Jump to content

समृद्धं

विकिपिडिया नं
समृद्धं
मू भाय् संस्कृत

समृद्धं छगु संस्कृत भाषायागु खँग्वः खः। थ्व खँग्वःयागु छ्येलेज्या येक्व सफूस्तोत्रय् जुगु दु।

खँग्वःयागु उत्पत्ति व छ्येलेज्या

[सम्पादन]

उत्पत्ति व विकास

[सम्पादन]

थ्व खँग्वयागु छ्येलेज्या दक्ले न्ह्य संस्कृतय् जुगु ख। लिपा थ्व खँग्वयागु तत्सम खँग्वया रुपे यक्व भासे, यक्व कथलं छ्येलेज्या जुल।

छ्येलेज्या

[सम्पादन]

थ्व खँग्वयागु छ्येलेज्या संस्कृतय् व संस्कृत नाप स्वापू दुगु व संस्कृत नं बुया वगु भाषे जुगु खने दु।

  • दसु — आग्नावैष्णव्यौ रूपसमृद्धे यतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति। []
  • दसु — व्यग्रतयानुष्ठानस्य निषेधः</ref>सोमाय क्रीताय प्रोह्यमाणायानुब्रूहीत्याहाध्वर्युर्भद्रादभि श्रेयः प्रेहीत्यन्वाहायं वाव लोको भद्रस्तस्मादसावेव लोकः श्रेयान्स्वर्गमेव तल्लोकं यजमानं गमयति बृहस्पतिः पुरएता ते अस्त्विति ब्रह्म वै बृहस्पतिर्ब्रह्मैवास्मा एतत्पुरोगवमकः न वै ब्रह्मण्वद्रि ष्यत्यथेमव स्य वर आ पृथिव्या इति देवयजनं वै वरं पृथिव्यै देवयजन एवैनं तदवसाययत्यारे शत्रून्कृणुहि सर्ववीर इति द्विषन्तमेवास्मै तत्पाप्मानं भ्रातृव्यमपबाधतेऽधरं पादयति सोम यास्ते मयोभुव इति तृचं सौम्यं गायत्रमन्वाह सोमे राजनि प्रोह्यमाणे स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयति सर्वे नन्दन्ति यशसागतेनेत्यन्वाह यशो वै सोमो राजा सर्वो ह वा एतेन क्रीयमाणेन नन्दति यश्च यज्ञे लप्स्यमानो भवति यश्च न सभासाहेन सख्या सखाय इत्येष वै ब्राह्मणानां सभासाहः सखा यत्सोमो राजा किल्बिषस्पृदित्येष उ एव किल्बिषस्पृद्यो वै भवति यः श्रेष्ठतामश्नुते स किल्बिषं भवति तस्मादाहुर्मानुवोचो मा प्रचारीः किल्बिषं नु मा यातयन्निति पितुषणिरित्यन्नं वै पितु दक्षिणा वै पितु तामेनेन सनोत्यन्नसनिमेवैनं तत्करोत्यरं हितो भवति वाजिनायेतीन्द्रियं वै वीर्यं वाजिनमाजरसं हास्मै वाजिनं नापछिद्यते य एवं वेदागन्देव इत्यन्वाहागतो हि स तर्हि भवत्यृतुभिर्वर्धतु क्षयमित्यृतवो वै सोमस्य राज्ञो राजभ्रातरो यथा मनुष्यस्य तैरेवैनं तत्सहागमयति दधातु नः सविता सुप्रजामिषमित्याशिषमाशास्ते स नः क्षपाभिरहभिश्च जिन्वत्वित्यहानि वा अहानि रात्रयः क्षपा अहोरात्रैरेवास्मा एतामाशिषमाशास्ते प्रजावन्तं रयिमस्मे समिन्वत्वित्याशिषमेवाशास्ते या ते धामानि हविषा यजन्तीत्यन्वाह ता ते विश्वा परिभूरस्तु यज्ञं गयस्फानः प्रतरणः सुवीर इति गवां नः स्फावयिता प्रतारयितैधीत्येव तदाहावीरहा प्र चरा सोम दुर्यानिति गृहा वै दुर्या बिभ्यति वै सोमाद्राज्ञ आयतो यजमानस्य गृहाः स यदेतामन्वाह शान्त्यैवैनं तच्छमयति सोऽस्य शान्तो न प्रजां न पशून्हिनस्तीमां धियं शिक्षमाणस्य देवेति वारुण्य परिदधाति वरुणदेवत्यो वा एष तावद्यावदुपनद्धो यावत्परिश्रितानि प्रपद्यते स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयति शिक्षमाणस्य देवेति शिक्षते वा एष यो यजते क्रतुं दक्षं वरुण संशिशाधीति वीर्यं प्रज्ञानं वरुण सं शिशाधीत्येव तदाह ययाति विश्वा दुरितातरेम सुतर्माणमधि नावं रुहेमेति यज्ञो वै सुतर्मा नौः कृष्णाजिनं वै सुतर्मा नौर्वाग्वै सुतर्मा नौर्वाचमेव तदारुह्य तया स्वर्गं लोकमभि संतरति ता एता अष्टावन्वाह रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ता द्वादश सम्पद्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय। []
