आर्द्र
Appearance
शास्त्रय् दसु
[सम्पादन]अर्थशास्त्रम् — अधिकरणम् २ — अध्यायः १५[१]
ततोअर्धं आपद्-अर्थं जानपदानां स्थापयेद् । अर्धं उपयुञ्जीत ।। ०२.१५.२२ ।।
नवेन चानवं शोधयेत् ।। ०२.१५.२३ ।।
क्षुण्ण-घृष्ट-पिष्ट-भृष्टानां आर्द्र-शुष्क-सिद्धानां च धान्यानां वृद्धि-क्षय-प्रमाणानि प्रत्यक्षी-कुर्वीत ।। ०२.१५.२४ ।।
कोद्रव-व्रीहीणां अर्धं सारः । शालीनां अर्ध-भाग-ऊनः । त्रि-भाग-ऊनो वरकाणां ।। ०२.१५.२५ ।।
प्रियङ्गूणां अर्धं सारो नव-भाग-वृद्धिश्च ।। ०२.१५.२६ ।।
अष्टाङ्गहृदयम् — चिकित्सास्थानम्[२]
पित्तानुबन्धयोर् वात-कफयोः पित्त-नाशिनीम् ॥ ७१ ॥
वात-श्लेष्मात्मके शुष्के स्निग्धम् आर्द्रे विरूक्षणम् ।
कासे कर्म स-पित्ते तु कफ-जे तिक्त-संयुतम् ॥ ७२ ॥
अष्टाङ्गहृदयम् — सूत्रस्थानम् — अध्यायः २[३]
अनुकुर्यात् तम् एवातो लौकिके ऽर्थे परीक्षकः ॥ ४५ ॥
आर्द्र-संतान-ता त्यागः काय-वाक्-चेतसां दमः ।
स्वार्थ-बुद्धिः परार्थेषु पर्याप्तम् इति सद्-व्रतम् ॥ ४६ ॥
अष्टाङ्गहृदयम् — सूत्रस्थानम् — अध्यायः ७[४]
पाकः फलानाम् आमानां पक्वानां परिकोथनम् ।
द्रव्याणाम् आर्द्र-शुष्काणां स्यातां म्लानि-विवर्ण-ते ॥ ९ ॥
मृदूनां कठिनानां च भवेत् स्पर्श-विपर्ययः ।