प्रवीर
Appearance
शास्त्रय् दसु
[सम्पादन]अर्थशास्त्रम् — अधिकरणम् १ — अध्यायः १८[१]
तथाअप्यतुष्यन्तं अन्यस्मिन्पुत्रे दारेषु वा स्निह्यन्तं अरण्यायऽपृच्छेत ।। ०१.१८.०५ ।।
बन्ध-वध-भयाद्वा यः सामन्तो न्याय-वृत्तिर्धार्मिकः सत्य-वाग्-अविसंवादकः प्रतिग्रहीता मानयिता चाभिपन्नानां तं आश्रयेत ।। ०१.१८.०६ ।।
तत्रस्थः कोश-दण्ड-सम्पन्नः प्रवीर-पुरुष-कन्या-सम्बन्धं अटवी-सम्बन्धं कृत्य-पक्ष-उपग्रहं च कुर्यात् ।। ०१.१८.०७ ।।
एक-चरः सुवर्ण-पाक-मणि-राग-हेम-रूप्य-पण्य-आकर-कर्म-अन्तानाजीवेत् ।। ०१.१८.०८ ।।
पाषण्ड-संघ-द्रव्यं अश्रोत्रिय-उपभोग्यं वा देव-द्रव्यं आढ्य-विधवा-द्रव्यं वा गूढं अनुप्रविश्य सार्थ-यान-पात्राणि च मदन-रस-योगेनातिसंधायापहरेत् ।। ०१.१८.०९ ।।
अर्थशास्त्रम् — अधिकरणम् १० — अध्यायः ३[२]
सूत-मागधाः शूराणां स्वर्गं अस्वर्गं भीरूणां जाति-संघ-कुल-कर्म-वृत्त-स्तवं च योधानां वर्णयेयुः ।। १०.३.४३ ।।
पुरोहित-पुरुषाः कृत्य-अभिचारं ब्रूयुः । यन्त्रिक-वर्धकि-मौहूर्तिकाः स्व-कर्म-सिद्धिं असिद्धिं परेषां ।। १०.३.४४ ।।
सेना-पतिरर्थ-मानाभ्यां अभिसंस्कृतं अनीकं आभाषेत "शत-साहस्रो राज-वधः । पञ्चाशत्-साहस्रः सेना-पति-कुमार-वधः । दश-साहस्रः प्रवीर-मुख्य-वधः । पञ्च-साहस्रो हस्ति-रथ-वधः । साहस्रोअश्व-वधः । शत्यः पत्ति-मुख्य-वधः । शिरो विंशतिकं भोग-द्वैगुण्यं स्वयं-ग्राहश्च" इति ।। १०.३.४५ ।।
तदेषां दश-वर्ग-अधिपतयो विद्युः ।। १०.३.४६ ।।
चिकित्सकाः शस्त्र-यन्त्र-अगद-स्नेह-वस्त्र-हस्ताः स्त्रियश्चान्न-पान-रक्षिण्यः पुरुषाणां उद्धर्षणीयाः पृष्ठतस्तिष्ठेयुः ।। १०.३.४७ ।।
अर्थशास्त्रम् — अधिकरणम् १३ — अध्यायः ३[३]
अथएकं अमात्यं निष्पातयेत् ।। १३.३.११ ।।
स परं आश्रित्य योग-अपसर्प-अपरक्त-दूष्यानशक्तिमतः स्तेनऽटविकानुभय-उपघातकान्वा परस्यौपहरेत् ।। १३.३.१२ ।।
आप्त-भाव-उपगतः प्रवीर-पुरुष-उपघातं अस्यौपहरेदन्त-पालं आटविकं दण्ड-चारिणं वा "दृढं असौ चासौ च ते शत्रुणा संधत्ते" इति ।। १३.३.१३ ।।
अथ पश्चादभित्यक्त-शासनैरेनान्घातयेत् ।। १३.३.१४ ।।
दण्ड-बल-व्यवहारेण वा शत्रुं उद्योज्य घातयेत् ।। १३.३.१५ ।।
अर्थशास्त्रम् — अधिकरणम् १३ — अध्यायः ४[४]
विक्रान्तं प्रकृतिभिर्दूष्य-मुख्य-उपग्रहेण वा घातयेत् । स्वयं वा रसेन "मित्र-घातकोअयम्" इत्यवाप्त-अर्थः ।। १३.४.४५ ।।
विक्रमितु-कामं वा मित्र-व्यञ्जनः परस्याभिशंसेत् ।। १३.४.४६ ।।
आप्त-भाव-उपगतः प्रवीर-पुरुषानस्यौपघातयेत् ।। १३.४.४७ ।।
संधिं वा कृत्वा जन-पदं एनं निवेशयेत् ।। १३.४.४८ ।।
निविष्टं अस्य जन-पदं अविज्ञातो हन्यात् ।। १३.४.४९ ।।