रुच
शास्त्रय् दसु
[सम्पादन]ऋग्वेदः सूक्तं १.११२[१]

<poem> ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये । याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥१॥ युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे ।
ऋग्वेदः सूक्तं १.१२१[२] इन्दुः । येभिः । आष्ट । स्वऽइदुहव्यैः । स्रुवेण । सिञ्चन् । जरणा । अभि । धाम ॥६ “अध इदानीमयमिन्द्रः स्तुतिभिः प्रीयमाणः सन् “प्र “जज्ञे प्रकर्षेण प्रादुर्बभूव। सः “तरणिः शत्रूणां तारकोऽस्मान् “ममत्तु मादयतु । स च “प्र “रोचि प्रकृष्टं रोचते । तत्र दृष्टान्तः । “अस्याः अस्माभिर्दृश्यमानायाः “उषसः समीपे वर्तमानः “सूरः “न सूर्य इव । “जरणा जरणीयः स्तोतव्यः “इन्दुः सोमः “धाम आहवनीयलक्षणं स्थानम् अभिलक्ष्य “स्रुवेण “सिञ्चन् सिच्यमानः सन् 'स्वेदुहव्यैः स्वभूतसमृद्धहविष्कैः "येभिः यैरस्माभिः “आष्ट आशितः आसीत् । तानस्मान्मादयत्वित्यर्थः ॥ जज्ञे। ‘ जनी प्रादुर्भावे'। लिटि ‘ गमहन' इति उपधालोपः । ममत्तु । ‘मदी हर्षे '। ‘ बहुलं छन्दसि' इति विकरणस्य श्लुः । रोचि । “ रुच दीप्तौ । छान्दसो वर्तमाने लुङ् । व्यत्ययेन च्ले: चिणादेशः । आष्ट । ‘अश भोजने '। कर्मणि लङि ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । व्रश्चादिषत्वे ष्टुत्वम् । आडागमः । ‘ यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । स्वेदुहव्यैः। ‘इदि परमैश्व…
ऋग्वेदः सूक्तं १.१४[३] विप्रः । होता । इह । वक्षति ॥९ "विप्रः मेधावी "होता होमनिष्पादकोऽग्निः "उषर्बुधः उषःकाले योगगमनाय प्रबुध्यमानान् "विश्वान् “देवान "सूर्यस्य संबन्धिनः "रोचनात् स्वर्गलोकात् "इह कर्मणि "आकीं “वक्षति आवहतु॥ आकीम् । निपात आद्युदात्तः । सूर्यस्य । सूर्यशब्दो ‘ राजसूयसूर्य° ' ( पा. सू. ३. १. ११४ ) इत्यादिना क्यप्प्रत्ययान्तो निपातितः । क्यपः पित्त्वात् धातुस्वरेणाद्युदात्तः । रोचनात् रोचमानात् । “ रुच दीप्तौ ' । ‘अनुदात्तेतश्च हलादेः' (पा. सू. ३. २. १४९ ) इति कर्तरि युच् । चितः' इत्यन्तोदात्तत्वम् । विश्वान् । विशेः क्वनन्तो नित्त्वादाद्युदात्तः । उपर्बुधः। उषर्बुध्यन्ते इत्युषर्बुधः। ‘क्विप् च' (पा. सू. ३. २. ७६ ) इति क्विप् । धातुस्वरेण उकार उदात्तः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । विप्रः । ‘ऋज़ेन्द्र ' ( उ. सू. २. १८६ ) इत्यादिना रन् । नित्वादाद्युदात्तः । होता । ह्वयतेस्ताच्छील्ये तृन् । ‘बहुलं छन्दसि ' इति संप्रसारणम् । परपूर्वत्वम् । गुणः । नित्त्वादाद्युदात्तः । इह । ‘ इदमो हः ' (…
ऋग्वेदः सूक्तं १.१४९[४] सूरः । न । रुरुक्वान् । शतऽआत्मा ॥३ “यः अग्निः “नार्मिणीं नर्मवतीं यजमानानां संबन्धिनीम् उत्तरवेदिम् । यद्वा। नृणां मनसि स्थितां यजमानानां यज्ञार्थं यां भूमिं प्रति अग्न्यागमनमनीषा विद्यते ताम् । “पुरं तत्स्थानम् “आ “अदीदेत् दीपयति । कीदृशोऽयम् । “अत्यः अपेक्षितदेशं प्रति अतनशीलः “कविः क्रान्तदर्शी । तत्र दृष्टान्तः । “अर्वा अरणकुशलः "नभन्यो "न नभस्याकाशे भवो नभस्वान् वायुरिव । किंच “शतात्मा । शतं सहस्रम् इत्यपरिमितवचनः । तत्तद्यजमानगृहापेक्षया आहवनीय गार्हपत्याद्यपेक्षया वा नानारूपत्वम् । अथवा मित्रवरुणभेदेन अग्नेः मित्रादिरूपं ‘ त्वमग्ने वरुणो जायसे यत्' (ऋ. सं. ५.३.१), ‘इन्द्रं मित्रं वरुणमग्निमाहुः' (ऋ. सं. १.१६४.४६ ) इत्यादिश्रुतिषु प्रसिद्धम्। अग्नेरेव इन्द्राद्यात्मकत्वमाहुरिति द्वितीयमन्त्रस्यार्थः । तादृशोऽयं “सूरो “न सूर्य इव "रुरुक्वान् दीप्यमानः ॥ ‘रुच दीप्तौ' । छान्दसस्य लिटः क्वसुः । अतः स तादृशोऽग्निरस्ति उत्कृष्टं वर्तते इति पूर्वत्रान्वयः ।। अ॒भि द्वि॒जन्मा॒ त्री रो॑च॒न…