  • दसु — ब्राह्मणग्रन्थविहिताया एवाहुतेः स्वर्ग्याहुतित्वनिरूपणम् </ref>अग्नये मथ्यमानायानुब्रूहीत्याहाध्वर्युरभि त्वा देवा सवितरिति सावित्रीमन्वाह तदाहुर्यदग्नये मथ्यमानायानु वाचाहाथ कस्मात्सावित्रीमन्वाहेति सविता वै प्रसवानामीशे सवितृप्रसूता एवैनं तन्मन्थन्ति तस्मात्सावित्रीमन्वाह मही द्यौः पृथिवी च न इति द्यावापृथिवीयामन्वाह तदाहुर्यदग्नये मथ्यमानायानु वाचाहाथ कस्माद्द्यावापृथिवीयामन्वाहेति द्यावापृथिवीभ्यां वा एतं जातं देवाः पर्यगृह्णंस्ताभ्यामेवाद्यापि परिगृहीतस्तस्माद्द्यावापृथिवीयामन्वाह त्वामग्ने पुष्करादधीति तृचमाग्नेयं गायत्रमन्वाहाग्नौ मथ्यमाने स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयत्यथर्वा निरमन्थतेति रूपसमृद्धं एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति स यदि न जायेत यदि चिरं जायेत राक्षोघ्न्यो गायत्र्योऽनूच्या अग्ने हंसि न्यत्रिणमित्येता रक्षसामपहत्यै रक्षांसि वा एनं तर्ह्यालभन्ते यर्हि न जायते यर्हि चिरं जायते स यद्येकस्यामेवानूक्तायां जायेत यदि द्वयोरथोत ब्रुवन्तु जन्तव इति जाताय जातवतीमभिरूपा-मनुब्रूयाद्यद्यज्ञेऽभिरूपं तत्समृद्ध आ यं हस्ते न खादिनमिति हस्ताभ्यां ह्येनं मन्थन्ति शिशुं जातमिति शिशुरिव वा एष प्रथमजातो यदग्निर्न बिभ्रति विशामग्निं स्वध्वरमिति यद्वै देवानां नेति तदेषामोमिति प्र देवं देववीतये भरता वसुवित्तममिति प्रह्रियमाणायाभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम् आ स्वे योनौ नि षीदत्वित्येष ह वा अस्य स्वो योनिर्यदग्निरग्नेरा जातं जातवेदसीति जात इतरो जातवेदा इतरः प्रियं शिशीतातिथिमित्येष ह वा अस्य प्रियो-ऽतिथिर्यदग्निरग्नेः स्योन आ गृहपतिमिति शान्त्यामेवैनं तद्दधात्यग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा हव्यवाड् जुह्वास्य इत्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धं त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सतेति विप्र इतरो विप्रः सन् इतरः सन्नितरः सखा सख्या समिध्यस इत्येष ह वा अस्य स्वः सखा यदग्निरग्नेस्तम्मर्जयन्त सुक्रतुं पुरोयावानमाजिषु स्वेषु क्षयेषु वाजिनमिति एष ह वा अस्य स्वः क्षयो यदग्निरग्नेर्यज्ञेन यज्ञमयजन्त देवा इत्युत्तमया परिदधाति यज्ञेन वै तद्देवा यज्ञमयजन्त यदग्निनाग्निमयजन्त ते स्वर्गं लोकमायंस्तानि धर्माणि प्रथमान्यासन्ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवा इति छन्दांसि वै साध्या देवास्तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्गं लोकमायन्नादित्याश्चैवेहासन्नङ्गिरसश्च तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्गं लोकमायन्सैषा स्वर्ग्याहुतिर्यदग्न्याहुतिर्यदि ह व अप्यब्राह्मणोक्तो यदि दुरुक्तोक्तो यजतेऽथ हैषाहुतिर्गच्छत्येव देवान्न पाप्मना संसृज्यते गच्छत्यस्याहुतिर्देवान्नास्याहुतिः पाप्मना संसृज्यते य एवं वेद ता एतास्त्रयोदशान्वाह रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ताः सप्तदश सम्पद्यन्ते सप्तदशो वै प्रजापतिर्द्वादश मासाः पञ्चर्तवस्तावान्संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय। []
