरीयं निष्ठेति कस्यचिद्भ्रमः स्यात्, अतस्तन्निराकरणायाह--`सम्भूतः' इति। अनेकार्थत्वाद्धातूनां भवतिरत्र प्राप्तौ वर्तते। ये च प्राप्त्यर्थास्ते नियोगतः प्राप्त्यैव कर्मणा सकर्मका सकर्मका भवन्ति। यथा--`णीञ् प्रापणे' (धा.पा.901) इत्येवमादयः। तास्मात् प्राप्त्यर्थाद्भवतेः सम्भूत इत्यत्र कर्मणि क्त-। किं पुनः कारणं कर्मणि क्त इष्यते? इत्याह--`गतिरनन्तर इत्यत्र कर्मणीत्यनुवर्तते' (इति। ततः किम्? इत्याह--`तद्बाधनार्थं चेदम्' इति। `गतिरनन्तरः' (6.2.49) इत्यत्र हि कर्मणीत्यनुवर्तते। इदं च सूत्रं, तत् `गतिरनन्तरः' (6.2.49) इत्यस्यैव बाधनार्थम्। एवं चैतद्गतिस्वरस्य बाधक…