Jump to content

अथर्व-शिख (उपनिषद्)

विकिपिडिया नं
नेपाललिपि परिक्षण: 𑐠𑑂𑐰 𑐥𑑁𑐫𑐵 𑐣𑐾𑐥𑐵𑐮𑐮𑐶𑐥𑐶𑐂 𑐥𑐬𑐶𑐎𑑂𑐲𑐞 𑐥𑑁 𑐧𑑂𑐰𑐣𑐾𑐟: अथर्व-शिख (उपनिषद्) 𑐟𑐶𑐫𑐵𑐡𑐶𑐳𑑄𑑋
The text discusses "Om" or "Aum" as symbolism for Shiva, Vishnu, Brahma, Rudra and Purusha-Brahman.

अथर्व-शिख (उपनिषद्) छगू काव्य ख। थ्व काव्य मुक्तिक उपनिषद्‌या अन्तर्गतय् उपनिषद् दुने ला []। थ्व श्रुति प्रचलनया छगू महत्त्वपूर्ण धार्मिक ग्रन्थ ख।

श्लोक

[सम्पादन]

थुकिया श्लोक थ्व कथं दु-[]

अथर्वशिखोपनिषत्

ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् ।
तुर्यतुर्यंत्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ अथ हैनं पैप्पलादोऽङ्गिराः सनत्कुमारश्चाथर्वणमुवाच भगवन्किमादौ प्रयुक्तं ध्यानं ध्यायितव्यं किं तद्ध्यानं को वा ध्याता कश्च ध्येयः ।
स एभ्योथर्वा प्रत्युवाच ।
ओमित्येतदक्षरमादौ प्रयुक्तं ध्यानं ध्यायितव्यमित्येतदक्षरं परं ब्रह्मास्य पादाश्चत्वारो वेदाश्चतुष्पादिदमक्षरं परं ब्रह्म ।
पूर्वास्य मात्रा पृथिव्यकारः ऋग्भिरृग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः ।
द्वितीयान्तरिक्षं स उकारः स यजुभिर्यजुर्वेदो विष्णुरुद्रास्त्रिष्टुब्दक्षिणाग्निः ।
तृतीयः द्यौः स मकारः स सामभिः सामवेदो रुद्रा आदित्या जगत्याहवनीयः ।
यावसानेऽस्य चतुर्थ्यर्धमात्रा सा सोमलोक ओङ्कारः साथर्वणमन्त्रैरथर्ववेदः संवर्तकोऽग्निर्मरुतो विराडेकर्षिर्भास्वती स्मृता ।
प्रथमा रक्तपीता महद्ब्रह्म दैवत्या ।
द्वितीया विद्युमती कृष्णा विष्णुदैवत्या ।
तृतीया शुभाशुभा शुक्ला रुद्रदैवत्या ।
यावासानेऽस्य चतुर्थ्यर्धमात्रा सा विद्युमती सर्ववर्णा पुरुषदैवत्या ।
स एष ह्योङ्कारश्चतुरक्षरश्चतुष्पादश्चतुःशिरश्चतुर्थमात्रः स्थूलमेतद्_ह्रस्वदीर्घप्लुत इति ॥

ॐ ॐ ॐ इति त्रिरुक्त्वा चतुर्थः शान्त आत्माप्लुतप्रणवप्रयोगेण समस्तमोमिति प्रयुक्त आत्मज्योतिः सकृदावर्तते सकृदुच्चारितमात्रः स एष ऊर्ध्वमन्नमयतीत्योङ्कारः ।
प्राणान्सर्वान्प्रलीयत इति प्रलयः ।
प्राणान्सर्वान्परमात्मनि प्रणानयतीत्येतस्मात्प्रणवः ।
चतुर्थावस्थित इति सर्वदेववेदयोनिः सर्ववाच्यवस्तु प्रणवात्मकम् ॥ १॥