  • दसु — विकल्पेऽष्टौ दोषाः, परिसङ्ख्यायां त्रयो दोषाश्चेति कथनम् </ref>समिधाग्निं दुवस्यता प्यायस्व समेतु त इत्याज्यभागयोः पुरोनुवाक्ये भवत आतिथ्यवत्यौ रूपसमृद्धे एतद्वै यज्ञस्य समृधं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति सैषाग्नेय्यतिथिमती न सौम्यातिथिमत्यस्ति यत्सौम्यातिथिमती स्याच्छश्वत्सा स्यादेतत्त्वेवैषातिथिमति यदापीनवती यदा वा अतिथिम्परिवेविषत्यापीन इव वै स तर्हि भवति तयोर्जुषाणेनैव यजतीदं विष्णुर्वि चक्रमे तदस्य प्रियमभि पाथो अश्यामिति वैष्णव्यौ त्रिपदामनूच्य चतुष्पदया यजति सप्त पदानि भवन्ति शिरो व एतद्यज्ञस्य यदातिथ्यं सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधाति होतारं चित्ररथमध्वरस्य प्रप्राय-मग्निर्भरतस्य शृण्व इति स्विष्टकृतः संयाज्ये भवत आतिथ्यवत्यौ रूपसमृद्धे एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति त्रिष्टुभौ भवतः सेन्द्रि यत्वाये ळान्तम्भवतीळान्तेन वा एतेन देवा अराध्नुवन्यदातिथ्यं तस्मा-दिळान्तमेव कर्तव्यम्प्रयाजानेवात्र यजन्ति नानुयाजान्प्राणा वै प्रयाजानु-याजास्ते य इमे शीर्षन्प्राणास्ते प्रयाजा येऽवाञ्चस्तेऽनुयाजाः स योऽत्रानुया-जान्यजेद्यथेमान्प्राणानालुप्य शीर्षन्धित्सेत्तादृक्तदतिरिक्तं तत्समु वा इमे प्राणा विद्रे ये चेमे ये चेमे तद्यदेवात्र प्रयाजान्यजन्ति नानुयाजांस्तत्र स काम उपाप्तो योऽनुयाजेषु। []
  • दसु — अभिष्टवस्य पूर्वपटलसमाप्तिकारिका</ref>गणानां त्वा गणपतिं हवामह इति ब्राह्मणस्पत्यं ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनं तद्भिषज्यति प्रथश्च यस्य सप्रथश्च नामेति घर्मतन्वः सतनुमेवैनं तत्सरूपं करोति रथंतरमाजभारा वसिष्ठः भरद्वाजो बृहदा चक्रे अग्नेरिति बृहद्रथंतरवन्तमेवैनं तत्करोत्यपश्यं त्वा मनसा चेकितानमिति प्रजावान्प्राजापत्यः प्रजामेवास्मिंस्तद्दधाति का राधद्धोत्राश्विना वामिति नव विच्छन्दसस्तदेतद्यज्ञस्यान्तस्त्यं विक्षुद्रमिव व अन्तस्त्यमणीय इव च स्थवीय इव च तस्मादेता विच्छन्दसो भवन्त्येताभिर्हाश्विनोः कक्षीवान्प्रियं धामोपागछत्स परमं लोकमजयदुपाश्विनोः प्रियं धाम गच्छति जयति परमं लोकं य एवं वेदाभात्यग्निरुषसामनीकमिति सूक्तं पीपिवांसमश्विना घर्ममच्छेत्यभिरूपं यद्यज्ञेऽभिरूपं तत्समृद्धं तदु त्रैष्टुभं वीर्यं वै त्रिष्टुब्वीर्यमेवास्मिंस्तद्दधाति ग्रावाणेव तदिदर्थं जरेथे इति सूक्तमक्षी इव कर्णाविव नासेवेत्यङ्गसमाख्यायमेवास्मिंस्तदिन्द्रियाणि दधाति तदु त्रैष्टुभं वीर्यं वै त्रिष्टुब्वीर्यमेवास्मिंस्तद्दधातीळे द्यावापृथिवी पूर्वचित्तय इति सूक्तमग्निं घर्मं सुरुचं यामन्निष्टय इत्यभिरूपं यद्यज्ञेऽभिरूपं तत्समृद्धं तदु जागतं जागता वै पशवः पशूनेवास्मिंस्तद्दधाति याभिरमुमावतं याभिरमुमावतमित्येतावतो होत्राश्विनौ कामान्ददृशतुस्तानेवास्मिंस्तद्दधाति तैरेवैनं तत्समर्धयत्यरूरुचदुषसः पृश्निरग्रिय इति रुचितवती रुचमेवास्मिंस्तद्दधाति द्युभिरक्तुभिः परि पातमस्मानित्युत्तमया परिदधात्यरिष्टेभिरश्विना सौभगेभिः तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौरित्येतैरेवैनं तत्कामैः समर्धयतीति नु पूर्वं पटलम्। []


मेमेगु भाषे छ्येलिगु रुप

[सम्पादन]

मेमेगु भाषे थ्व खँग्वयात छ्येलिगु रुप थ्व कथलं दु

स्वया दिसँ

[सम्पादन]

पिनेयागु स्वापू

[सम्पादन]

संस्कृत खँग्वसफू
(थ्व भाषा नाप स्वापू दुगु चीहाकगु च्वसु खः। थ्व च्वसुय् अप्व तथ्य तनादीत ईनाप दु।)

लिधंसा

[सम्पादन]
  1. विकिस्रोतः – ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)
  2. विकिस्रोतः – ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)
  3. विकिस्रोतः – ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)
  4. विकिस्रोतः – ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)
  5. विकिस्रोतः – ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)