देवाश्चेति संधत्तां सर्वेभ्यो दुःखभयेभ्यः संतारयतीति तारणात्तारः । सर्वे देवाः संविशन्तीति विष्णुः । सर्वाणि बृहयतीति ब्रह्मा । सर्वेभ्योऽन्तस्थानेभ्यो ध्येयेभ्यः प्रदीपवत्प्रकाशयतीति प्रकाशः । प्रकाशेभ्यः सदोमित्यन्तः शरीरे विद्युद्वद्द्योतयति मुहुर्मुहुरिति विद्युद्वत्प्रतीयाद्दिशं दिशं भित्त्वा सर्वांल्लोकान्व्याप्नोति व्यापयतीति व्यापनाद्व्यापी महादेवः ॥ 2॥
पूर्वास्य मात्रा जागर्ति जागरितं द्वितीया स्वप्नं तृतीया सुषुप्तिश्चतुर्थी तुरीयं मात्रा मात्राः प्रतिमात्रागताः सम्यक्समस्तानपि पादाञ्जयतीति स्वयंप्रकाशः स्वयं ब्रह्म भवतीत्येष सिद्धिकर एतस्माद्ध्यानादौ प्रयुज्यते । सर्व करणोपसंहारत्वाद्धार्यधारणाद्ब्रह्म तुरीयम् । सर्वकरणानि मनसि संप्रतिष्ठाप्य ध्यानं विष्णुः प्राणं मनसि सह करणैः संप्रतिष्ठाप्य ध्याता रुद्रः प्राणं मनसि सहकरणैर्नादान्ते परमात्मनि संप्रतिष्ठाप्य ध्यायीतेशानं प्रध्यायितव्यं सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते संप्रसूयन्ते सर्वाणि चेन्द्रियाणि सह भूतैर्न कारणं कारणानां ध्याता कारणं तु ध्येयः सर्वैश्वर्यसंपन्नः शंभुराकाशमध्ये ध्रुवं स्तब्ध्वाधिकं क्षणमेकं क्रतुशतस्यापि चतुःसप्तत्या यत्फलं तदवाप्नोति कृत्स्नमोङ्कारगतिं च सर्वध्यानयोगज्ञानानां यत्फलमोङ्कारो वेद पर ईशो वा शिव एको ध्येयः शिवंकरः सर्वमन्यत्परित्यज्य समस्ताथर्वशिखैतामधीत्य द्विजो गर्भवासाद्विमुक्तो विमुच्यत एतामधीत्य द्विजो गर्भवासाद्विमुक्तो विमुच्यत इत्यो{\म्+}सत्यमित्युपनिषत् ॥ 3॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
॥ इति अथर्ववेदीय अथर्वशिखोपनिषत्समाप्ता ॥


लिधंसा

[सम्पादन]

स्वयादिसँ

[सम्पादन]


उपनिषद्तेगु धलः ॐ
ईश (उपनिषद्)केन (उपनिषद्)कठ (उपनिषद्)प्रश्न (उपनिषद्)मुण्डक (उपनिषद्)माण्डुक्य (उपनिषद्)तैत्तिरीय (उपनिषद्)ऐतरेय (उपनिषद्)छान्दोग्य (उपनिषद्)बृहदारण्यक (उपनिषद्)ब्रह्म (उपनिषद्)कैवल्य (उपनिषद्)जाबाल (उपनिषद्)श्वेताश्वतर (उपनिषद्)हंस (उपनिषद्)आरुणेय (उपनिषद्)गर्भ (उपनिषद्)नारायण (उपनिषद्)परमहंस (उपनिषद्)अमृत-बिन्दु (उपनिषद्)अमृत-नाद (उपनिषद्)अथर्व-शिर (उपनिषद्)अथर्व-शिख (उपनिषद्)मैत्रायणि (उपनिषद्)कौषीताकि (उपनिषद्)बृहज्जाबाल (उपनिषद्)नृसिंहतापनी (उपनिषद्)कालाग्निरुद्र (उपनिषद्)मैत्रेयि (उपनिषद्)सुबाल (उपनिषद्)क्षुरिक (उपनिषद्)मन्त्रिक (उपनिषद्)सर्व-सार (उपनिषद्)निरालम्ब (उपनिषद्)शुक-रहस्य (उपनिषद्)वज्र-सूचिक (उपनिषद्)तेजो-बिन्दु (उपनिषद्)नाद-बिन्दु (उपनिषद्)ध्यानबिन्दु (उपनिषद्)ब्रह्मविद्या (उपनिषद्)योगतत्त्व (उपनिषद्)आत्मबोध (उपनिषद्)परिव्रात् (उपनिषद्)त्रि-षिखि (उपनिषद्)सीतोपनिषद् (उपनिषद्)योगचूडामणि (उपनिषद्)निर्वाण (उपनिषद्)मण्डलब्राह्मण (उपनिषद्)दक्षिणामूर्ति (उपनिषद्)शरभ (उपनिषद्)स्कन्द (उपनिषद्)महानारायण (उपनिषद्)अद्वयतारक (उपनिषद्)रामरहस्य (उपनिषद्)रामतापणि (उपनिषद्)वासुदेव (उपनिषद्)मुद्गल (उपनिषद्)शाण्डिल्य (उपनिषद्)पैंगल (उपनिषद्)भिक्षु (उपनिषद्)महत्-शारीरक (उपनिषद्)योगशिखा (उपनिषद्)तुरीयातीत (उपनिषद्)संन्यास (उपनिषद्)परमहंस-परिव्राजक (उपनिषद्)अक्षमालिक (उपनिषद्)अव्यक्त (उपनिषद्)एकाक्षर (उपनिषद्)अन्नपूर्ण (उपनिषद्)सूर्य (उपनिषद्)अक्षि (उपनिषद्)अध्यात्मा (उपनिषद्)कुण्डिकोपनिषद् (उपनिषद्)सावित्रि (उपनिषद्)आत्मा (उपनिषद्)पाशुपत (उपनिषद्)परब्रह्म (उपनिषद्)अवधूत (उपनिषद्)त्रिपुरातपनोपनिषद् (उपनिषद्)देवि (उपनिषद्)त्रिपुर (उपनिषद्)कर (उपनिषद्)भावन (उपनिषद्)रुद्र-हृदय (उपनिषद्)योग-कुण्डलिनि (उपनिषद्)भस्मोपनिषद् (उपनिषद्)रुद्राक्ष (उपनिषद्)गणपति (उपनिषद्)दर्शन (उपनिषद्)तारसार (उपनिषद्)महावाक्य (उपनिषद्)पञ्च-ब्रह्म (उपनिषद्)प्राणाग्नि-होत्र (उपनिषद्)गोपाल-तपणि (उपनिषद्)कृष्ण (उपनिषद्)याज्ञवल्क्य (उपनिषद्)वराह (उपनिषद्)शात्यायनि (उपनिषद्)हयग्रीव (उपनिषद्)दत्तात्रेय (उपनिषद्)गारुड (उपनिषद्)कलि-सण्टारण (उपनिषद्)जाबाल(सामवेद) (उपनिषद्)सौभाग्य (उपनिषद्)सरस्वती-रहस्य (उपनिषद्)बह्वृच (उपनिषद्)मुक्तिक (उपनिषद्)
हिन्दू धर्म
श्रुति: वेद · उपनिषद · श्रुत
स्मृति: इतिहास (रामायण, महाभारत, श्रीमदभागवत गीता) · पुराण · सुत्र · आगम (तन्त्र, यन्त्र) · वेदान्त
विचा:त: अवतार · आत्मा · ब्राह्मन · कोसस · धर्म · कर्म · मोक्ष · माया · इष्ट-देव · मुर्ति · पूनर्जन्म · हलिम · तत्त्व · त्रिमुर्ति · कतुर्थगुरु
दर्शन: मान्यता · प्राचीन हिन्दू धर्म · साँख्य · न्याय · वैशेषिक · योग · मीमांसा · वेदान्त · तन्त्र · भक्ति
परम्परा: ज्योतिष · आयुर्वेद · आरति · भजन · दर्शन · दिक्षा · मन्त्र · पुजा · सत्संग · स्तोत्र · ईहिपा: · यज्ञ
गुरु: शंकर · रामानुज · माधवाचार्य · रामकृष्ण · शारदा देवी · विवेकानन्द · नारायण गुरु · औरोबिन्दो · रमन महार्षि · शिवानन्द · चिन्‍मयानन्‍द · शुब्रमुनियस्वामी · स्वामीनारायण · प्रभुपद · लोकेनाथ
विभाजन: वैष्णभ · शैव · शक्ति · स्मृति · हिन्दू पूनरुत्थान ज्याझ्व
द्य: द्यतेगु नां · हिन्दू बाखं
युग: सत्य युग · त्रेता युग · द्वापर युग · कलि युग
वर्ण: ब्राह्मन · क्षत्रीय · वैश्य · शुद्र · दलित · वर्णाश्रम धर्म